अपवादः(प्रयोगानुसारिणो धात्वर्थाः"
"अपवादः"-अपपूर्वको वदधातोर्भावादिष्वर्थेषु घञा प्रत्ययेन निष्पन्नोपवादशब्दो निन्दा(जुगुप्सा,गर्हा),
वेदान्तविधिः,शब्दशास्त्रीयं बाधकशास्त्रञ्चादिषु अनेकेषु अर्थेषु प्रयुज्यते।
निन्दार्थे-
"न लोकापवादाद्भयं न लज्जा"-(भर्तृहरिशतकम्)
अन्यत्रापि-
"लोकापवादो बलवान्मतो मे"
पुनश्च-
"चिरकालान्मया श्रुतस्तवापवादः"
अन्यद्धि-
"देव्यामपि हि वैदेह्यां सापवादो यतो जनः"
तथाहि-
"अपवादस्तु निन्दने"
निन्दार्थेऽपवादशब्दो यथा-
"कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः"-
(किरातार्जुनीयम्-११.२५)
मिथ्याकथनार्थे अपवादशब्दो दृश्यते। तद्यथा-"गुणापवादेन तदन्यरोपणात्"
(किरातार्जुनीयम्-१४.१२)
आज्ञार्थेऽपवादशब्दप्रयोगो हि- "ततोऽपवादेन पताकिनीपतेः"(किरातार्जुनीयम्-१४.२७)
विश्रम्भार्थेऽर्थात् विश्वासार्थे चापवादो यथा-
"अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि"
(मेदिनीकोशः)
अपोद्यते अपवाह्यते मिथ्याभूतम् अनेनेति विग्रहे अपपूर्वात् वदधातोः करणे घञा निष्पन्नोऽपवादशब्दो वेदान्ते मिथ्याभूतपदार्थनिवारणार्थम् अपदेशभेदः।
"अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चयः"
(वेदान्तपरिभाषा)
अपवादो नाम बाधकशास्त्रम्।
"अपवादमिवोत्सर्गं व्यावर्तयितुमीश्वरः" (रघुवंशम्-१५.७)
पुनश्च-
"परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः"
(व्याकरणपरिभाषा)
कश्चिदुत्सर्गः कर्त्तव्यः कश्चन तदपवादः।तद्धि-
"मा हिंस्यात्सर्वभूतानि इति उत्सर्गः" तथा
"वायव्यं श्वेतमालभेत इत्यपवादः"
तदित्थं सिध्यति यदपवादशब्दस्यानेकार्थेषु प्रयोगो लभ्यते। तस्मात् तन्मूलभूतस्य वदधातोरपि अनेकार्थत्वं स्वयं सिध्यति।
Comments
Post a Comment