व्यक्तिः(प्रयोगानुसारिणो धात्वर्थाः)

"व्यक्तिः"-"वि" इत्युपसर्गपूर्वकाद्
"अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु"इति रुधादिगणीयः परस्मैपदी सकर्मको वेट् धातुः) क्तिनि प्रत्यये सति निष्पन्नो व्यक्तिशब्दो नानार्थेषु प्रयुज्यते।क्वचित् स्फोटेऽभिव्यक्तौ प्राकट्ये च, क्वचित् पुनर्लिङ्गार्थे,क्वचित् पदार्थे तथा क्वचिद्व्यञ्जनार्थे तथा क्वचित्पुनः जनार्थे च प्रयुज्यते।

व्यक्तिर्नाम प्राकट्यं प्रकटता अर्थात् स्फुटता स्फुटत्वं वार्थः।तदाह-
"अन्जू व्यक्तिम्रक्षणकान्तिगतिषु"इति धातुपाठस्य व्याख्यायां क्षीरस्वामिणा-
"व्यक्तिः प्रकटता" तथा
"म्रक्षणं घृतादिसेकः"इति क्षीरतरङ्गिणी।
अन्यत्रापि-
"सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः'
(शाकुन्तलम्-७.८)
तथाहि-
"न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः"
(श्रीमद्भगवद्गीता-१०.१४)
अत्र व्यक्तिर्नाम प्राकट्यं स्वरूपम् अभिव्यक्तिरवतारो वार्थो गृह्यते।
पुनस्तत्रैव-
"अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥"
(श्रीमद्भगवद्गीता-८.१८)

लिङ्गार्थेऽपि व्यक्तिशब्दो दृश्यते। तद्यथा-"लुपि युक्तवद्व्यक्तिवचने"
(अष्टाध्यायी-१.२.५१)
एतत्सूत्रव्याख्यायां काशिकायां तदित्थं निर्दिश्यते- 
"व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशः,तदीयमेवेदं सूत्रम्(काशिका)।
"व्यक्तिः स्त्रीपुंनपुंसकानि,
वचनमेकत्वद्वित्वबहुत्वानि"(काशिका)।
तस्माद् व्यक्तिर्लिङ्गम् अर्थात् स्त्रीत्वपुंस्त्वादिः।
तदुक्तं हरिणा-
"'संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥"
(वाक्यपदीयम्-२.३१७-३१८)

व्यक्तिर्विवेचनं भेदज्ञानं पृथगात्मता च।तद्यथा-
"दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति" 
(वाल्मीकिरामायणम्-२.२३.१८)।
अत्र व्यक्तिर्भेदः, प्रबलदुर्बलविवेक इत्यर्थः।
अन्यत्रापि-
"तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः"
(रघुवंशम्-१.१०)
अमरकोशवचनमप्यत्र प्रमाणम्-
"जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता"
(अमरकोशः-१.४.३२)
तथाहि-
"सामान्ये वर्तमानस्य व्यक्तिरुपजायत" (महाभाष्यम्)।

दर्शनशास्त्रे तु व्यक्तिशब्देन पदार्थोऽवबुध्यते।तदाह-
"व्यक्तिः पदार्थः"-(न्यासः)।
"अत्र मीमांसकाः -शब्दानां जातौ शक्तिर्लाघवात्।व्यक्तीनामानन्त्येन तत्र शक्तौ गौरवात्"इति भूषणकारः।
दार्शनिकसमाजे मीमांसका जातिरेकमात्रं पदार्थं स्वीकृत्य जातिशक्तिवादमतमुद्भावयन्ति।नैयायिकास्तत्र व्यक्तिरेव एकमात्रं पदार्थमङ्गीकृत्य व्यक्तिवादपक्षं समर्थयन्ति।वैयाकरणास्तु जातिव्यक्तिवादपक्षद्वयम् अङ्गीकुर्वन्ति।तस्मादेव वैयाकरणनिकाये
स्फोटस्याष्टविधत्वं सिध्यति।तदाह परमलघुमञ्जूषायां नागेशः-
"तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा । तत्रापि जातिव्यक्तिभेदेन पुनः षोढा । अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः।"
पुनश्च -
"जातिव्यक्तिपक्षयोरुभयोरपि सूत्रं प्रत्याचख्युः"(लघुशब्देन्दुशेखरः)
तथाहि-
"वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते"(पदमञ्जरी)
अन्यद्धि- 
"प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा"(अष्टाध्यायी-२.३.४६) इति सूत्रव्याख्यायां बालमनोरमाकारः-
 "ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः॑,प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः॑, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं..."
(बालमनोरमा)

व्यक्तिर्नाम व्यञ्जना।तदाह-
"वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः।
प्रतिभादेशकालानां वाक्यवाच्यन्यसन्निधेः।।
योऽर्थस्यान्यधीहेतुर्व्यापारो व्यक्तिरेव सा।।"
           (काव्यप्रकाशः)
अत्र व्यक्तिशब्दो व्यज्यतेऽनयेति करणव्युत्पत्त्या व्यञ्जनाशक्तिं बोधयति।
"व्यक्तिर्नाम व्यञ्जना।"
तस्मादेव महिमभट्टविरचितः काव्यशास्त्रीयग्रन्थो "व्यक्तिविवेकः" अन्वर्थतां गच्छति नान्यथा।

व्यक्तिशब्दो जनपर्यायोऽपि वर्तते।यथा-अयम् इयं वा व्यक्तिः नूनं शास्त्रं पठिष्यति,
अमुकम् अमुकीं वा व्यक्तिं सूचयतु,
अमुकस्माद् अमुकस्या वा व्यक्तेः धनं स्वीकरोतु इत्येतादृक्षु स्थलेषु व्यक्तिशब्देन जनो बुध्यते।

तदित्थं सिध्यति यद् व्यक्तिशब्दः तन्मूलभूतोऽञ्जुधातुश्चनेकार्थको विद्यते।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)