"सूत्रम्"(प्रयोगानुसारिणो धात्वर्थाः)
"सूत्रम्"-"सूत्र वेष्टने" इति चुरादिगणीय: सकर्मकः सेट् उभयपदी धातुरस्ति।केचनात्र
सूत्र विमोचन इति पठन्तो विमोचनं मोचनाभावो ग्रन्थनमित्यर्थं निर्दिशन्तीति।तदाह क्षीरतरङ्गिणीकारः-
"सूत्र विमोचने-
विमोचनं मोचनाभावः,ग्रन्थनम्"इति।
सूत्र्यतेऽनेनेति विग्रहे
एतस्माद्धातोः कप्रत्यये सति सूत्रशब्दो निष्पद्यते।यो हि कारणनिमित्तभूतं तन्तुं यज्ञोपवीतं शास्त्रादिसूचकग्रन्थं नाट्यानुष्ठानं साहित्यिकार्थबोधविधिविशेषं शास्त्रवाक्यभेदविशेषञ्चानेकार्थेषु प्रयुज्यते।
कारणनिमित्तभूते सूत्रशब्दो यथा-
"त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम्"
(श्रीमद्भागवतमहापुराणम्-४.६.४३)।
तन्तुरपि वस्त्रस्यनिर्माणस्य कारणभूतं निमित्तसाधनमेव वर्तते।तदर्थं सूत्रशब्दप्रयोगो यथा-
"मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे मतिः"
(रघुवंशम्-१.४)
अन्यद्धि-
"मन्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्"
(कुमारसम्भवम्-१.४०)
तथाहि-
"सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्"
(शिशुपालवधम्-१.६)
अन्यत्रापि-
"पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते"इति।
अत्र मानं कोशवचनमपि-
"पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः"(अमरकोशः-२.१०.२८)
यज्ञोपवीतार्थे सूत्रशब्दो महानिर्वाणतन्त्रे पुनर्यथा-
"ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम्" (महानिर्वाणः-१.४८)
पुनश्च-
"शिखासूत्रवान् ब्राह्मणः" इति।
एतस्मादेव यज्ञोपवीतस्य कृते यज्ञसूत्रमपि प्रयुज्यते।
शास्त्रव्यवस्थासूचकग्रन्थेऽपि सूत्रशब्दो लभ्यते।तद्यथा-कल्प्यते यज्ञप्रयोगो यत्र तत् कल्पसूत्रम्।तदाह-
"कल्पस्य वैदिककर्मानुष्ठानस्य प्रतिपादकं सूत्रम् कल्पसूत्रम्"इति।
कल्पसूत्रम् आचार्यभद्रबाहुविरचितं वर्तते।पुनश्च-श्रौतगृह्यधर्मशूल्वभेदैः कल्पसूत्रं चतुर्धा विभज्यते।
नाट्यप्रयोगानुष्ठानमपि सूत्रशब्देन कीर्त्यते।तदाह-
"नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात्सबीजकम्।
रङ्गदैवतपूजाकृत्सूत्रधार इति स्मृतः॥"
आधुनिके शिक्षाशास्त्रे साहित्यिकार्थबोधनशैली संक्षेपेण कथनविधिश्च सूत्रपदेनोच्यते।
"अल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वम्" इति तल्लक्षणं प्रस्तूयते।
यथा-
चाणक्यार्थशास्त्रनीतिशास्त्रप्रभृतयो ग्रन्थाः सूत्रशैल्या सूत्रविधिना वा निर्माताः सन्ति।
पाणिन्यादिमहर्षिभी रचितो ग्रन्थविशेषः
शास्त्रवाक्यभेदश्चापि सूत्रशब्देन कीर्त्यते।तदाह-
"सूत्राच्च कोपधात्"
(अष्टाध्यायी-४.२.६५)
इति सूत्रस्य व्याख्यायां काशिकायां
"पाणिनीयमष्टकं सूत्रम्" इत्युच्यते।
पुनश्च
"अष्टकं सूत्रम्" इति(न्यासः)
तदिदं सूत्रपदेन कापिलं साङ्ख्यसूत्रं, पातञ्जलं योगसूत्रं,गौतमीयं न्यायसूत्रं,काणादं वैशेषिकसूत्रं,जैमिनीयं मीमांसासूत्रम्,बादरायणीयं वेदान्तसूत्रञ्चेति प्रभृतीनां शास्त्रीयसूत्रात्मकग्रन्थानां बोधो भवति।
सूत्रलक्षणे तदित्थमुच्यते-
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।।”
एतद्वचनस्यायमाशयो यत्-
अल्पाक्षरान्वितं सन्देहरहितं सारभूतं स्तोभरहितम् अनवद्यञ्च शास्त्रवाक्यं सूत्रं व्यपदिश्यते।शास्त्रवाक्यात्मकानां सूत्राणां षाड्विध्यं पुनर्निदिश्यते। तदुच्यते-
"सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
प्रतिषेधोधिकारश्च षड्विधम् सूत्रलक्षणम्।।"
उपर्युक्ततथ्यानामाधारेणेदं सिध्यति यत्सूत्रशब्दो
वस्त्रसाधने तन्तौ शास्त्रीयव्यवस्थायां बोधविधौ नाटकोपकरणे प्रस्तावे शास्त्रवाक्यभेदे चानेकार्थेषु सूत्रशब्दप्रयोगो लभ्यते।तस्मात्तन्मूलभूतस्य सूत्रिधातोरपि अनेकार्थत्वं सुसङ्गतमेवेति मन्मतिः।
Comments
Post a Comment