“उपसर्गानुसारिणो धात्वर्थाः”

                                 द्वितीयोऽध्यायः
                      “उपसर्गानुसारिणो धात्वर्थाः”
              "उपसर्गानुसारिणो धात्वर्थाः"इति जिगमिषायां सर्वादौ किन्नामोपसर्गः इति आकाङ्क्षा समुदेति।तस्मादुपसर्गविधायकं सूत्रम् "उपसर्गाः क्रियायोगे"(अष्टाध्यायी-१/४/५९) इति स्मर्यते।यस्यायं भावः "प्रादयः क्रियायोगे उपसर्गसञ्ज्ञाः  स्युः।" ते  द्वाविंशतिः सङ्ख्यकाः प्रादयः क्रियया योगे(सम्बन्धे) उपसर्गसञ्ज्ञया व्यपदिश्यन्ते।तद्यथा-"प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते प्रादयः।"
          प्रादीनाम्(उपसर्गानाम्) स्वतन्त्रः कश्चनार्थो न भवति।निरुक्ते तदुक्तं-"न निर्बद्धा उपसर्गा अर्थान्निराहुरिति नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्तीति"शाकटायनाः।शाब्दिकनये नैयायिकनये च प्रादयो(उपसर्गाः) द्योतका भवन्तीति तत्तद्ग्रन्थेषु स्फुटम्।भूषणसारे उपसर्गाणां द्योतकत्वं तदितरनिपानाञ्च वाचकत्वमिति न्यायमतत्वेन वर्णितम्।तदुक्तं भूषणकारिकायाम्-
"प्रादयो द्योतका येन निपाताश्चादयस्तथा"
          (वैया.भू.कारिका-४२)
न्यायमते व्याकरणमते च उपसर्गानां द्योतकत्वम्।तत्र द्योतकत्वं नाम तात्पर्यग्राहककत्वम्।"तात्पर्यग्राहकत्वं द्योतकत्वम्" इत्युक्तम्।अस्यायं भावः-उपसर्गाणां स्वतन्त्रार्थो न भवति, अपितु ते यदा क्रियया युक्ताः(संयुक्ताः ,सम्बद्धाः) भवन्ति तदा धातुगर्भे सन्निहितानाम् अर्थानां द्योतकाः(प्रकाशकाः) भवन्ति।
          उपसर्गशब्दे "उप" तथा "सर्गः"इति  शब्दौ श्रूयते अर्थात् उपसर्गशब्दः उप-सर्गशब्दद्वयस्य मेलनेन सिद्ध्यति।यत्र "उपशब्दस्यार्थः समीपम्" तथा "सर्गशब्दस्यार्थः सृष्टिः"इति।अर्थात् उपसर्गाः स्वतन्त्रतया न कस्यचिदर्थस्य वाचका, अपितु ते कस्यचित् क्रियावाचकस्य धातुशब्दस्य समीपे स्थित्वा नवीनम् अर्थम् उद्भावयन्ति सम्भावयन्ति धातूनामनेकार्थत्वात्।यथा-गेहादिषु बहूनि वस्तूनि भवन्ति परं दीपकस्य(प्रकाशस्य) अभावे अन्धकारव्याप्तौ च न तेषां सत्ता(विद्यमानत्वम्) सिध्यति, न तेषां ज्ञानं भवति।गेहादिषु यथा दीपकेन  प्रकाशे सम्पादिते सति पुनस्तत्र वस्तूनि प्रतीयमानानि भवन्ति।तथैव धातूनामनेकार्थत्वात् इति महाभाष्यवचनात् धातुगर्भेऽनेकेऽर्था सन्निहिता भवन्ति उपसर्गास्तेषां द्योतकाः(तात्पर्यग्राहकाः प्रकाशकाश्च) भवन्ति।"सति तात्पर्ये सर्वे सर्वार्थवाचकाः" महाभाष्यवचनमिदमेव ध्वनयति।
          उपसर्गाणां(प्रादीनाम्) द्योतकत्वे मानम् -
"ईश्वरमनुभवति","अनुभूयते सुखम्" इत्यादिषु स्थलेषु अनुभवादिप्रतीतिर्न धात्वर्थो यतोहि "भवति","भूयते" इत्यादिष्वपि अनुभवाद्यर्थप्रतीतिः स्यात्।अनुभवादिर्नोपसर्गार्थः स्यात्,तत्र अनुभवाद्यर्थस्य अप्रकृत्यर्थतया तत्राख्यातार्थस्य अन्वयापत्तिः स्याद् यतः "प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्" इति व्युत्पत्तिस्वीकारात्,तथा "अनुगच्छति","अनुगम्यते" इत्यादिषु स्थलेषु अनुभवादिबोधापत्तिः स्यात्।अनुभवादिर्न विशिष्टार्थः(उपसर्गधातूभयसमवेतार्थः,"अनुभू"इति विशिष्टसमुदायार्थः) विशिष्टशक्तिस्वीकारे गौरवात्।तदुक्तं- विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे विनिगमनाविरहाद् अव्यवहितोत्तरत्वसम्बन्धेन अनुविशिष्टभूशब्दस्य अव्यवहितपूर्वत्वसम्बन्धेन भूशब्दविशिष्टस्य अनोर्वा वाचकत्वकल्पने गौरवस्य स्पष्टत्वात्।विशिष्टस्य प्रकृतित्वाभावेन तदर्थे प्रत्ययार्थान्वयापत्तेश्च।"
         अतोऽगत्या भूधातोरेव धातूनामनेकार्थस्य सर्वसम्मतत्वेन अनुभवार्थे शक्तिः।अनुरूपोपसर्गस्य च द्योतकत्वम् अङ्गीकरणीयम्।उपसर्गसञ्ज्ञायाः क्रियायोगे क्रियावाचकधातुत एव द्योत्यार्थविशिष्टक्रियाभानम्।तस्माद् भूधातोरेव विद्यमानत्वादिवाचकस्य अनुभवाद्यर्थे लक्षणास्तु उपसर्गास्तत्र तात्पर्यग्राहका भवन्तु।"तात्पर्यग्राहकत्वं द्योतकत्वम्" इति भूषणसारादौ प्रपञ्चितम्।द्योतकत्वलक्षणं तावद् "द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठवृत्त्युद्बोधकत्वम्।" तत्र स्वम् द्योतकम् अन्वादिपदम्।तत्समभिव्याहृतम् अर्थात् तत्समीपोच्चारितं पदम् "अनुभूयते" इत्यादौ "भू"आदिपदम्।तन्निष्ठा वृत्तिः अर्थात् शक्तिः अनुभवाद्यर्थनिरूपिता भ्वादौ विद्यमाना शक्तिः।तदुद्बोधकः "अन्वादिः",उद्बोधकत्वम् "अन्वादौ" इति "अनुभूयते" इत्यत्र "अनौ" द्योतकत्वलक्षणं सङ्घटते।
            "सुजनः" इत्यादौ क्रियावाचकासमभिव्याहारे उपसर्गत्वाभावाद् वाचकत्वमेव।अतएव "निर्मक्षिकम्"इत्यत्र निरित्यस्य ध्वंसवाचकतया,"उपकुम्भम्" इत्यत्र "उप"इत्यस्य समीपवाचकतया अव्ययीभावसमासः सिध्यति।एवञ्च प्रादीनां स्वरूपद्वयं क्रियायोगवत् क्रियायोगाभाववच्च।क्रियायोगवत्त्वे प्रादीनामुपसर्गत्वे तेषां द्योतकत्वं,तदभाववत्त्वे च प्रादीनाम् उपसर्गसञ्ज्ञाभावे वाचकत्वमिति केषाञ्चिन्मतं तन्नोचितं यतोहि "सुजनः" इत्यादौ यः स्वादिर्वर्तते वस्तुतः उपसर्गो नास्ति सः,अपितु उपसर्गप्रतिरूपकम् अव्ययम् अस्ति। सिद्धान्तकौमुद्यां दीक्षितेन अव्ययप्रकरणे तत्प्रतिपादितम्-"उपसर्गविभक्तिस्वरप्रतिरूपकाश्च" ।
            उपसर्गाणाम् अनुभवाद्यर्थवाचकत्वं स्वीक्रियेत चेद् "उपास्येते हरिहरौ" ,"अनुभूयते सुखम्" इत्यादिषु स्थलेषु कर्मणि लकारानापत्तिः स्याद् अर्थात् तत्र कर्मणि लकारो न सिद्ध्येत।तदुक्तं भूषणकारिकायाम्-
"द्योतकाः प्रादयो येन निपाताश्चादयस्तथा।
उपास्येते हरिहरौ लकारो दृश्यते यथा।।" 
(वैयाकरणभूषणसार:-४२)
उपर्युक्तविवेचनेन निकृष्टतयेदं सिद्ध्यति यद् उपसर्गाणां द्योतकत्वं सर्वसम्मतमेव।अन्यत्रापि तदुक्तं-
"निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः। 
द्योतकत्वात् क्रियायोगे लोकादवगता इमे।।"

