उपसर्गानुसारिणो धात्वर्थाः (असु क्षेपणे धातुः)

"असु क्षेपणे" इति दिवादिस्थः परस्मैभाषः सकर्मकः सेट् धातुरस्ति।असुधातोः अनेकार्थेषु प्रयोगा लभ्यन्ते।तस्मात् प्रयोगानुसारेण असुधातोरनेकार्थत्वं स्वीक्रियते।पुनश्च विविधाश्चोपसर्गास्तत्र द्योतकीभूता भवन्ति।ते च प्रयोगाः सारतो निरूप्यन्ते।

"अभ्यासः,अभ्यस्तः,अभ्यस्यति"-
"आभिमुख्येनास्यते क्षिप्यत इति अभ्यासः" इति व्युत्पत्त्या अभीत्युपसर्गपूर्वकोऽसुधातुरावृत्त्यर्थं वेदयति।तदुच्यते 
"चित्तस्यैकस्मिन्नभ्यन्तरे बाह्ये वा प्रतिमादावालम्बने सर्व्वतः समाहृत्य पुनः पुनः स्थापनमभ्यासः।"
शिक्षाग्रन्थेऽपि तदुक्तम्-
"अभ्यासार्थे द्रुता वृत्तिः"(माण्डुकीशिक्षा-१.३)

पातञ्जलयोगसूत्रेऽपि चित्तवृत्तिनिरोधप्रसङ्गे निगद्यते-
"अभ्यासवैराग्याभ्यां तन्निरोधः"
(पातञ्जलयोगसूत्रम्-१/१२)
काव्यप्रकाशे काव्यहेतुनिरूपणावसरेऽपि कीर्त्यते-
"काव्यज्ञशिक्षयाभ्यासः"
(काव्यप्रकाशः-१.३)
तथाहि-
"व्रीडादिवाभ्यासगतैर्विलिल्ये"
(शिशुपालवधम्-३.४०)
मीमांसादर्शने च पुनर्लिङ्गतात्पर्यनिर्णयावसरे
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये।।"
पुनश्च-गुरुर्वेदाभ्यासं कारयति, छात्रो योगाभ्यासं करोति,अभ्यासेन दक्षता लभ्यते।
तद्वद् अभ्यस्तः, अभ्यस्यति चेति पदद्वयमपि आवृत्त्यर्थं पौनःपुन्यार्थं बोधयति।रामः शास्त्रेषु शस्त्रेषु चाभ्यस्त आसीत्।एकलव्यः द्रोणप्रतिमासम्मुखं  धनुर्विद्यामभ्यस्यति स्म।

व्याकरणशास्त्रे तु अभ्यासाभ्यस्तशब्दः पारिभाषिको वर्तते।तदुच्यते-
"पूर्वोऽभ्यासः"(अष्टाध्यायी-६.१.१४)।
एतत्सूत्रव्याख्यायां दीक्षितः-
"अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्" इति 
(सिद्धान्तकौमुदी)।
अर्थात् षाष्ठद्वितीयप्रकरणान्तर्गतं यद्द्वित्वं विधीयते।तस्मिन् द्वित्वे पूर्वस्य अभ्याससञ्ज्ञा भवति।
पुनश्च-
"उभे अभ्यस्तम्" (अष्टाध्यायी-६.१.५) इति।अत्र व्याख्यायामुक्तम्-
"षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः" इति (सिद्धान्तकौमुदी)।

"अत्यस्तः अत्यासः"-
अतिपूर्वकोऽसुधातुरतिक्रमणार्थं ज्ञापयति।तदुक्तं-
"द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः"
तद्व्याख्यायामुच्यते-
(अष्टाध्यायी-२.१.२४)
एतत्सूत्रवृत्तौ-
 तरङ्गानत्यस्त इति तरङ्गात्यस्तः तरङ्गमतिक्रान्त इत्यर्थः। तुहिनम् अत्यस्त इति 
तुहिनात्यस्तः' हिममतिक्रमित इत्यर्थः।
तद्धि व्याख्यातम्-
"अत्यस्तो व्यतिक्रमः" इति (तत्त्वबोधिनी)

पुनश्च-
"अस्यतितृषोः क्रियाऽन्तरे कालेषु"
अष्टाध्यायी-३.४.५७) इति सूत्रवृत्तौ काशिकायां-
 'द्व्यहात्यासं गाः पाययति'   अत्यसनेनातिक्रमणेन गवां पानक्रियां विच्छिनत्ति।अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः।

