"अधिकारः अधिकरणम्" प्रयोगानुसारिणो धात्वर्थाः

"अधिकारः,अधिकरणम्"-अधिपूर्वको "डुकृञ् करणे"इति तनादिगणस्थः सकर्मकः सेट् उभयपदी धातुरनेकार्थको विद्यते।
अधिपूर्वकः कृधातुः कर्त्तव्यं स्वाम्यं प्रस्तावं विषयं व्याकरणशास्त्रीयसूत्र-विधि-विशिष्टं 
व्यापृतिं विनियोगं प्रकरणं
शास्त्रीयसञ्ज्ञाविशेषञ्चानेकार्थान् वेदयति।

अधिपूर्वकः कृधातुः कर्त्तव्यार्थे मेघदूतस्य प्रथमे पद्ये लभ्यते।तद्यथा- 
"कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः"
(मेघदूतम्-१.१)
पुनश्च-
"यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः"
(शाकुन्तलम् प्रथमाङ्कः)
तथाहि-
"अविश्रमोऽयं लोकतन्त्राधिकारः"

अधिपूर्वकः कृधातुः स्वाम्यार्थेऽपि विद्यते।तदाह-
"अधिकारः फले स्वाम्यमधिकारी प्रभुर्भवेत्"(मीमांसादर्शनम्)।
अन्यत्रापि चोक्तम्- 
"अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः"
(साहित्यदर्पणः-६.४३)
तथाहि-
"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन"
(श्रीमद्भगवद्गीता-२.४७)

विनियोगार्थेऽप्यधिकारशब्दो लभ्यते। तदुच्यते-
"स्वरितेनाधिकारः"
(अष्टाध्यायी-१.३.११) इति सूत्रव्याख्यायां काशिकायां- 
"अधिकारो विनियोगः।स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते" इति निर्दिश्यते।
पुनस्तत्रैव न्यासे-
"अधिकारो विनियोगः इति।  व्यापारकरणम्। अधिकृतत्वादुत्तरत्रोपतिष्ठत इति।यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते,तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते।"
पदमञ्जर्यां तु -
"अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुतरत्रोपतिष्ठत इति।"

बालमनोरमायां पुनरिदं व्याख्यायते-
"अधिकारो व्यापृतिः।यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते।शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः। स्वरितेन स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति।"
अतः एतद्वक्तुं शक्यते यद् अधिकारो नाम विनियोगो नियोगो वा।
तथाहि-
"अधि अधिकः कारोऽधिकारः। अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः।"
(तत्त्वबोधिनी)

प्रकरणार्थेऽधिकारशब्दो यथा-
प्रकरणम्(नैमित्तिकोऽयं प्रायश्चित्ताधिकार इति मिताक्षरा)

सर्वम् अधिकरोतीति विग्रहेऽधिकारशब्दः
स्वामित्वेऽपि वर्तते।तदुच्यते 
"सर्वे स्युरधिकारिणः” इति स्मृतिः।अधिकारो नामाधिकृतदेशादिः।यथा-शास्त्राधिकारो निजाधिकारो भिन्नाधिकारः इत्यादि बहवः शिष्टप्रयोगाः।तदाह मनुः-
“तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्”
(मनुस्मृतिः)

प्रस्तावार्थेऽपि चाधिकारशब्दो दृश्यते।
"अधिकारश्चाधिक्येन प्राधान्येनारम्भणम्"(साङ्ख्यसूत्रम्-१.३) इति सूत्रभाष्ये विज्ञानभिक्षुणा निगद्यते "अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते"(भाष्यम्)।तत्राधिकारो नाम प्रस्तावो विषयश्च।तदाह-
"अधिकृत्य कृते ग्रन्थे"
(अष्टाध्यायी-४.३.८७) इति सूत्रे 'अधिकृत्य' नाम विषयीकृत्य इति भावः।
अन्यद्धि-
"तदिदमेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम्" इति अभिज्ञानशाकुन्तलस्य प्रथमाङ्के सूत्रधारोक्तौ "अधिकृत्य"इति पदस्य अर्थः"विषयीकृत्य" इति भावः।
पुनस्तत्रैव-
'अभिज्ञानशाकुन्तलं नाम नाटकं प्रयोगेणाधिक्रियताम्" इति शाकुन्तलनाटकस्य प्रथमाङ्के नट्योक्तौ "अधिक्रियताम्" इत्यस्य प्रयोगविषयतां नीयतामित्यर्थः।

व्याकरणशास्त्रेऽधिकारो नाम सूत्रविशेषो विधिविशेषो वा।
स्वदेशे वाक्यार्थशून्यत्वे सति परदेशे वाक्यार्थबोधकत्वम् अधिकारसूत्रलक्षणमुच्यते।।तदाह-
"एकत्रोपात्तस्यान्यत्र व्यापारोऽधिकारः"-(शब्दकौस्तुभः)
सूत्राणां भेदवर्णने तदुक्तं-
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्।।
अन्यद्धि- 
"सिंहावलोकितं चैव मण्डूकप्लुतमेव च।
गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मतः॥

अधिपूर्वकात् कृधातोर्निष्पन्नोऽधिकरणशब्दः शब्दशास्त्रीयं कारकभेदविशेषम् आधारसञ्ज्ञाविशेषं वा
 तथा मीमांसाशास्त्रीयं ग्रन्थावयवविशेषञ्च वेदयति।तदाह-
"कर्ता कर्म च करणञ्च सम्प्रदानं तथैव च।
अपादानाधिकरणमित्याहुः कारकाणि षट्।।"
अधिक्रियतेऽस्मिन्निति व्युत्पत्त्या अधिकरणशब्द आधारार्थं बोधयति।तदुक्तम्-
"आधारोऽधिकरणम्"
(अष्टाध्यायी-१.४.४५)
यस्यायमाशय:-
"कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यादिति" (सिद्धान्तकौमुदी)
पुनश्च-
"तत्पुरुषसमानाधिकरणः कर्मधारयः"
(अष्टाध्यायी-१.२.४२) इत्यस्मिन् सूत्रे  काशिकायाम्
"अधिकरणशब्दोऽभिधेयवाची"
इत्युच्यते।
तथाहि-
“कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिरणं स्मृतम्।।
      (वाक्यपदीयम्)
द्रव्यार्थेऽपि अधिकरणशब्दो लभ्यते।
तदुच्यते-"अधिकरणविचाले च"
(अष्टाध्यायी-५.३.४३)
एतत्सूत्रस्य काशिकायापदमञ्जरीन्यास-
बालमनोरमा-
तत्वबोधिन्यादिव्याख्यासु ,"अधिकरणं द्रव्यम्"इति व्याख्यातं वर्तते।

"विषयो विशयश्चैव पूर्ब्बपक्षस्तथोत्तरम्।
निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्।।"
तदित्थं सिध्यति यत्कृधातुरनेकार्थेषु प्रयुज्यत इति मन्मतिः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)