उपसर्गाणां त्रिधा प्रवृत्तिः शास्त्रेषु निर्दिष्टा।तदुक्तं-
"धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते।
तमेव विशिनष्ट्यन्य उपसर्गगतस्त्रिधा।।"
उपसर्गाणाम् तिस्रोऽवस्था गतयो प्रवृत्तयो वा भवन्तीति कारिकार्थाः।ताश्च का इति चेत्-
१."धात्वर्थं बाधते कश्चित्"- अस्यायमभिप्रायो वर्तते यत् कश्चन उपसर्गस्तादृशो भवति यो हि धात्वर्थं बाधते अर्थात् धातुपाठे धातोरुक्तार्थस्य बाधं करोति।तद्यथा-
दानार्थे पठितस्य "डुदाञ् दाने"इति धातोः "आङ्"इति उपसर्गयोगेन दानार्थस्य बाधो भवति तथा आदानार्थस्य ग्रहणार्थकस्य च प्रतीतिर्भवति।एवमेव गतिनिवृत्तर्थकस्य "ष्ठा गतिनिवृत्तौ" इति धातोः "प्र"इति उपसर्गसंयोगेन गतिनिवृत्तिरूपस्य धात्वर्थस्य बाधो गतिक्रिया च ध्वन्यते।तदुक्तं -
"तिष्ठति प्रतिष्ठते इति तिष्ठतीति व्रजिक्रियायाः निवृत्तिः।प्रतिष्ठत इति व्रजिक्रिया गम्यते।"
"दुह प्रपूरणे" इति अदादिगणः परस्मैपदी द्विकर्मकोऽनिट् धातुरिति धातुपाठेऽवलोक्यते।प्रपूरणे "प्र" इत्युपसर्गः
"धात्वर्थं बाधते कश्चिद्" इति भावेन "पॄ पालनपूरणयोः" इति धात्वर्थं बाधते।तस्माद्धि प्रपूरणमिह पूरणाभावं वेदयति।
अत्र मानम्
"प्रपूरणं पूरणाभावः,उपसर्गोऽत्र धात्वर्थे बाधते प्रस्थानवत्" इति (क्षीरतरङ्गिणी)।