"व्यत्यासः/व्यतस्तम्"-'वि' इति उपसर्गसंयोगेन असुधातुर्विपर्ययार्थम् अर्थात् 
वैपरीत्येन स्थापनार्थं विरोधर्थञ्च प्रकाशयति।विपर्ययार्थे व्यत्यासशब्दो यथा-
"व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः॥
(मनुस्मृतिः-२.७२)
तथाहि-
“मात्रासि वञ्चिता भद्रे! चरुव्यत्यासहेतुना।
भविष्यति हि पुत्रस्ते क्रूरकर्म्मातिदारुणः॥"
(हरिवंशपुराणम्-२७.२९)
अत्र मानं कोशवचनमपि-
"स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये"
(अमरकोशः-३.२.३३)
विरोधार्थे पुनः-
'व्यत्यस्तं लपति' अर्थात् विरुद्धं वदतीति भावः।

"समासः,समस्तम्,समस्यति"-
समपूर्वकोऽसुधातुःसंक्षेपसमाहारार्थं व्याकरणशास्त्रीयवृत्तिसञ्ज्ञाविशिष्टं शब्दशास्त्रीयविधिविधिविशिष्टं साकल्यार्थञ्च प्रकाशयति।
तदत्र मानं कोशवचनम्-
“ समासस्तु समाहारः संक्षेपः संग्रहोऽपि च।"
         (हेमचन्द्रः)
समस्यन्ते संक्षेपीक्रियन्ते एकीक्रियन्ते पदार्था येन सः समासः।तदुच्यते-
 "समसनं पदयोः पदानां वा एकपदीकरणं समास" इति व्युत्पत्या अनेकेषां पदानाम् एकपदीभवनं समासः।(तत्त्वबोधिनी)।
इत्थं स्पष्टं भवति यत् समासशब्दः संक्षेपार्थे वर्तते।तदाह मनुः-
"सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम्"(मनुस्मृति:-७.२०२)।
तथाहि-
"सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥"
 (श्रीमद्भगवद्गीता-१८.५०)
पुनश्च-
“विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्॥"
(महाभारतम्-१.१.५१)
तट्टीकायां पुनराह
 “समासः संक्षेपः व्यासो विस्तारः" इति।

अन्यद्धि- 
"सम्पूर्वकस्य अस्यतेरेकीकरणात्मकं संश्लेषोऽर्थः।समस्यते अनेकं पदमिति समासः"(बालमनोरमा)।
समसनं समासः।समपूर्वकादसुधातोः "अकर्तरि च कारके सञ्ज्ञायाम्"
(अष्टाध्यायी-३.३.१९) इति सूत्रेण कर्मणि घञा सिध्यति समासशब्दः। अनेकस्य पदस्य एकपदीभवनमित्यर्थः।
"प्राक्कडारात्समासः"
(अष्टाध्यायी-२.१.३) इत्यतः 
"कडाराः कर्मधारये"
(अष्टाध्यायी-२.२ .३८) इति पर्यन्तं पठितेषु सूत्रेषु समाससञ्ज्ञाधिक्रियते।इयं समाससञ्ज्ञैव वैयाकरणानां निकाये वृत्तिभेदत्वेन अन्वर्थसञ्ज्ञाविशिष्टत्वेन परिगण्यते। तदुक्तं-"कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः"(सिद्धान्तकौमुदी)।अत एव समासशब्दस्य भूयान् प्रयोगः अष्टाध्यायीप्रभृतिषु ग्रन्थेषु लभ्यते। तद्यथा-
"कृत्तद्धितसमासाश्च"(अष्टाध्यायी- १.२.४६)
ततद्व्याख्याने भगवान् पतञ्जलिराह-
"अर्थवत्समुदायानां समासग्रहणं नियमार्थम्" इति महाभाष्यम्।
पुनश्च 
"सर्व्वोऽप्यवयवोऽह्ना समस्यते।”  “अव्ययं समर्थेन सह समस्यते।"
"अभिधानञ्च प्रायेण तिङ्कृत्तद्धितसमासैः"
(सिद्धान्तकौमुदी)
"गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः"(व्याकरणपरिभाषा-१३८)।
समासो विधिविशेषश्च।तदुच्यते-
"समर्थः पदविधिः"(अष्टाध्यायी-२.१.१)
इति सूत्रव्याख्यायां काशिकायां-
"यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स सर्वः समर्थो वेदितव्यः।विधीयत इति विधिः।पदानां विधिः पदविधिः। स पुनः समासादिः।"(काशिका)
पुनश्च-
"समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्"(वार्तिकम्)।

