"जातिः" प्रयोगानुसारिणो धात्वर्थाः
"जातिः"-जातशब्दो "जनी प्रादुर्भावे"इति दिवादिगणस्थाद् आत्मनेपदिनोऽकर्मकात् सेटो धातोर्भावकरणादौ यथायथं क्तिनि प्रत्यये सति निष्पद्यते।धातुपाठेऽयं धातुः प्रादुर्भावार्थे पठितो दृश्यते।तत्र प्रादुर्भावो नामोत्पत्तिर्थात् जन्मेत्याशयः।तदुक्तं क्षीरतरङ्गिण्याम्-
"प्रादुर्भाव उत्पत्तिः"इति क्षीरस्वामी।परं लोके विविधशास्त्रेषु चानेकार्थेषु जातिशब्दो लभ्यते।क्वचित्प्रादुर्भावार्थे,
क्वचिद्ब्राह्मणादिवर्णभेदे, क्वचिद्गोत्रार्थे, क्वचिदवयवव्यङ्ग्यार्थे स्वरूपार्थे,क्वचित् सकृदुपदेयव्यङ्ग्ये, क्वचिद् व्याकरणपारिभाषिके पुत्रपौत्रप्रभृतकेऽपत्ये ,क्वचिच्छब्दे स्फोटे च,क्वचित् पदार्थभेदे सामान्ये च,क्वचित् पुष्पभेदे,क्वचिच्छन्दोभेदे चानेकेषु अर्थेषु जातिशब्दो लभ्यते।
जन्मार्थे जातिशब्दो यथा-
तपः श्रुतञ्च योनिश्चेति ब्राह्मणकारणम्।
तपः श्रुताभ्यां यो हीनः जातिब्राह्मण एव सः।।
(शब्दार्थचिन्तामणिः)
अस्मिन् पद्ये "जातिब्राह्मणः"इति पदे "जात्या ब्राह्मणः"इति व्युत्पत्त्या तृतीयातत्पुरुषसमासो ज्ञेयः।यस्यार्थो जन्मना ब्राह्मण इति।
तदुक्तम्-
"जातिर्जातं च सामान्यम्"
(अमरकोशः-१.४.३१)
अत्रापि जातिशब्दो जातार्थे निर्दिष्टः।यस्य जन्म एवाशयो विद्यते।
पुनस्तत्रैव-
"जातिः सामान्यजन्मनोः"
(अमरकोशः-३.३.७५)
जातिर्बाह्मणादिवर्णविशिष्टार्थेऽपि दृश्यते।ब्रह्मणादिवर्गचतुष्टये वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णा च।तत्र शुद्धा जातयः ब्राह्मणादयः।सङ्कीर्णजातयश्च मूर्द्धावसिक्तादयोऽनेकप्रकारकाः।तदाह मनुः-
"ब्राह्मणः क्षत्त्रियोवैश्यस्त्रयो वर्णा द्विजातयः।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः।।"
(मनुस्मृतिः-१०.४)
अन्यत्रापि चोक्तम्-
“बभूवुर्ब्रह्मणो वक्त्रादन्याब्राह्मणजातयः।
ब्रह्मणो बाहुदेशाच्च जाताः क्षत्रियजातयः।।
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।तासां सङ्करजातेन बभूबुर्वर्णसङ्कराः।।
भगवता पाणिनिनाऽपि स्वकीये सूत्रग्रन्थे वर्णचतुष्टयबोधार्थे जातिशब्दप्रयोगो निर्दिष्टः।तच्च-
"जातेश्च"
(अष्टाध्यायी-६.३.४१)
पुनश्च
"जातेयस्त्रीविषयादयोपधात्"
(अष्टाध्यायी-४.१.६३) इति सूत्रव्याख्यासु महाभाष्ये काशिकान्यासादिषु जातिलक्षणे तदिदं निर्दिश्यते-
"आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्।
सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह॥"
अत्र जातेस्त्रिविधं लक्षणं निर्दिष्टम्।तत्रादौ प्रथमं लक्षणम्-
"आकृतिग्रहणा जातिरिति।" तत्र आकृतिर्नाम-
"आक्रियते व्यज्यतेऽनयेत्याकृतिः संस्थानमुच्यते तथा गृह्यतेऽनेनेति ग्रहणं व्यञ्जकमुच्यते।आकृतिर्ग्रहणं यस्याः सा जातिरर्थात् अवयवसंस्थानव्यङ्ग्यः पदार्थविशेषः।
अस्यायं भावो यद् आकृतिग्रहणेन अवयवसंस्थानव्यङ्ग्येन अर्थात् स्वरूपव्यञ्जकेन या स्मर्यते सा जातिरिति।तदुदाहरणानि-
कुक्कुटी,शूकरी,मयूरी इति प्रभृतीनि।
द्वितीयं जातिलक्षणम्-
"लिङ्गानाञ्च न सर्वभाक् सकृदाख्यातनिर्ग्राह्या जातिरिति।"
सर्वाणि लिङ्गानि न भजत इति सर्वभाक् तथा सकृद् एकवारम्, आख्याता उपदिष्टा, निर्ग्राह्या निश्चयेन ग्राह्या इति सकृदाख्यातनिर्ग्राह्या।
अर्थात् "असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति जातिलक्षणान्तरम्।तदुदाहरणानि- ब्राह्मणी,वृषली इति प्रभृतीनि।
अयमभिप्रायो यद् एकस्यां व्यक्तौ ब्राह्मण वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति जातिः।
जातेस्तृतीयं लक्षणं-"गोत्रञ्च चरणैः सहेति।"
जातेरिदं लक्षणं पारिभाषिकम् वर्तते।यद्धि व्याकरणशास्त्रोपयक्तमेव नान्यत्र।अत्र गोत्रं नाम लौकिकम् अपत्यम् उत शास्त्रीयम्
"अपत्यं पौत्रप्रभृति गोत्रम्"
(अष्टाध्यायी-४.१.१६२)