"प्रस्थानम्"-'प्र' इत्युपसर्गपूर्वकात् "ष्ठा गतिनिवृत्तौ"(भ्वादिगणः,परस्मैपदी,अकर्मकोऽनिट्) इति धातोर्ल्युट्प्रत्ययेन निष्पन्नं भवति।यद्धि "धात्वर्थं बाधते कश्चित्"इति भावेन विजिगीषोः प्रयाणम्,गमनम् निर्वाणम् इति प्रभृतीन् अनेकार्थान् वेदयति।अत्र मानम्- 
"यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः"             (अमरकोशः-२.८.९५)।
एवमेवान्यत्रापि विज्ञेयम्।
२."कश्चित्तमेवानुवर्तते"-अस्यायमाशयो यत् कश्चन उपसर्गस्तादृशो भवति यो हि धातुपाठे धातोरुक्तार्थस्य एव अनुवर्तनं करोति अर्थात् धातुपाठे श्रुतार्थस्य एव कथनं करोति।तद्यथा-प्राणिगर्भविमोचनार्थकस्य "षूङ् प्राणिगर्भविमोचने"इति धातोः "प्र"इति उपसर्गयोगेन तदेवार्थप्रतीतिर्भवति।
"ष्णु प्रस्रवणे"इत्यदादिगणः परस्मैपदी सेट् धातुः पठ्यते।"प्रस्रवणम्" इत्यत्र "प्र" इत्युपसर्गः "कश्चित्तमेवानुवर्तते" इति भावेन
धात्वर्थमेवानुवर्तते।तस्मात्प्रस्रवणं नाम प्रकर्षेण क्षरणम्,प्रकृष्टतया अधोनिस्सरणमित्यर्थः।एवमेवान्यदुदाहरणमपि विज्ञेयम्।
३."तमेव विशिनष्ट्यन्यः"-अस्यायं भावो यत् कश्चन उपसर्गस्तादृशो भवति यो हि धातुपाठे धातोरुक्तार्थस्य एव विशेषणीभवति अर्थात् धातुपाठे धातोरुक्तार्थस्य विशेष्यतां द्योतयति।तद्यथा-नम्रतापूर्वकस्य शब्दव्यापारस्य "णम प्रहत्वे शब्दे"इति धातोः "प्र"इति उपसर्गसंयोगेन नम्रतापूर्वकशब्दव्यापारस्यार्थस्य प्रकृष्टत्वबोधो भवति।
अन्यद्धि –
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। प्रहाराहारसंहारविहारपरिहारवत्॥’’
           (भर्तृहरिकारिका)
इयमेकं कारिका पाठान्तरेण तदेवं पठ्यते-
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। नीहाराहारसंहारप्रतीहारप्रहारवत्॥’’        
(मुग्धबोधव्याकरणटीकायां दुर्गादासः)
उपसर्गसंयोगेन धातुपाठे पठितानाम् अर्थानामपेक्षया अधिका अन्येऽपि धातुगर्भे सन्निहिता अर्था द्योत्यन्ते अर्थात् प्रकाश्यन्ते।
                   “हृञ् हरणे” इति भ्वादिगणस्य द्विकर्मकोऽनिट् उभयपदी धातुः।“हरणं प्रापणं स्वीकारः स्तैन्यं नाशनञ्च इत्यर्थनिर्देशो माधवीयधातुवृत्तौ वर्तते। कविकल्पद्रुमे तु “हृञ् हृतौ “इति धातुः तथा हृतिर्देशान्तरप्रापणं तत्रार्थो निर्दिष्टो वर्तते।तदेवं सिध्यति यदयं धातुः स्वयमनेकार्थको विद्यते।पुनश्च विविधोपसर्गा इतोपि विविधार्थं द्योतयन्ति।तद्यथा-प्रसंयोगेन  कशाद्याघातार्थम् आसंयोगेन भक्षणार्थं सङ्ग्रहणार्थञ्च,समुपसर्गयोगेन समाहारार्थं वधविनाशार्थञ्च,विसंयुक्तेन क्रीडाभ्रमणार्थं,परिसहचरितेन दोषादिनिवारणार्थम्,प्रतियुक्तेन प्रत्येकहरणार्थम्,उपसंयोगेन दानोपहारार्थम्,अपयोगेन दूरीकरणार्थम् ,
 उदुपसर्गयोगेन दृष्टान्तार्थं हृधातुर्बोधयति।एते उपसर्गाश्च तत्र द्योतका भवन्तीति भावः।प्रहारार्थे-
 “करप्रहारेण शिरश्चामरस्य पृथक्कृतम्”
      (श्रीदुर्गासप्तशती-३.१६)
आहारार्थे यथा-
“जेमनं लेह आहारो निघासो न्याद इत्यपि।
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्॥’’
(अमरकोशः-२.९.५७)
अन्यत्रापि-
“आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिकोविशेषो धर्मेण हीनाः पशुभिः समानाः॥’’
(महाभारत-शान्तिपर्व-२६५/२९)
समाहारार्थे यथा-
“ऋतुसंहारः” इत्यत्र ऋतूनां समाहारः।ऋतुवर्णनात्मिका कालिदासकृतिः तैव “वेणीसंहारः” वेणीनां समाहारो बन्धो वा भट्टनारायणस्य कृतिरियम्।
विनाशार्थे यथा-
“रजो गुणेन भुवनं सृजामि सचराचरम्।
पालयामि च सत्वेन तमसा संहरामि च।।“
     ‌‌ (पद्मपुराणम्-ज्ञानपादः-४.४)
वधार्थे-रामः रावणकुलस्य संहारं चकार।
क्रीडाभ्रममणार्थे-
“विहारस्तु परिक्रम:”(अमरकोशः३.२.१६)।
पुनश्च-
“विहारो भ्रमणे स्कन्धे लीलायां सुगतालये” (मेदिनीकोशः)।
अन्यत्रापि-“वायुविहारं करवाम”।
निवारणार्थे-
“क्षमैका युद्धस्य परिहारो वर्तते”
प्रत्येकहरणार्थे-
प्रतिहार: (द्वारपालः) राजसन्देशं प्रतिहरति।
दानोपहारार्थे –
उपगतो हारं इति वाक्ये हारनिकटस्थद्रव्यम्।तद्यथा-
“रत्नपुष्पोपहारेण च्छायामानर्च्च पादयोः”
( रघुवंशमहाकाव्यम् -४.८४ )
अन्यद्धि-
“उरोमुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्”
(नैषधीयचरितम्-१.४८)
दूरीकरणार्थे-
ईश्वरः भक्तकष्टम् अपहरति,चौरः धनम् अपहरति च।
दृष्टान्तार्थे-गुरुः कारकनियमान् पाठयित्वा तदुदाहरणानि उद्धरति।