साकल्यार्थे समपूर्वकादसुधातोः प्रयोगो यथा-
"विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्। समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥"
(अमरकोशः-३.१.६४)
तथाहि-
"सपदि कुमुदिनीभिर्मीलितं हा क्षपापि।
क्षयमगमदपेतास्तारकास्ताः समस्ताः।।"
(शिशुपालवधम्-११-२४)
व्याकरणे तु समस्तशब्देन कृतसमासार्थो गृह्यते।तद्यथा-"रूपस्य योग्यम्" इत्यत्र 'अनुरूपम्' इति समस्तं पदम् इति।

"व्यासः,व्यस्तम्"-विपूर्वकोऽसुधातुर्विस्तारं विभाजनकर्तारं पुराणमहाभारतादिवक्तारं कृष्णदैपायनञ्चार्थं प्रकाशयति।

विस्तारार्थे व्यासशब्दो यथा-
“विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्॥” 
(महाभारतम्-१.१.५१)
तट्टीकायामुच्यते-
“समासः संक्षेपः व्यासो विस्तारः।”
तदत्र मानम्-
"विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः।"
(अमरकोशः-३.२.२२)
शब्दशास्त्रे तु 
समासादिसमानार्थकं विग्रहवाक्यं व्यासः।

व्यास्यति वेदानिति व्युत्पत्त्या विपूर्वको ऽसुधातुः
विभाजनकर्तरि व्यासशब्दो दृश्यते।तद्यथा-
"विव्यास वेदान् यस्मात्स तस्माद् व्यास इति स्मृतः"(सिद्धान्तकौमुदी)
तथाहि 
“यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।
लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च॥
(महाभारतम्-१.१०५.१४)
अन्यद्धि- 
"व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः"
(अमरकोशः-२.७.४०)

अतएव वृत्तस्य(गोलस्य) विभाजिका मध्यरेखा व्यास उच्यते।
अद्यत्वे पुराणमहाभारतादिग्रन्थानां पाठकब्राह्मणार्थेऽपि प्रयुज्यते। तद्यथा- 
"ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप।
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते॥"
लोके "कथाव्यासो भागवतकथां श्रावयति" इत्यनेनापि तदर्थः प्रतीयते।

"न्यासः,न्यस्तम्,न्यस्यति"
निपूर्वकश्च "असु क्षेपणे" इति धातुः स्थाप्यद्रव्यं(उपनिधिं निक्षेपं वा) स्थापनम्(आवाहनम्) अर्पणम्(त्यागं,दानं वा)
शब्दशास्त्रीयव्याख्याग्रन्थविशिष्टञ्च ज्ञापयति।तत्रादौ स्थाप्यद्रव्यार्थे न्यासशब्दो यथा-
"स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्"(मनु० ८.१८३) अत्र न्यस्तं निक्षिप्तमुपनिहितं वा।
अन्यद्धि- 
"अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥"
(अभिज्ञानशाकुन्तलम्-४.२२)
तथाहि-
"राज्यं न्यासमिवाभुनक्”
(रघुवंशम्-१२.१८)।
तदत्र कोशवचनमपि प्रमाणस्वरूपं प्रस्तूयते-
"पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्"
(अमरकोशः-२.९.८२)
अन्यत्रापि-
"निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम्"
(अभिधानचिन्तामणिः)।

स्थापनार्थेऽपि न्यासशब्दो लभ्यते। तदाह मनुः-
"दृष्टिपूतं न्यसेत्पादम्" 
(मनुस्मृति:-६.४६) अत्र न्यसेद् इत्युक्ते निदधीत स्थापयेदित्यर्थः।
अन्यच्च-
"तस्याः "खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया"
(रघुवंशम्-१.२)
अन्यद्धि-
 "नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम्"
(कुमारसम्भवम्-६.५०)
तथाहि- मातृकान्यासाक्षरन्यासषडङ्गन्यासप्रभृतिकं यद्देवादिपूजायां विधीयते।तदर्थं तत्तत्स्थापनम् आवाहनं वेति।

