उपसर्गानुसारिणो धात्वर्था:(पदधातुः)

"पद गतौ" इति दिवादिगणस्थ आत्मनेपदी सकर्मकोऽनिट् धातुर्वर्तते।
"पद गतौ"इति धातुः चुरादिगणेऽपि लभ्यते।
"सर्वे गत्यर्था ज्ञानार्था:"इति महाभाष्यवचनप्रामाण्यादयं धातुर्ज्ञानार्थेऽपि वर्तते।तन्मतं क्षीरतरङ्गिण्यामपि पुष्णाति।तत्रोक्तं-
"गतिर्यानं ज्ञानं च"इति (क्षीरतरङ्गिणी)।एतेन स्पष्टं भवति यदयं धातुः स्वयमनेकार्थको विद्यते पुनश्च विविधोपसर्गसंयोगेन भूयोऽर्थान् वेदयति।तदत्र प्रस्तूयते-
"प्रपन्न:,प्रपद्यते"-प्रोपसर्गपूर्वः "पद गतौ"इति धातुः शरणागत्यर्थं बोधयति।मार्कण्डेयपुराणे मृत्युञ्जयाख्ये सप्तमेऽध्याये
तदाह-
"गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्। केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥”
(मार्कण्डेयपुराणम्)
अन्यत्रापि-
"प्रपन्नवत्सलो देवः"
(महाभारतम्,अनुशासनिकपर्व)।
पुनश्च-
 "शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्"(श्रीमद्भगवद्गीता-२.७)।
पुनस्तत्रैव-
"ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्"
(श्रीमद्भगवद्गीता-४.११)
तथाहि-
"त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः"
(ध्वन्यालोकः-१.१) इति।

"प्रतिपत्तिः"-प्रतिपूर्वकः पदधातुः प्रवृत्तिं ज्ञानं पदप्राप्तिं समर्पणं निरूपणार्थञ्च व्यञ्जयन्ति।

प्रवृत्त्यर्थे प्रतिपूर्वकः पदधातुर्यथा-
“मनस्विनीनां प्रतिपत्तिरीदृशी"
(कुमारसम्भवम्-५.४२)।

ज्ञानार्थेऽपि प्रतिपूर्वः पदधातुर्विद्यते। रघुवंशमहाकाव्यस्य मङ्गलश्लोके तदुक्तं-
"वागार्थाविव संपृक्तौ वागर्थप्रतिपत्तये"
(रघुवंशम्-१.१)

पदप्राप्त्यर्थे प्रत्युपसर्गपूर्वः पदधातुर्यथा-
"सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया,
भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूबन्धुभिः।"
(अभिज्ञानशाकुन्तलम्-४.१६)

समर्पणार्थे प्रपूर्वकः पदधातुः दृश्यते। तद्धि-
"तत्र यद् रिक्थजातं स्यात्तत् तस्मिन् प्रतिपादयेत्"
(मनुस्मृतिः-९.१९०) इत्यत्र प्रतिपादयेत् अर्थात् समर्पयेदिति भावः।
तथाहि-"यज्ञादिकर्मान्ते ब्राह्मणाय दक्षिणां प्रतिपादयेत्।"

निरूपणार्थेऽपि प्रपूर्वः पदधातुर्लभ्यते। तद्यथा-"साहित्यदर्पणस्य प्रथमे परिच्छेदे कविराजो विश्वनाथः
पूर्वाचर्याणां काव्यलक्षणानां खण्डनं विधाय स्वकीयं काव्यलक्षणं प्रतिपादयति।"
एदतिरिक्तेषु अर्थेषु अपि प्रपूर्वकः पदधातुर्विद्यते।तदुक्तं-
"प्रतिपत्तिः प्रवृत्तौ च प्रागल्भ्ये गौरवेऽपि च।
सम्प्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति॥
(मेदिनीकोशः) इति।

"प्रत्युत्पन्नः"-'प्रति+उद्'+पदधातुः प्रागल्भ्यार्थं ताल्कालिकबुद्धिमदर्थं बोधयति।तदुक्तं-
"तत्र मे प्रत्युत्पन्ना मतिः"(तन्त्रा०)।अत्र प्रत्युत्पन्ना तत्कालमुत्पन्ना, सद्यः सञ्जाता वेत्यर्थः।
पुनश्च-
"इदं तत् प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते'(अभिज्ञानशाकुन्तलम्)।
तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृतेति तत्र व्याख्यायामुच्यते।

"उत्पत्तिः"-"उत्पद्यते प्रथमतो ज्ञायतेऽनेनेति उत्पत्तिरिति विग्रहे 
उदुपसर्गपूर्वकः पदभातुः जन्मसम्भवाविर्भावार्थं बोधयति। तद्यथा-
"गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः"(व्याकरणपरिभाषा)।
पुनश्च-
"जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः"(अमरकोशः-१.४.३१)
तथाहि-
"कमले कमलोत्पत्तिः श्रूयते न दृश्यते"
इति।