"लप व्यक्तायां वाचि"(भ्वादिगणीयः, परस्मैपदी,सकर्मकः,सेट्) धातुः।यो हि व्यक्तवचोऽर्थात् स्फुटभाषणमित्यर्थं बोधयति।स्फुटभाषणातिरिक्तान् अन्यानपि अर्थान् विविधोपसर्गसंयोगेन बोधयति।उपसर्गास्तेषाम् अर्थानां द्योतकाः भवन्ति।तदुक्तं-
"स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः।
अनुलापो मुहुर्भाषा विलापः परिदेवनम् ।।
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥
 सुप्रलापः सुवचनमपलापस्तु निह्नवः।।"
    (अमरकोशः-१.६.१५-१७)
"आलापः"-
आङुपसर्गपूर्वको लपधातुराभाषणार्थं बोधयति।तत्रालापो नाम कथनोपकथनं सम्भाषणं वा।तदुक्तम्-
आलापः-कथोपकथनं सम्भाषणं वा।
"काव्यालापाश्च ये केचित् गीतकान्यखिलानि च”
(विष्णुपुराणम्)
आलापैरिव गान्धर्वमदीप्यत  पदातिभिः” 
(शिशुपालवधम् -१९.४७)
एतद्व्याख्यायामाचार्यमल्लिनाथः-
 “आलापैः स्वरसाधनैरक्षरविशेषैः”इति।

"प्रलापः"-
"प्र" इति उपसर्गयोगेन लपधातुरनर्थकवचनम् इत्यर्थं ज्ञापयति।तद्यथा-
"असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्"
(मनुस्मृतिः-१२.६)
अन्यद्धि- 
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा"
(वेणीसंहारनाटकम्-५.३१)

"अनुलापः"-
अनुर्वीप्सायां वारंवारं लप्यते,अनु वारं वारं लपनं वेति विग्रहे अनूपसर्गाल्लपधातोर्भावार्थे घञा प्रत्ययेन सिध्यति 
अनुलापः।"वारं वारं कथनं,पुनः पुनः कथनं,पुनरुक्तिरावृत्तिर्मुहुर्भाषणम् वार्थः।तदुक्तम्-
"आपृच्छाऽऽलाप संभाषोऽनुलापः स्यान्मुहुर्वचः।।"
(अभिधानचिन्तामणि:-२७४)
अन्यत्रापि -
"अनुलापो मुहुर्भाषा प्रलापोऽनर्थकं वचः।"
(अभिधानरत्नमाला-१.१.१.१५०)
यथा-शिक्षकोऽध्यापनकाले छात्राणां सम्मुखम् अनुलापं करोति।

"विलापः"-
"वि"इति उपसर्गसंयोगेन लपधातुर्दुःखेषु क्रन्दनार्थं वेदयति। तदुच्यते-
"क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि"
तथाहि 
(शब्दरत्नावली)
 "विलापो दुःखजं वचः"
(उज्ज्वलनीलमणिः)
तद्यथा- "उन्मादमदनमनोरथपथिकबधूजनजनितविलापे। अलिकुलसङ्कुलकुसुमसमूह-निराकुलवकुलकलापे।।"
(गीतगोविन्दम्- १.२९)
अन्यद्धि- 
"सा राक्षसीमध्यगता च भीरु
र्वाग्भिर्भृशं रावणतर्जिता च।
कान्तारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता।।"
(वाल्मीकिरामायणम्-५.२८.२)
तद्यथा-व्रजबालाः कृष्णवियोगे विलापं कुर्वन्ति स्म।

"विप्रलापः"-
विरुद्धः प्रलापो विप्रलापः।विरोधोक्तिः परस्परविरुद्धार्थकथनं वा विप्रलापः।
"विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि
"'(हेमचन्द्रः)
यथा-
"स धर्म्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापापविद्धम्"
( महाभारतम्-६.८२.२५)
"सत्यं श्रेष्ठं पाण्डव विप्रलापम्"
 (महाभारतम्,वनपर्व- ५.२१)

"संलापः"-
परस्परभाषणम् अन्योन्यं प्रीतिभाषणं वा संलापः।उक्तिप्रत्युक्तिभावेन विरोधरहितमन्योन्यभाषणं संलापः।  रहसि भाषणं संलापः इति कौमुदी। तदुक्तं-
"उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्त्यते।"
(उज्ज्वलनीलमणिः-रूपगोस्वामी)

"सुप्रलापः"-
सुष्ठु प्रकृष्टं लपनम् इति सुप्रलापः अर्थात् सुवचः सुन्दरवचनम् इति भावः।तद्यथा- नीतिकारः सुप्रलापं करोति।

"अपलापः"-
सतोऽप्यसत्त्वेन कथनं ज्ञातस्य गोपनं चापलापः।तद्यथा-धूर्तः सर्वदापलापं करोति।

“वह प्रापणे” इति भ्वादिगणस्योभयपदी द्विकर्मकोऽनिट् धातुः। जनः ग्रामं भारं वहति वहते जनः ग्रामे भारं  प्रापयतीत्यर्थः।अर्थान्तरे तु अकर्मकोऽयं धातुः। तदुच्यते-
‘’धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसंग्रहात् ।प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।।“
तदुक्तं क्षीरतरङ्गिण्याम्-
“वह प्रापण इति सकर्मकोऽयम्। अर्थान्तरे वृत्ते स्यन्दनेऽर्थे वर्त्तमानोऽकर्मकः सरित्(नदी) वहति(प्रवहतीति भावः), मरुद्(वायुः) वहति(वातीति भावः)।
    एतेन स्पष्टं भवति यद्वहधातुरनेकार्थको विद्यते पुनश्च विविधोपसर्गसंयोगेन भूयोऽर्थान् ज्ञापयति।उपसर्गास्तदर्थज्ञापने सहकारभावमाश्रयन्ति।तद्यथा-
“प्रवाहः”-प्रोपसर्गपूर्वो वह धातुः प्रवृत्तिजलस्रोतःप्रकृष्टाश्वार्थान् बोधयति।प्रवृत्त्यर्थे प्रवाहशब्दो यथा-
 “सत्त्वैकतानगतयो वचसां प्रवाहैः”
      (श्रीमद्भागवतम्-७.९.८)
कोशवचनमपि तत्र प्रमाणम्।यथोक्तं-
“प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः”
     (अमरकोशः-३.२.१८)