अर्पणार्थे पुनर्न्यासशब्दो यथा-
"काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः।
सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥”
(श्रीमद्भगवद्गीता-१८/२)
पुनश्च-
"संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति"
(महाभारत-वनपर्व-२९४.२५) अत्र देहन्यासो नाम देहत्यागो निधनं वा।
शब्दशास्त्रीयकाशिकाव्याख्याग्रन्थविशिष्टेऽर्थेऽपि न्यासशब्दः समुपलभ्यते।तद्यथा-वैयाकरणेषु न्यासकारः जिनेन्द्रबुद्धिः वर्तते।यस्य काशिकोपरि व्याख्याग्रन्थः काशिकाविवरणपञ्जिका विद्यते।यस्यापरं नाम 'न्यासः' वर्तते।तस्मादेव बौद्धविद्वान् जिनेन्द्रबुद्धिः न्यासकाररूपेणाभिधीयते।
अन्यद्धि- 
'सम्पूर्वस्य ख्यातेः प्रयोगो न' इति न्यासकारः'(सिद्धान्तकौमुदी)
पुनश्च -'स्खदिरपावपरिभ्यः इति न्यासकारः'(सिद्धान्तकौमुदी)
तथाहि-
“अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा॥”
(माघकाव्यम्-२.११२) इति।

"उपन्यासः,उपन्यस्तम्"-'उप समीपे न्यास' इति व्युत्पत्त्या 
'उप+नि' इति उपसर्गद्वयपूर्वकोऽसुधातुः
उपस्थानं वाङ्मयं विचारं कथनं  दृष्टान्तं कार्यग्रन्थनार्थञ्च बोधयति 
उपस्थानार्थेऽभिज्ञानशाकुन्तले तद्यथा- 
"पावकः खलु एष वचनोपन्यासः"
(अभिज्ञानशाकुन्तलम्-षष्ठाङ्के शकुन्तला)
विचारार्थे चोपन्यासशब्दो यथा-
“विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत”-
 (मनुः-९.३१) तट्टीकायां पुनराह -
“वक्ष्यमाणं सर्व्वजनहितं विचारं शृणुत"-(कुल्लुकभट्टः)।
वाङ्मयार्थे उपन्यासशब्दो यथा-
"विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्"
(अमरकोशः-१.६.९)
कथनार्थे चोपन्यासः-
निर्यात: "शनकैरलीकवचनोपन्यासमालीजनः" (अमरुकशतम्-२७)।
दृष्टान्तार्थेऽपि उपन्यासशब्दो वर्तते।
पुनश्च-
"चतुरो मधुरश्चायमुपन्यासः"
(मृच्छकटिकं प्रथमाङ्के वसन्तसेना) तद्धि-
'विषम उपन्यासः' (व्या०महाभाष्यम्)।
अन्यद्धि-
"स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः"(किरातार्जुनीयम्-२।३) 'उपन्यस्यति'अर्थात् उदाहरति।
कार्यग्रन्थनार्थे चोपन्यासशब्दो लभ्यते। तद्यथा-
"उपन्यासस्तु कार्याणां ग्रथनम् "
(वेणीसंहारम्)
"उपन्यासो ऽथ विन्यासो विबोधः साध्वसं तथा"(साहित्यदर्पणः-६.३०९)। 
"उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम्"(साहित्यदर्पणः-६.३१०)।
"उपपत्तिकृतो योऽर्थ उपन्यासः स कीर्तितः"(साहित्यदर्पणः)
"अनुरागहेतुवाक्यरचनोपन्यासः"
साहित्ये तु उपन्यासः काव्यरचनाविधाविशेषो वर्तते।
अपपूर्वकः परापूर्वको निरुपसर्गपूर्वश्चासुधातुः क्षिप्तापसारितदूरीकरणार्थं बोधयति।यो हि केवलस्य असुधातोः प्रयोगेणापि लभ्यते।तस्मादुपसर्गाणां द्योतकत्वं स्पष्टमेव।काव्यलक्षणनिरूपणावसरे साहित्यदर्पणे प्रयोगो लभ्यते।तद्यथा-
"इत्यादीनामपि काव्यलक्षणत्वमपास्तम्"
(साहित्यदर्पणः,प्रथमः परिच्छेदः) अत्र अपास्तमित्यस्य निराकृतमित्यर्थः
पुनस्तत्रैव-
"एतेन अनलङ्कृती पुनः क्वापीति यदुक्तं तदपि परास्तम्" 
(साहित्यदर्पणः,प्रथमः परिच्छेदः) अत्र परास्तम् अर्थात् निराकृतम् इति।
अन्यत्रापि-
"निरस्तगाम्भीर्य्यमपास्तपुष्पकमिति”
(शिशुपालवधम्-१.५५)
पुनश्च-
"परास्तवसुधा सुधाधिवसति"
(किरातार्जुनीयम्-५.२७)
तथाहि-
“समुच्छ्वलितविभ्रमा गतिरपास्तसंस्था मतिरिति” 
(मालविकाग्निमित्रम्) इति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)