"निष्पत्तिः"-निसुपसर्गपूर्वः पदधातुः सिद्ध्यर्थं समाप्त्यर्थं वा वेदयति।समाप्त्यर्थे तद्यथा- 
“क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्। विवक्षते यदा तत्र करणत्वं तदा स्मृतम्॥”
(वाक्यपदीयम्)
पुनश्च-
 “आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम्॥"
हठयोगप्रदीपिकायाम्-४.६९ )

सम्पत्तिः-समुपसर्गपूर्वकः पदधातुः समृद्धिम् अनुरूपात्मभावं कल्पनञ्च बोधयति।
अनुरूपात्मभावे तद्यथा-
"अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु" (अष्टाध्यायी-२.१.६)।
एतत्सूत्रव्याख्यायां दीक्षितः- 
"सम्पत्तिरनुरूप आत्मभावः समृद्धेरन्यः"(सिद्धान्तकौमुदी)।
अन्यच्च-
"सम्पतिशब्दस्य समृद्धौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह सम्पतिरनुपरूप आत्मभाव इति"(पदमञ्जरी)।
समृद्ध्यर्थेऽपि समुपसर्गपूर्वकः पदधातुः  विद्यते।
"सम्पत्तिः श्रीश्च लक्ष्मीश्च"
(अमरकोशः-२.८.८२)
पुनश्च-
"यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥"
(हितोपदेशः-४)
तथाहि-
सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा' (मनु॰१०.६९)।अत्र सम्पद्यत अर्थात् समृध्यति समृद्धं भवति वा।
अन्यच्च- 
"सम्पत्तौ च विपत्तौ च महतामेकरूपता।"

सम्पत्तिः-समुपसर्गपूर्वकः पदधातुः समृद्धिम् अनुरूपात्मभावञ्च बोधयति।
अनुरूपात्मभावे तद्यथा-
"अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु" (अष्टाध्यायी-२.१.६)।
एतत्सूत्रव्याख्यायां दीक्षितः- 
"सम्पत्तिरनुरूप आत्मभावः समृद्धेरन्यः"(सिद्धान्तकौमुदी)।
अन्यच्च-
"सम्पतिशब्दस्य समृद्धौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह सम्पतिरनुपरूप आत्मभाव इति"(पदमञ्जरी)।
समृद्ध्यर्थेऽपि समुपसर्गपूर्वकः पदधातुः  विद्यते।
"सम्पत्तिः श्रीश्च लक्ष्मीश्च"
(अमरकोशः-२.८.८२)
पुनश्च-
"यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥"
(हितोपदेशः-४)
तथाहि-
सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा' (मनु॰१०.६९)।अत्र सम्पद्यत अर्थात् समृध्यति समृद्धं भवति वा।

समुपसर्गपूर्वकः पदधातुः कल्पनायामपि दृश्यते।तदुक्तं-
"साधोः शिक्षा गुणाय सम्पद्यते नासाधोः" इति (पञ्चतन्त्रम्)।

"विपत्तिः,विपत्"-'वि' इत्युपसर्गपूर्वकः पद धातुर्दुःखापन्नाशयातनासङ्कटार्थं ज्ञापयति।नाशार्थे समाप्त्यर्थेऽपि चायं धातुर्लभ्यते।तद्यथा- 
"न तद् दानं प्रशंसन्ति वृत्तिर्येन विपद्यते"
(श्रीमद्भागवतपुराणम्-
 ८.१९.३६)।  प्रसङ्गेऽस्मिन्
 विपद्यते नश्यति अवसीदतीति।

सङ्कटार्थे च विपूर्वः पदधातुर्यथा- 
"विपदि धैर्यमथाभ्युदये क्षमा"
(भर्तृहरिनीतिशतकम्-६३) अत्र विपदित्युक्ते सङ्कटकाल इति भावः।
यातनार्थे च पुनः-
"अधार्मिको जनः विपद्यते(यातनां लभते)।"
दुःखापदर्थे च पुनः-
"स तेन दुःखमाप्नोति परत्र च विपद्यते"
(महाभारतम्,वनपर्व-२१०)
विपद्यत अर्थात् आपन्नो भवति, आपद्यत,आपदमाप्नोतीत्याशयः।
तथाहि-
"सम्पत्तौ च विपत्तौ च महतामेकरूपता।"
अत्र मानं कोशवचनमपि-
"सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ"(अमरकोशः-२.८.८२)
पुनश्च
विपत्तिरपि यातनापदोर्योषिति"
(मेदिनीकोशः)।

"आपत्तिः,आपद्,आपन्नः"-
'आङुपसर्गपूर्वक: पदधातुः दुःखयातनासङ्कटार्थं प्राप्त्यर्थं च वेदयति।तत्रादौ दुःखाद्यर्थे आङुपसर्गपूर्वकः पदधातुर्यथा-
"आपदर्थे धनं रक्षेद्"इति (चाणक्यनीतिः)।
पुनस्तत्रैव-
“जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये॥"
(चाणक्यननीतिः)
अन्यत्रापि-
"आपदामपहर्तारं दातारं सर्वसम्पदाम् " (रामरक्षास्तोत्रम्)
तथाहि-
"आपत्तिकाले मर्यादा नास्ति इति लोकभणितिरपि अयमेवार्थं प्रकाशयति।