जलस्रोतस्यर्थे प्रवाहो यथा
“पूर्ब्बं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प”
(रघुवंशमहाकाव्यम्- ५.४६)

प्रकृष्टाश्वार्थे प्रवाहशब्दो यथा- 
“उह्यते अनेन”इति विग्रहे करणेऽर्थे घञा प्रत्ययेन वाहः निष्पन्नो भवति। यस्यार्थो भवति घोटकः(अश्वः)।तदुच्यते-
“इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत्”
(अध्यात्मरामायणम्-२.५.५६)
प्रकृष्टो वाहः(अश्वः) इति प्रवाहः प्रकृष्टाश्वः अर्थात् उत्तमाश्व इति भावः।


“संवाहः”-समुपसर्गयोगेन वहधातुः संवाहयतीति विग्रहे णिचि ततोऽचि प्रत्यये सति निष्पन्नः सन् अङ्गविमर्दकार्थं बोधयति।तद्यथा-
“तं तथा व्याधितं भार्य्या पतिं देवमियार्च्चयत्। पादाभ्यङ्गाङ्गसंवाहस्नानाच्छादनभोजनैः।।“
   (मार्कण्डेयपुराणम्-१६.१५)
तथाहि-शिष्यः गुरुपादं संवाहयति।“ अत्र प्रमाणम्-“संवाहनं मर्दनं स्याद्” 
(अमरकोशः -३.२.२२) 

“विवाहः”-विशिष्टं वहनं विवाहः”इति विग्रहे ‘वि’इति उपसर्गसंयोगेन वहधातुः परिणयार्थं वेदयति।तस्माद् 
“भार्य्यात्वसम्पादकज्ञानं विवाहः”
अत्र मानमेतत् कोशवचनम्-
विवाहोपयमौ समौ”
(अमरकोशः-२.७.६०)
पुनस्तत्रैव-
 “तथा परिणयोद्वाहोपयामाः पाणिपीडनम्”
(अमरकोशः-२.७.६१)
अन्यत्रापि-
“चतुर्णामपि वर्णानां प्रेत्य चेह हिताय च।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत॥
ब्राह्म्यो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः॥“
(मनुस्मृतिः-३.२१)

“उद्वाह”-उदुपसर्गपूर्वोऽपि वहधातुः परिणयार्थं बोधयति।तद्यथा- 
“उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्”
(मनुस्मृतिः-३.४)
उद्वहेत् इत्युक्ते परिणयेत्, उपयच्छेत, परिगृह्णीत इति भावः।
पुनश्च-
“अविप्लुत ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेदिति” 
         याज्ञवल्क्यस्मृतिः)
अन्यद्धि-
“शिक्षितनाट्यवेदैरुद्वाहसङ्गीतमुदारक्लृप्तम्”
        (याद०-१३-८१)
अमरकोशकारस्यापि अयमेवाशयः-
“तथा परिणयोद्वाहोपयामाः पाणिपीडनम्”
       (अमरकोशः-२.७.६१)

“निर्वाहः”-‘निर्’ इत्युपसर्गपूर्वको वहधातुः कार्य्यसम्पादनं प्रतिपालनञ्च बोधयति।तद्यथा- 
“निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्” 
(मुद्राराक्षसम्-२.१८)
अन्यद्धि- 
माता निजकर्त्तव्यं सम्यक् निर्वहति।

आवाहनम्-
आङुपसर्गपूर्वको वहधातुरामन्त्रणनिमन्त्रणाह्वानार्थं वेदयति।
तद्यथा- 
“प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने”
पुनश्च-
“विनायकं तथा दुर्गां वायुमाकाशमेव च।  आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ॥“
पूजाप्रकरणेषु विष्णुं शिवं गणपतिम् आवाहयामि इत्यादिप्रयोगो मुहुर्मुहुः समुपलभ्यते।
“ग्रह उपादाने” इति क्र्यादिगणीयः सेट् उभयपदी सकर्मको धातुः।तत्र “उपादानं स्वीकारः”-(क्षीरतरङ्गिणी) स्वयमनेकार्थको विद्यते नानार्थेषु हस्तव्यापारस्वीकारज्ञानार्थेषु प्रयोगात्।तद्यथा ज्ञाने-
“हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम्।
ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे॥“
(नैषधीयचरितम्-३.४)

हस्तव्यापारे-
“तौ जगृहतुः पादान् राजा राज्ञी च मागधी” 
(रघुवंशमहाकाव्यम्-१.५७)
पुनस्तत्रैव-
“गृहाण शस्त्रं यदि सर्ग एष ते” 
       (रघुवंशम्-३.५१)
स्वीकारे –
“वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।।“
(श्रीमद्भगवद्गीता-२.२२)
एदतिरिक्तेषु अर्थेषु ग्रहशब्दो लभ्यते।
गृह्णाति गतिविशेषानिति ग्रहः,अथ च गृह्णाति फलदातृत्वेन जीवानिति ग्रहः इति व्युत्पत्त्या ग्रहधातुर्वशोपरागनिर्बन्धसूर्यादिग्रहभेदे च वर्तते।तदुक्तं-
“ग्रहे ग्राहो वशः”(अमरकोशः-३.२.८)
पुनश्च-
“उपरागो ग्रहः”(अमरकोशः-१.४.१०)
पुनस्तत्रैव-
 “दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः”
       (अमरकोशः-३.३.२५१)
अतः ग्रहधातुरनेकार्थकोऽस्ति।पुनश्च विविधोपसर्गसंयोगेन अन्यान् अपि अनेकार्थान् बोधयन्ति तथोपसर्गाश्च द्योतका भवन्ति।

