उपसर्गानुसारिणो धात्वर्थाः-४(वदधातुः)
"वद व्यक्तायां वाचि"इति भ्वादिगणस्य परस्मैपदी सकर्मकः सेट् धातुः स्वयमनेकार्थको विद्यते पुनश्च विविधोपसर्गास्तत्र सहकारभूता तदर्थप्रकाशका भवन्ति।वदधातोः घञा प्रत्ययेन वादः निष्पन्नतामेति।योहि यथार्थबोधं तथेच्छोर्वाक्यं सिद्धान्तं वा बोधयति।तद्धि-
"वादो नाम यः परस्परेण सह शास्त्रपूर्वकं विगृह्य कथयति"
गौतमन्यायसूत्रे तु-
"प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चवाक्योपपन्नः
पक्षप्रतिपक्षपरिग्रहो वादः"
(गौतमीयं न्यायसूत्रम्-१.२.१)
अन्यत्र च-
"विजिगीषोः कथा जल्पो वादस्तत्वविवेदिष:।"
(जटाधरः)
सिद्धान्तार्थे-
"वादी निजशास्त्रवादं प्रस्तौति"
अयमेव वादो विविधोपसर्गयोगेन विविधार्थं बोधयन्ति।तद्यथा-
"प्रवादः"-"प्र"उपसर्गसंयोगेन वदधातोः प्रवादो निष्पन्नो भूत्वा
प्रकृष्टो वादः प्रसिद्धो वादो वार्थं बोधयति।प्रवादो नाम परस्परवाक्यं प्रसिद्धं लोकवादो वा।तद्यथा-
“इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ
(भट्टिकाव्यम्-२.३६)
अन्यद्धि-
"अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः"
(मालतीमाधवम्-१.१६)
प्रसिद्धे लोकवादे प्रवादो यथा-
"व्याघ्रो मानुषं खादतीति लोकप्रवादो दुर्निवारः।"
पुनश्च- "इदन्तु प्रवादमात्रम्" इति।
"विवादः"-"वि"इत्युपसर्गपूर्वको वदधातुर्विरुद्धव्यवहारं कलहं वार्थं बोधयति।विरुद्धो वादो विवादः। तदुच्यते-
"ऋणादिदायकलहे द्वयोर्ब्बहुतरस्य वा ।विवादो व्यवहारश्च द्बयमेतन्निगद्यते॥”
(शब्दरत्नावली)
अन्यद्धि-
"विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः"
(पञ्चतन्त्रम्-१.४३६)
पुनश्च-
"अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः"
(कुमारसम्भवम्-५.८२)
तथाहि- "मूर्खः सदा विवादं करोति"इति।तत्र प्रमाणं कोशवचनमपि-
"विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्"
(अमरकोशः-१.६.९)
"संवादः"-समुपसर्गसंयोगेन वदधातुः
सन्देशवाक्यं समाचारो मिथःसम्भाषणञ्चार्थं वेदयति।
सन्देशवाक्यार्थे-
राजा मन्त्रिणा समं संवादः करोति
समाचारार्थे-
गुप्तचरः प्रजासंवादं राजानं सूचयति।
मिथःसम्भाषणार्थे संवादो यथा-
“अध्येष्यते च य इमं धर्म्मं संवादमावयोः।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥"
(श्रीमद्भगवद्गीता-१८-७०)
"अनुवादः"- अनूपसर्गसम्बन्धेन वदधातुः पुनः पुनः कथनं पुनरुक्तिरावृत्तिर्मुहुर्भाषणं वार्थं भाषान्तरकथनञ्च बोधयति।
पुनःपुनः कथनाद्यर्थे-
उक्तस्य पुनः कथनम् अनुवादः।अथ च
विधिप्राप्तस्य वाक्यान्तरेण कथनं नामानुवादः।यथा-"अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य अग्निहोत्रहोमस्य दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्वमात्रं तत्र विधेयम्।
अनुवादो नाम भाषान्तरकथनम्-
"प्रमाणान्तरावगतस्य अर्थस्य शब्देन संकीर्तनमात्रमनुवादः"
(अनुवादे चरणानाम्-२.४.३ -काशिका)
अवगतार्थस्य प्रतिपादनं नामानुवादः।
छात्रः संस्कृतवाक्यानां हिन्दीभाषायाम् अनुवादं करोति।
"प्रतिवादः"-'प्रति' इत्युपसर्गपूर्वको वदधातुः प्रतिपक्षं विपक्षं वा ज्ञापयति।
प्रतिकूलो विपरीतो वादः प्रतिवादः।प्रतिवादो नाम प्रतिपक्षः विपक्षो वा।
तदुक्तम्-
"नरेन्द्रसूनुः प्रतिसंहरन्निषु प्रियंवदः प्रत्यवदत्सुरेश्वरम्"
(रघुवंशम्-३.६४)
तथाहि-
शास्त्रार्थे उत्तरपक्षः प्रतिवादं करोति।
"परिवादः"-"परि"इति उपसर्गसंयोगेन वदधातुः परि सर्व्वतो दोषोल्लेखेन वादः कथनं परिवादो निन्दार्थं बोधयति।
“नीचसंसर्गनिरताः परवित्तापहारकाः। परनिन्दापरद्रोह-परिवादपराः खलाः।।"
(महानिर्व्वाणतन्त्रे-१.४२)
"अपवादः"-अपपूर्वको वदधातुः निन्दा (जुगुप्सा,गर्हा),
वेदान्तविधिः,शब्दशास्त्रीयं बाधकशास्त्रञ्चादीन् अनेकान् अर्थान् वेदयति।विस्तरेणास्य शोधप्रबन्धस्य द्वितीयाध्याये अपवादशब्दविमर्शो द्रष्टव्यः।
Comments
Post a Comment