इति सूत्रेण पौत्रभृतिकम् अपत्यं गोत्रं पारिभाषिकम्।अत्र तु "उभयगतिरिह भवति" इति परिभाषाबलेन उभयोरेव ग्रहणं भवति।तदुच्यते-
"इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्यते।"
चरणमध्ययनभेदेनानेकधा।चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः।
तदित्थं गोत्रञ्च चरणैः सह जातिर्भवति।गोत्रलक्षणाया जातेरुदाहरणानि-औपगवी,नाडायनी,चारायणी इति प्रभृतीनि तथा चरणलक्षणाया जातेरुदाहरणानि-कठी ,कलापी,
बह्वृचीति प्रभृतीनि।
निष्कृष्टेन जातेर्लक्षणं पुनरिदमुच्यते-
“प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद् गुणैः।
असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः।।”
(महाभाष्यम् )
सेयं जातिर्नित्या अनेकसमवेतत्वरूपा ब्रह्मस्वरूपात्मिका च।
व्याकरणदर्शने तु जातिः शब्दत्वेन स्फोटत्वेन च कीर्त्यते।तदुच्यते-
“अनेकव्यक्त्यमिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः।।”
(वाक्यपदीयम्)
पुनश्च-
"अनेकव्यक्त्याधारा हि जातिः"
(न्यासकारः)
सा च जातिः सार्वकालिकी सत्ता नित्या अनेकव्यक्त्याश्रयीभूता ब्रह्मस्वरूपा च विद्यते।
तस्मादेव हरिकारिकायां जातिमहत्वं गीयते-
"सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः।।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः।"
(वाक्यपदीयम्)
अन्यत्रापि चोक्तम्-
"सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च”
(काव्यप्रकाशः-शक्तिनिरूपणम्)
न्याये तु षोडशपदार्थान्तर्गता पदार्थविशेषो जातिः।तल्लक्षणं यथा-
"साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः।"
(गौतमीयं न्यायसूत्रम्)
पुनस्तत्रैव-
समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं यस्याः सा जातिः।
तदुच्यते-"समानप्रसवात्मिका जातिः"इति (गौतमः)
जातिर्नाम सामान्यम्।तच्च न्याये द्विविधं परापरभेदात्।तदाह-
"द्रव्यत्वादिकजातिस्तु परापरतयोच्यते"
(भाषापरिच्छेदः-८.९ )
जातिलक्षणं पुनरित्थं निर्दिश्यते-
“नित्यत्वे सत्यनेकसमवेतत्वं सामान्यं जातिर्वा” इति (सिद्धान्तमुक्तावली)
तस्मादेव सामान्यार्थऽपि जातिः प्रयुज्यते।तदाह-
"जातिर्जातञ्च सामान्यम्"
(अमरकोशः-१.४.३१)
पुनश्च-
"जातिः सामान्यजन्मनोः"
(अमरकोशः-३.३.७५)
छन्दश्शास्त्रे तु जातिर्नाम मात्राश्रयं छन्दः।छन्दो द्विविधं वर्णगणनाश्रयं मात्रागणनाश्रयञ्च।तत्र वर्णगणनाश्रयं छन्दो वृत्तं तथा मात्रागणनाश्रयं छन्दो जातिरुच्यते।तदुक्तम्-
"पद्यं चतुष्पदी ज्ञेयं वृत्तं जातिरिति द्विधा।
वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत्।।
(छन्दोमञ्जरी)
मालतीपुष्पार्थेऽपि जातिशब्दो लभ्यते।
जातिपुष्पं नाम चम्पा मालती वा।मेदिनीकारस्तदाह-
“जातिर्ज्जाती च सुमना मालती राजपुत्त्रिका।
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका॥”
अन्यत्रापि -
"पुष्पेषु जाती पुरुषेषु विष्णुर्
नारीषु रंभा नगरीषु काञ्ची।
नदीषु गङ्गा नृवरेषु रामः
काव्येषु माघः कविकालिदासः॥"
(नीतिसारः-२१)
अत्र मानम् अमरकोशवचनमपि-
"अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता।
सुमना मालती जातिः सप्तला नवमालिका।।
(अमरकोशः-२.४.७२)
जातिशब्दः एकप्रकारार्थे स्वरूपार्थे चोपलभ्यते।तदुक्तम्-
"जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्"
(अष्टाध्यायी-१.२.५८) इति सूत्रव्याख्यायां काशिकायां न्यासे चेदमुच्यते यत् "जातिर्नामायमेकोऽर्थः,तदभिधाने एकवचनमेव प्राप्तम्,अत इदमुच्यते।"
स्वरूपार्थे यथा-
"संस्कृतप्राकृतयोः समा जातिः" अर्थात् संस्कृतभाषायाः प्राकृतभाषायाश्च समानं स्वरूपं भवतीति भावः।
तदित्थम् उपर्युक्तप्रमाणैरिदं स्पष्टं भवति यज्जातिशब्दोऽनेकार्थकः। तस्मादेव तन्मूलभूतस्य जनीधातोरपि अनेकार्थत्वमनुमीयते।
Comments
Post a Comment