“सङ्ग्रहः”-समुपसर्गपूर्वको ग्रहधातुः समाहारे सङ्कलनग्रन्थे च वर्तते।संक्षेपेण गृह्यन्ते नानास्थाने विप्रकीर्णा अर्था बुध्यन्तेऽनेन सङ्ग्रहः।समाहारार्थे-
“समाहृतिस्तु सङ्ग्रहः”(अमरकोशः-१.६.६)
पुनश्च-
“सङ्ग्रहः खलु कर्तव्यः सङ्ग्रही नावसीदति”
अन्यद्धि- 
“कोशेनाश्रयणीयत्वमिति तस्यार्थसङ्ग्रहः।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥“
      (रघुवंशम्-१७.६०)
सङ्कलनग्रन्थे-
“विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः।
निबन्धा यः समासेन संग्रहं तं विदुर्बुधाः॥“
अतः ‘अर्थसङ्ग्रहः’,’तर्कसङ्ग्रहः’ इत्यादयो ग्रन्थाः अन्वर्थतां भजन्ते।

“आग्रहः”-आङुपसर्गपूर्वको
 ग्रहधातुरासक्तिम् अनुग्रहम् आक्रमं ग्रहणञ्च बोधयति।अत्र कोशवचनं प्रमाणम्।तदुक्तम्-
“आग्रहोऽनुग्रहासक्त्योराक्रमे ग्रहणेऽपि च”
    (मेदिनीकोशः)
आसक्तौ आग्रहशब्दस्तद्यथा-
 “इत्याग्रहात् वदन्तं तं स पिता तत्र नीतवान्”
(कथासरित्सागरे-२५.९९)
ग्रहणार्थे ‘आगृहीतो बद्धः’।तद्यथा- 
“अयमागृहीतकमनीयकङ्कणः”
(उत्तररामचरितम्-१.१८)
“अनुग्रहः”-‘अनु’उपसर्गपूर्वको ग्रहधातुः अनिष्टवारणपूर्व्वकेष्टसाधनार्थं कृपाप्रसादार्थञ्च वेदयति।तदुक्तं-
“विजपोन्मत्तनिःस्वानामकुत्सापूर्व्वकं हि यत्।
पूरणं दानमानाभ्यामनुग्रह उदाहृतः।।“
अन्यद्धि- 
“प्रभुः भक्तानुग्रहं करोति”

“निग्रहः”-नियमेन ग्रहणमिति विग्रहे ‘नि’इत्युपसर्गपूर्वो ग्रहधातुर्निश्चयेन ग्रहणं बन्धनम् अनुग्रहाभावञ्च ज्ञापयति।तदुक्तं-
“निग्रहं प्रकृतीनाञ्च कुर्य्याद् योऽरिबलस्य च”
(मनुस्मृतिः-७.१७५)
पुनश्च-
“यदाश्रौषं कर्णदुर्य्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य”
(महाभारतम्-१.१.१७४)


“अभिग्रहः”-‘अभि’इति उपसर्गसंयुक्तो ग्रहधातुरभियोगम् अर्थात् आभिमुख्येन युद्धादिप्रवृत्यर्थं वेदयति। तदुक्तं-
“विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥“
 (अमरकोशः-३.२.१३)

“प्रतिग्रहः”-‘प्रति’ इत्युपसर्गसम्बद्धो ग्रहधातुः स्वीकारदानोपहारग्रहणाद्यर्थान् बोधयन्ति।
दानार्थे प्रतिग्रहशब्दो यथा-
“भूमेः प्रतिग्रहं कुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्”
(विष्णुधर्मोत्तरपुराणम्)
अन्यत्र च- 
“नास्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा”(रा० २।८७।१७)
तत्र न प्रतिग्राह्यं दानमिति न ग्राह्यम् इयं भरतोक्तिः।
पुनश्च-
“शूद्राः प्रतिग्रहीष्यन्ति”
(श्रीमद्भागवतपुराणम्-१२.३.६८) 
प्रतिग्रहीष्यन्ति अर्थात् दानं ग्रहीष्यन्तीत्यर्थः।


परितो ग्रहः(ग्रहणम्) इति विग्रहे प्रतिग्रहो पत्नीग्रहणार्थे प्रयुज्यते।
तदुक्तं-
“पत्नीपरिजनादानमूलशापाः परिग्रहाः” 
(अमरकोशः-३.३.२५२)
अन्यद्धि-
 “समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम्”
        (रघुवंशम्-९.१४)
पुनस्तत्रैव-
“निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः।“
( रघुवंशमहाकाव्यम्-१.९५)

अन्यत्रापि-
“कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या”
(नैषधीयचरितम्-४.४५)
अन्यच्च-
 “असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः”
(अभिज्ञानशाकुन्तलम्-१.१९)

उपहारार्थेऽपि परिग्रहशब्दो लभ्यते। तद्यथा-
“राज्ञः प्रतिग्रहोऽयम्” (शा० १)
अत्र प्रतिग्रहो नाम उपहारः।

