आगमः(प्रयोगानुसारिणो धात्वर्थाः)

"आगमः"- आङुपसर्गपूर्वको "गम्लृ गतौ" इति धातोरचि प्रत्यये निष्पन्नः आगमशब्दोऽनेकार्थेषु प्रयुज्यते। 
"आ समन्तात् गमयति बोधयति वेदयतीति" व्युत्पत्त्या 
आगमो नाम वेदः।तदुच्यते-
 "आसमन्तात् गमयति धर्माधर्मौ परम्पदम्।आगमस्तेन कथित इति वेदविदो विदुः॥"
व्याकरणस्य मुख्यप्रयोजननिरूपणावसरे शेषावतारो भगवान् पतञ्जलिस्तदाह-
"रक्षोहागमलघ्वसन्देहाः प्रयोजनम्”
(महाभाष्यम्,पस्पशाह्निकम्)
पुनस्तत्रैव-
“आगमः खल्वपि ब्राह्मणेन निष्फारणो-धर्मः षडङ्गोवेदोऽध्येयः ज्ञेयश्चेति" (व्याकरणमहाभाष्यम्)
तद्व्याख्यायामिदमुच्यते-
“आगमः प्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्यदर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति (महाभाष्यप्रदीपकारः कैयटः)।
प्रदीपटीकायां महावैयाकरणो नागेशः पुनरिदमाह-
“आगमपदेन श्रुतिरिति” 
(प्रदीप-उद्द्योतः)।

क्वचिदागमशब्द
शास्त्रमात्रविषयेऽपि लभ्यते।तदुच्यते-
सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र च।
आगमं शास्त्रमाप्तानाम्...।।
अन्यत्रापि-
"आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः।।"
(रघुवंशम्-१.१५)

अद्यत्वे जनसमुदायैर्बाहुल्येन क्लीबलिङ्गश्चागमशब्दस्तन्त्रशास्त्रर्थे प्रयुज्यते।आगमं तन्त्रशास्त्रम्।तदाह-
“आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने।
मतञ्च वासुदेवस्य तस्मादागममुच्यते।।” 
तल्लक्षणे पुनरिदमुच्यते-
“सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनम्।
साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च॥
षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः।
सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः॥"
अन्यत्रापि चोक्तम्-
“आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः।
न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः।। पञ्चवर्ण्णैर्भवेद्दीक्षाह्यागमोक्तैः शृणुप्रिये!।
यां कृत्वा कलिकाले च सर्वाभीष्टं लभेन्नरः।।"
(तन्त्रसारे यामलम्)
अन्यद्धि- 
"कलावागमास्स्मृताः"
तथाहि-
"बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः।"
(रघुवंशम्-१०.२६)
तस्मादेव आगमशास्स्त्रीयग्रन्थस्य "पाञ्चरात्रागम" इति व्यपदेशः सार्थकतां भजते।

मन्त्रार्थे चागमशब्दो यथा- 
"सर्ववेदः क्रियामूलं ऋषिभिर्बहुधोदितः।
कालोदेशः क्रिया कर्त्ताकारणं कार्य्यमागमः।‌।"
      (मनुस्मृतिः)

क्वचिद् आगमो नाम प्रमाणविशेषः।आगमो "वेदादिशास्त्रम् आप्तश्रुतिराप्तवचनम्" इति वचनात्।तस्मादागमपदेन शब्दप्रमाणं बुध्यते।योगसूत्रस्य समाधिपादे तदाह-
"प्रत्यक्षानुमानागमाः प्रमाणानि"
(पातञ्जलयोगसूत्रम्-१.७)
अन्यत्रापि चोक्तम्-
“तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” 
(साङ्ख्यकारिका-६)

क्वचिदागमशब्दो ज्ञानार्थेऽपि लभ्यते।
"यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति"
(मालविकाग्निमित्रम्-१.१७)।अत्रागमः शास्त्रज्ञानं व्युत्पत्तिञ्च बोधयति।
अन्यद्धि- 
"शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा:"
(भर्तृहरिनीतिशतकम्-१६)

क्वचिच्च पुनरागमशब्दः पन्थानमपि बोधयति।तदुक्तम्-
"आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः "
(रामायणम्,अयोध्याकाण्डम्-२१)

उद्भवस्थानविषयेऽपि आगमशब्दो विद्यते।तदाह कादम्बर्यां शूद्रकवर्णनप्रसङ्गे गद्यकविशिरोमणिर्बाणभट्टः-
"आगमः काव्यामृतरसानाम्" इति।

आगमनार्थे प्राप्त्यर्थे चागमशब्दो यथा-
"नित्यव्यया प्रचुरनित्यधनागमा च”
         (नीतिशतकम्-७३)
तथाहि-
"नाधर्म्मेणागमः कश्चिन्मनुष्यान् प्रति वर्त्तते”
(मनुस्मृतिः)
पुनश्च-
"सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च॥"
          (मनु-१०।११)
आगमनोद्भवार्थे चागमशब्दो यथा-
"आगमापायिनो$नित्यास्तांस्तितिक्षस्व भारत"
(श्रीमद्भगवद्गीता-२.१४)
अन्यद्धि-
"लतायां पूर्वलूनायां प्रसूनस्यागमः कुतः
अन्यच्च-
"अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।रात्र्यागमे प्रलीयन्ते" इति।

व्याकरणे शास्त्रीयप्रक्रियासम्पादकः प्रकृतिप्रत्ययानुपघातकः "अट्,आट्,इट्,नुट्,नुम्,कुक्,टुक्,पुक्,
युक्,षुक्"इत्यादिरूपो विकारविशेषश्चागमो वर्तते।व्याकरणपरिभाषासु
तदुच्यते-
“आगमादेशयोर्मध्येबलीयान् आगमो विधिः”।
“यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”।
“आगमशास्त्रमनित्यम्”
केषुचित् वार्तिकेष्वपि तदुच्यते-
“आगमा आद्युदात्ताः”(वार्तिकम्)
“आगमा अविद्यमानवद्भवन्ति (कात्यायनः वार्तिककारः)
महाभाष्यवचनेष्वपि लभ्यते-
"अनागमकानां सागमका:"।
"मित्रवदागमा भवन्ति"।
"आगमावित्याह।युक्तं पुनर्यन्नित्येषु नाम शब्देषु आगमशासनं स्यात्।"
"आगमश्च नामापूर्वः शब्दोपजनः"।
पुनश्च-
"भवेद्वर्णागमाद्धंसः" इति।
एषु प्रसङ्गेष्वपि आगमशब्दः आगमनोद्भवार्थमेव विज्ञापयति। तदुक्तमागमलक्षणे-
"अन्यत्र विद्यमानस्तु यो वर्णः श्रुयतेधिकः।
आगम्यमानतुल्यत्वात्स आगम इति स्मृतः।।
तदित्थमेभिः प्रमाणैरिदं स्पष्टं भवति यदागमशब्दोऽनेकार्थेषु प्रयुज्यते।तेन तन्मूलभूतस्य "गम्लृ गतौ"इति धातोरपि बह्वर्थकत्वं सुस्पष्टमेव
अत्रैकं महाभाष्यवचनमपि प्रामाण्यं वर्तते।तद्यथा-"सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)