मानं प्रमाणञ्च (प्रयोगानुसारिणो धात्वर्थाः)

"मानं प्रमाणञ्च"
"माङ् माने"इति दिवादिगणस्थः सकर्मकोऽनिट् आत्मनेपदी धातुस्तथा
"माङ् माने शब्दे च"इति जुहोत्यादिगणस्थः सकर्मकोऽनिट् आत्मनेपदी धातुः।अयं धातुः स्वयम् अनेकार्थको वर्तते।यतोहि एतद्धातुद्वयेन व्युत्यन्नं मानशब्दो येषु अर्थेषु प्रयुज्यते तथैव प्रोपसर्गपूर्वः प्रमाणशब्दोऽपि तेषु अर्थेषु एव प्रयुज्यते।
तत्र मीयतेऽनेनेति व्युत्पत्त्या 
मानं नाम परिच्छेदकम्।तद्धि परिमाणार्थं बोधयति।अर्थात् मानं मापनसाधनं मापकं परिच्छेदकमित्यर्थः।
तद्यथा-
“बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” (ऋग्वेद:-७.८८.५)
तत्र “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य परिच्छेदकमित्यर्थः" इति तद्भाष्ये सायनाचार्यः।
तथाहि-
 "मानेन विना युक्तिर्द्रव्याणां जायते क्वचित्।
अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया॥"
भगवता पाणिनिनाऽपि सूत्रेऽस्मिन्नर्थे मानशब्दस्य प्रयोगो विहितः।तद्यथा- 
"माने वयः"(अष्टाध्यायी-४.३.१६२) अत्र मानं परिमाणार्थे वर्तते।तदुक्तम्-
"मीयते येन तन्मानं प्रस्थादि" (पदमञ्जरी)।
तथाहि 
"मानपश्वङ्गयोः कन्लुकौ च"
(अष्टाध्यायी-५.३.५१)
अत्रापि मानं परिमाणार्थ एवास्ति।तद्व्याख्यातम्-"मानं व्रीहिपरिमितं सुवर्णम्"(पदमञ्जरी)।
अन्यच्च-
"पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः"
(कुमारसम्भवम्-१.१)
मीयतेऽनेनेति मानं परिच्छेदकमित्यर्थः।

             मानं नाम प्रमाणम्।प्रमाणं दर्शनशास्त्रे साक्ष्यरूपे ज्ञानसाधने च कीर्त्यते।
ज्ञानसाधने साक्ष्यरूपे च मानशब्दो दृश्यते।तद्यथा-
"मानाधीना मेयसिद्धिः"
तथाहि-
"माधुर्यौजःप्रसादानां रसधर्मत्वे किं मानम्"-(रसगङ्गाधरः)।
पुनश्च-
"मानं प्रमाणे प्रस्थादौ"
(नानार्थार्णवकोशः)


"प्रमीयतेऽनेनेति प्रमाणम्" इति  व्युत्पत्त्या 
मानच्छब्दवत्प्रमाणशब्दोऽपि  परिमाणार्थे(परिच्छेदकार्थे) साक्ष्यार्थे ज्ञानसाधनार्थे च प्रयुज्यते।
तत्रादौ परिमाणार्थे परिच्छेदकार्थे च प्रमाणशब्दप्रयोगः-
"प्रमाणे च" (अष्टाध्यायी-३/४/५१)
अत्र प्रमाणं परिमाणार्थेऽस्ति। काशिकायां तदुक्तं-
"प्रमाणमायामः, दैर्घ्यम् इति (काशिका)।
"आयामस्तु प्रमाणं स्यात्" इति वचनात् 'प्रमाणम् दैर्घ्यम्' इति (न्यासकारः)
पुनश्च-
"प्रमाणे द्वयसज्दघ्नञ्मात्रचः"
(अष्टाध्यायी-५.२.३७)
अत्रापि प्रमाणशब्दः परिमाणार्थ एव।
अत्रैव वार्तिककारः
"प्रमाणे लः वक्तव्यः" इति वार्तिकं विवृणोति।
अन्यच्च- 
"गोष्पदं सेवितासेवितप्रमाणेषु"-
(अष्टाध्यायी-६.१.१४५)
परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्। कुत एतत्? निपातनसामर्थ्यात्।निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते-(न्यासः)।
"प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव"(सिद्धान्तकौमुदी)।

       ज्ञानसाधने च प्रमाणशब्दो यथा-
"तदशिष्यं सञ्ज्ञाप्रमाणत्वात्"- (अष्टाध्यायी-१.२.५३)
एतत्सूत्रव्याख्यायां न्यासकारः-
"प्रमाणं प्रत्यायका वाचका इत्यर्थः" (न्यासः)।
तथाहि-
"योगप्रमाणे च तदभावेऽदर्शनं स्यात् "
(अष्टाध्यायी-१.२.५५)
अत्र व्याख्यायां न्यासे प्रमाणं प्रत्यायको वाचक इत्यर्थो निरूपितः।
पुनश्च-
"प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" (अष्टाध्यायी-१.२.५६)
अत्र व्याख्यायां "प्रमाणमवगतिहेतु:"(न्यासः)।

       साक्ष्यार्थेऽपि प्रमाणशब्दो बहुत्र लभ्यते।तद्यथा-
"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम् तत्त्वज्ञानात् निःश्रेयसाधिगमः"(न्यायसूत्रम्-१.१.१)
पुनश्च-
"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि"
(न्यायसूत्रम्-१.१.३)।
तथाहि-
"प्रमाणैरर्थपरीक्षणं न्यायः” 
(न्यायभाष्यम्-१.१.१)।

अन्यत्रापि 
"त्रिविधं प्रमाणमिष्टं सर्वप्रमाणसिद्धत्वात्"
(साङ्ख्यकारिका)
अन्यद्धि- 
वेदान्तसारे चोक्तम्-“वेदान्तो नाम उपतिषत्प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च।"
उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः। सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः करणभूता इति (विद्वन्मनोरञ्जनीटीका)
अन्यच्च- 
"वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥"

तथाहि-
"अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः॥"
 (मनुस्मृतिः-२.१३)।

दर्शनशास्त्रे प्रमाणं पारिभाषिकं वर्तते।तदुक्तं तर्कभाषायां केशवमिश्रः-
"प्रमाकरणं प्रमाणम्"(तर्कभाषा)
अन्यद्धि- 
"कारणदोषबाधकज्ञानरहितम् अगृहीतग्राहि ज्ञानं प्रमाणम्" (शास्त्रदीपिका)
अन्यच्च-
"प्रमाणविसंवादि ज्ञानमर्थ क्रियास्थितिः।
अविसंवादनं शाब्देऽप्याभिप्रायनिवेदनात्॥"
(बौद्धाचार्यो धर्मकीर्तिः) 
तदित्थं स्पष्टं भवति यत्प्रयोगानुसारेण 'माङ्'धातोरनेकार्थत्वं स्वतः सिध्यति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)