         स्वीकारार्थे प्रतिग्रहो दृश्यते।तद्धि-
प्रतिग्राहितं स्वीकारितम्।
“जाया-प्रतिग्राहितगन्ध-माल्याम्’
(रघुवंशम्-२.१)
कोशवचनमप्यत्र प्रमाणम्-
“’पत्नीस्वीकारशपथमूल्येष्वपि परिग्रहः”
         (वैजयन्तीकोशः)
“उपग्रह:”-उपगृह्यते समीपे गृह्यते इति उपग्रहः। 
“प्रग्रहः”-‘प्रकृष्टेन गृह्यते इति प्रग्रहः’ इत्यतयोर्विग्रहयोः उपपूर्वः प्रपूर्वश्च ग्रहधातुर्बन्द्यर्थं बोधयति।
तदुक्तं-
उपगृह्यते समीपे पठ्यते इति उपग्रहः।
“प्रग्रहोपग्रहौ बन्द्याम्”
(अमरकोशः-२.८.११९)
अन्यत्रापि-
“उपग्रहः पुमान् बन्द्यामुपयोगेऽनुकूलने”
(मेदिनीकोशः) इति।

"दिश अतिसर्जने"
(तुदादिस्थोऽनिट् उभयपदी सकर्मको धातुः)।तत्र "अतिसर्जनं त्यागः"इति क्षीरतरङ्गिणीकारः।त्यागो नाम दानम्। कविकल्पद्रुमे तु "दिश ओचे"इति धातुत्वेन पठितः।तत्र ओच इति उचिर्य्य समवायने इत्यस्य अचि रूपम्।धातूनामनेकार्थत्वादोच इह दानमाज्ञापनं वा।
"दिदेश कौत्साय समस्तमेवेति रघुः"
(रघुवंशमहाकाव्यम् )
कथनेऽप्ययं धातुः।तद्धि-"धर्म्मं दिशति देशिकः"इति दुर्गादासः।
महाभाष्ये तु "दिशि उच्चारणक्रियायाम्" इत्यपि धातुत्वेन निर्दिष्टः।
               तदित्थं ज्ञायते यद्दिशधातुरनेकार्थको दृश्यते।पुनश्च विविधोपसर्गसंयोगेन भूयोऽर्थान् ज्ञापयति।उपसर्गाणाम् तत्र द्योतकत्वं विविधार्थदर्शनात्।तद्यथा-

   "प्रदेशः'प्रदिशन्ति,प्रदिशामि"
             प्रपूर्वो दिशधातुर्देशमात्रं प्रविभागं दानार्थञ्च वेदयति।
देशमात्रे प्रदेशशब्दो यथा-
"दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशस्तव"
        (कुमारसम्भवम्-५.४५)
       प्रविभागार्थे प्रपूर्वदिशधातुर्दृश्यते। निरुक्ते तदुच्यते-
"तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति भावप्रधानमाख्यातम्। सत्त्वप्रधानानि नामानि"(निरुक्तम्-१.१.९)।" तत्र प्रदिशन्ति अर्थात् प्रविभज्योपदिशन्ति इति भावः।

     दानार्थेऽपि प्रपूर्वको दिशधातुप्रयोगो लभ्यते।तद्यथा- 
"इदं दिव्यं प्रदिशामि ते"
(महाभारतम्-वनपर्व-४.३६)
 तत्र 'प्रशब्दो दानार्थस्य द्योतकः। प्रयोगेष्वनेकार्थोऽयं धातुरिति दर्शनात्।'
       (उपसर्गार्थचन्द्रिका)

"निर्देश:"- 'निर्' इति उपसर्गसंयोगेन दिशधातुराज्ञाशासनवेतनोपदेशार्थान् ज्ञापयति।तदुक्तं-
"अववादस्तु निर्देशो निदेशः शासनं च सः॥" (अमरकोशः-२.८.२५)

 आज्ञार्थे निपूर्वो दिशधातुर्यथा-
"यूयं वै धर्मराजस्य यदि निर्देशकारिणः"
(श्रीमद्भागवतपुराणम्-६.१.३८)
पुनश्च-
"ॐ तत्सदिति निर्देशः ब्रह्मणस्त्रिविधः स्मृतः"
(श्रीमद्भगवद्गीता-१७.२३)

वेतनार्थेऽपि निपूर्वो दिशधातुः-
"कालमेव प्रतीक्षेत निर्देशं भृतिको यथा।"

"सन्देशः"-समुपसर्गसंयोगेन दिशधातुः संवादार्थं बोधयति।तद्यथा- 
“सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य,
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्॥”
(मेघदूतम्-१.७)


"विदेशः"-'विप्रकृष्टो देशो विदेश' इति व्युत्पत्त्या विपूर्वको दिशधातुर्देशान्तरं परदेशं वा वेदयति।तद्यथा-
"को विदेशः सविद्यानाम्"(चाणक्यः)

"आदेशः"- आङुपसर्गपूर्वको दिशधातुराज्ञार्थे वर्णस्य वर्णान्तरोत्पत्त्यर्थे प्रकृतिप्रत्ययोपघातिकार्य्यार्थे च लभ्यते।आज्ञार्थे दिशधातुस्तत्रादौ-
“आदेशं देशकालज्ञः शिष्यः शासितुरानत।"
       (रघुवंशम्-१.९२)
तथाहि-'शिष्यः गुर्वादेशं पालयति' इति।

आदिश्यते यः स आदेश इति व्युत्पत्त्या वर्णस्य स्थाने अन्या वर्णान्तरोत्पत्तिरादेशो भवति।
तदुक्तम्-"स्थानिवदादेशोऽनविधौ"
(अष्टाध्यायी-१.१.५६),
"आदेशप्रत्यययोः"
(अष्टाध्यायी-८.३.५९)
तथाहि-
"सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।"
(महाभाष्यम्,वाक्यपदीयम्)
अन्यत्रापि-
"धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्।” 
(रघुवंशम्-१२.५८)