प्राप्त्यर्थेऽपि चाङुपसर्गपूर्वकः पदधातुर्लभ्यते।तद्यथा- 
"द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः"
(अष्टाध्यायी-२.१.२४)
पुनश्च-
"प्राप्तापन्ने च द्वितीयया"
(अष्टाध्यायी-२.२.४) इत्यनयोः पाणिनिसूत्रयोः 'आपन्नम्' इत्यनेन प्राप्तम् इत्यर्थोऽवगम्यते।
'सुखमापन्नः इति सुखापन्नः सुखप्राप्तः'  तथा
'आपन्ना जीविकामिति आपन्नजीविका' प्राप्तजीविकेति क्रमशस्तदुदाहरणे विज्ञातव्ये।
तथाहि-
“स्थानापत्तेर्द्रव्येषु धर्मलाभः”
( कात्या०-४.३.१९)।
अन्यत्रापि-
"मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्"
(महाभारतम्,शान्तिपर्व-१७५) इति।

"व्युत्पत्तिः,व्युत्पन्नः"-'विशिष्टा उत्पत्तिरिति व्युत्पत्तिः' इति विग्रहे 
'वि'+'उद्' इत्युपसर्गद्वयपूर्वकः पदधातोः क्तिन् प्रत्यये सति व्युत्पत्तिशब्दः सिध्यति।यो हि ज्ञानं निर्वचनम् उत्पत्तिं संस्कारं नियमं व्यवहारञ्चानेकान् अर्थान् बोधयति।
ज्ञानार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुर्लभ्यते-
"शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते" (काव्यमीमांसा, पदवाक्यविवेकः) अत्र व्युत्पद्यते अर्थात् जानाति।

वि-उद् इति उपसर्गद्वययोगेन पदधातुः उत्पत्त्यर्थमपि प्रकाशयति।तद्यथा-प्रयोगदृष्ट्या
"रमन्ते योगिनो यस्मिन्" इत्यर्थे रामशब्दो व्युत्पाद्यते।अत्र व्युत्पाद्यते अर्थात् उत्पाद्यते सम्भाव्यत इति भावः।
पुनश्च-
"उणादयोऽव्युत्पन्नानि प्रातिपदिकानि भवन्ति" इति वचने अव्युत्पन्नानि अर्थात् धातुतो नोत्पद्यन्त इति।

"व्युत्पन्नः"- 'वि-उद् इति उपसर्गद्वययोगेन पदधातुः संस्कारार्थे लभ्यते।तद्यथा-"व्युत्पन्नोऽयं जनः" अत्र व्युत्पन्नः अर्थात् संस्कारसम्पन्नः संस्कारितश्च।

नियमार्थेऽपि 'वि-उद् इति उपसर्गद्वययोगेन पदधातुः" दृश्यते।
शास्त्रतो लोकतो वा सिद्धा युक्तिरिति व्युत्पत्तिः।अस्य शब्दस्य पर्यायपदान्येव न्यायः,सिद्धान्तो नियमश्चेति शब्दाः। परमलघुमञ्जूषायां समासनिरूपणे तदाह -
"न च चित्रगुरित्यादौ लक्षणा। बहुव्युत्पत्तिभञ्जनापत्तेः"
(परमलघुमञ्जूषा)।अत्र 
 व्युत्पत्तिरित्युक्ते नियमः।
पुनश्च-
"चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः।।"
(वैयाकरणभूषणसारः)।
एतदर्थमेव व्यत्पत्तिवादग्रन्थस्य नामान्वर्थतां भजते।


व्यवहारार्थे व्युत्पत्तिशब्दो यथा-
लोकव्युत्पत्तिः अर्थात् लोकव्यवहारः तथा शास्त्रव्युत्पत्तिः अर्थात् शास्त्रव्यवहारः।

निर्वचनार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुः" दृश्यते।तदाह- व्युत्पत्तिर्व्युतपादनं निर्वचनं वेत्यर्थः।
"गिरति अज्ञानान्धकारम् यः स गुरुः" इति गुरुशब्दस्य  'व्युत्पत्तिः' वर्तते।
"पङ्के पङ्काद्वा जायते यत् तत् पङ्कजम्" इति पङ्कजशब्दस्य व्युत्पत्तिः वर्तते।
पुनश्च-"कारके"(अष्टाध्यायी-१.४.२६)
इति सूत्रव्याख्यायां सिद्धान्तकौमुद्यां तदित्थम् उच्यते-
" क्रियाजनकं कारकम्। करोति क्रियान्निर्वर्तयतीति भाष्ये व्युत्पत्तिदर्शनात्।"
तथाहि
"सति सम्भवे व्युत्पत्तिरन्यथा कर्तव्या रूढेरनियमात्"इति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)