"सूत्रम्"(प्रयोगानुसारिणो धात्वर्थाः)

"सूत्रम्"-"सूत्र वेष्टने" इति चुरादिगणीय: सकर्मकः सेट् उभयपदी धातुरस्ति।केचनात्र 
सूत्र विमोचन इति पठन्तो विमोचनं मोचनाभावो ग्रन्थनमित्यर्थं निर्दिशन्तीति।तदाह क्षीरतरङ्गिणीकारः-
"सूत्र विमोचने-
विमोचनं मोचनाभावः,ग्रन्थनम्"इति।
सूत्र्यतेऽनेनेति विग्रहे 
एतस्माद्धातोः कप्रत्यये सति सूत्रशब्दो निष्पद्यते।यो हि कारणनिमित्तभूतं तन्तुं यज्ञोपवीतं शास्त्रादिसूचकग्रन्थं नाट्यानुष्ठानं साहित्यिकार्थबोधविधिविशेषं शास्त्रवाक्यभेदविशेषञ्चानेकार्थेषु प्रयुज्यते।
कारणनिमित्तभूते सूत्रशब्दो यथा-
"त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम्"
(श्रीमद्भागवतमहापुराणम्-४.६.४३)।

तन्तुरपि वस्त्रस्यनिर्माणस्य कारणभूतं निमित्तसाधनमेव वर्तते।तदर्थं सूत्रशब्दप्रयोगो यथा-
"मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे मतिः"
(रघुवंशम्-१.४)

अन्यद्धि- 
"मन्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्"
(कुमारसम्भवम्-१.४०)
 
तथाहि-
"सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्"
(शिशुपालवधम्-१.६)

अन्यत्रापि-
"पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते"इति।
अत्र मानं कोशवचनमपि- 
"पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः"(अमरकोशः-२.१०.२८)

यज्ञोपवीतार्थे सूत्रशब्दो महानिर्वाणतन्त्रे पुनर्यथा-
"ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम्" (महानिर्वाणः-१.४८)
पुनश्च-
"शिखासूत्रवान् ब्राह्मणः" इति।
एतस्मादेव यज्ञोपवीतस्य कृते यज्ञसूत्रमपि प्रयुज्यते।

शास्त्रव्यवस्थासूचकग्रन्थेऽपि सूत्रशब्दो लभ्यते।तद्यथा-कल्प्यते यज्ञप्रयोगो यत्र तत् कल्पसूत्रम्।तदाह-
"कल्पस्य वैदिककर्मानुष्ठानस्य प्रतिपादकं सूत्रम् कल्पसूत्रम्"इति।
कल्पसूत्रम् आचार्यभद्रबाहुविरचितं वर्तते।पुनश्च-श्रौतगृह्यधर्मशूल्वभेदैः कल्पसूत्रं चतुर्धा विभज्यते।

नाट्यप्रयोगानुष्ठानमपि सूत्रशब्देन कीर्त्यते।तदाह-
"नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात्सबीजकम्।
रङ्गदैवतपूजाकृत्सूत्रधार इति स्मृतः॥"

आधुनिके शिक्षाशास्त्रे साहित्यिकार्थबोधनशैली संक्षेपेण कथनविधिश्च सूत्रपदेनोच्यते।
"अल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वम्" इति तल्लक्षणं प्रस्तूयते।
यथा-
चाणक्यार्थशास्त्रनीतिशास्त्रप्रभृतयो ग्रन्थाः सूत्रशैल्या सूत्रविधिना वा निर्माताः सन्ति।

पाणिन्यादिमहर्षिभी रचितो ग्रन्थविशेषः
शास्त्रवाक्यभेदश्चापि सूत्रशब्देन कीर्त्यते।तदाह- 
"सूत्राच्च कोपधात्" 
(अष्टाध्यायी-४.२.६५) 
इति सूत्रस्य व्याख्यायां काशिकायां 
"पाणिनीयमष्टकं सूत्रम्" इत्युच्यते।
पुनश्च 
"अष्टकं सूत्रम्" इति(न्यासः)
तदिदं सूत्रपदेन कापिलं साङ्ख्यसूत्रं, पातञ्जलं योगसूत्रं,गौतमीयं न्यायसूत्रं,काणादं वैशेषिकसूत्रं,जैमिनीयं मीमांसासूत्रम्,बादरायणीयं वेदान्तसूत्रञ्चेति प्रभृतीनां शास्त्रीयसूत्रात्मकग्रन्थानां बोधो भवति।
सूत्रलक्षणे तदित्थमुच्यते- 
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।।”
एतद्वचनस्यायमाशयो यत्-
अल्पाक्षरान्वितं सन्देहरहितं सारभूतं स्तोभरहितम् अनवद्यञ्च शास्त्रवाक्यं सूत्रं व्यपदिश्यते।शास्त्रवाक्यात्मकानां सूत्राणां षाड्विध्यं पुनर्निदिश्यते। तदुच्यते-
"सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
प्रतिषेधोधिकारश्च षड्विधम् सूत्रलक्षणम्।।"
उपर्युक्ततथ्यानामाधारेणेदं सिध्यति यत्सूत्रशब्दो 
वस्त्रसाधने तन्तौ  शास्त्रीयव्यवस्थायां बोधविधौ नाटकोपकरणे प्रस्तावे शास्त्रवाक्यभेदे चानेकार्थेषु सूत्रशब्दप्रयोगो लभ्यते।तस्मात्तन्मूलभूतस्य सूत्रिधातोरपि अनेकार्थत्वं सुसङ्गतमेवेति मन्मतिः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)