"अतिदेशः"-'अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देश:(उपदेशः) अतिदेशः' इति व्युत्पत्त्या 
अतिपूर्वो दिशधातुरन्यधर्म्मस्यान्यत्रारोपणं वेदयति।तदुक्तं-
“प्रकृतात् कर्म्मणो यस्मात् तत्समानेषु कर्म्मसु।
धर्म्मोऽतिदिश्यते येन अतिदेशः स उच्यते।।"
तथाहि-
"अतिदेशो नाम इतरधर्मस्य इतरस्मिन् प्रयोगाय आदेशः"(मीमांसा)
अन्यत्रापि-
अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथा 'प्रकृतिवद् विकृतिः कर्त्तव्यः' इत्यादौ। अतिदेशः वैदिककर्म्मणीव व्याकरणादिशास्त्रे,लौकिकव्यवहारे च विद्यते।तद्यथा-“इण्वदिक इति वक्तव्यम् "इत्यत्र वार्तिके रूपातिदेशः, “कर्म्मणा कर्मवत्तुल्यक्रिय”(अष्टाध्यायी-३.१.८७) , "पुंवत्कर्मधारयजातीयदेशीयेषु"
(अष्टाध्यायी-६.३.४२) चेत्यादौ
 कार्य्यातिदेशः, "सिब्बहुलं छन्दसि णिद्वक्तव्यः" इत्यत्र 
 निमित्तातिदेशः, व्यपदेशिवद्भाव इत्यादौ संज्ञातिदेश इत्येवं प्रकारा अतिदेशाःसन्ति।लोके च "गोसदृशो गवय"इत्यादौ रूपातिदेश इति।

"अन्वादेशः"-अन्वापूर्वो दिशधातुः  पश्चात्कथनार्थं ज्ञापयति।
"आदेशः कथनम्,अन्वादेशः अनुकथनम्"(काशिका)।व्याकरणशास्त्रेऽन्वादेशः किञ्चित् पारिभाषिकं वर्तते।तदुच्यते-
"किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानं अन्वादेशः"(सिद्धान्तकौमुदी)।
एवमेव 'उपदेश:,'व्यदेश:' इति प्रभृतयोऽपि विविधार्थं बोधयन्ति। तदर्थं "प्रयोगानुसारिणो धात्वर्थाः" इत्याख्येऽध्याये तत्सर्वं वद्रष्टव्यम्।तत्र विस्तरेण विमृष्टं वर्तते।

"डुदाञ् दाने"इति जुहोत्यादिगणस्थोभयपदी सकर्मकोऽनिट् धातुः।दाधातुर्विविधोपसर्गपूर्वोऽनेकार्थान् प्रकाशयति।

दीयत इति दानम्।दानं नाम देवब्राह्मणादिसम्प्रदानकद्रव्यमोचनम्। तदुच्यते-
“अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम्।
दानमित्यभिनिर्द्दिष्टं व्याख्यानं तस्य वक्ष्यते॥"
तत्र सम्प्रदानस्वत्वापादकद्रव्यत्यागो नाम दानम्।तदुक्तं-
"दानं च अपुनर्ग्रहणाय,
स्वस्वत्वनिवृत्तिपूर्वकम् परस्वत्वोपादानम्"
(प्रौढमनोरमा-भट्टोजिदीक्षितः)


"आदानम्"-आङुपसर्गपूर्वको दाधातुर्ग्रहणार्थे प्रयुज्यते।तद्यथा-
"आदानमप्रियकरं दानञ्च प्रियकारकम्।"
(मनुस्मृतिः-७.२०४)
अन्यच्च- 
"आदानं हि विसर्गाय सतां वारिमुचामिव"
(रघुवंशम्-४.८६)।

"प्रदानम्"-प्रकृष्टं दानं प्रदानम्।तदुक्तं-
“होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते"
(मनुस्मृतिः-३.२४०)
पुनश्च-
"प्रदानं स्वाम्यकारणम्”  इति (मनुः)।
 उच्चारणार्थेऽपि प्रपूर्वको दाधातुप्रयोगो लभ्यते धातोरनेकार्थत्वात्।तद्यथा -
"यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्"
(रामायणम्-५.२०.१८)
तत्र प्रदास्यामि उच्चारयिष्यामि, व्याहरिष्यामि,वक्ष्यामि इति भावः।

"प्रतिदानम्"-
"प्रतिकृत्य दानं प्रतिरूपं दानं वा प्रतिदानम्"इति व्युत्पत्त्या प्रतिपूर्वको दाधातुर्विनिमयं तुल्यरूपदानं न्यस्तार्पणञ्च बोधयति।
न्यस्तार्पणार्थे तदुक्तं-
"पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्" 
(अमरकोशः-२.९.८२)
तथाहि-
"प्रतिः प्रतिनिधिप्रतिदानयोः"
(अष्टाध्यायी-१.४.९२) 
प्रतिनिधिप्रतिदाने च यस्मात् (अमरकोशः-२.३.११) 
चेति सूत्रे काशिकाकारः
"दत्तस्य प्रतिनिर्यातनं प्रतिदानम्"
इत्यर्थं विवृणोति।तत्त्वबोधिनीकारस्यापि तन्मतम्-"देयस्य प्रतिनिर्यातनं प्रतिदानम्।"
प्रतिनिर्यातनं नाम प्रत्यर्पणं विनिमयो वा।तद्यथा- 
यैः पूर्वं गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम् इति।

"निदानम्"-"निश्चयं दीयतेऽनेनेति निदानम्"  अथ च नितरां "दीयतेऽसाधारणतया जन्यतेऽनेन इति निदानम्"
इति निपूर्वको दाधातुरवश्यदानार्थम्
आदिकारणार्थं रोगनिवारणार्थञ्च बोधयति।
अवश्यदानार्थे निपूर्वो दाधातु्रथा-
"निपृणाति निददाति ह्यसौ पिण्डान् पितृभ्य इति पुत्रः (निरुक्तम्-२.११.१ इत्यत्र दुर्गः
आदिकरणार्थे निदानशब्दो यथा-
"निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हृदलक्षणं दधौ।"
(रघुवंशम्-३.१)
तत्र मानं कोशवचनम्-
"हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्।"
(अमरकोशः-१.४.३०)
तथाहि-
 "भूतभव्यभवदात्मनः प्रभो यन्निदानमखिलस्य शाश्वतम्"
(याद०-१७.१०३)
रोगनिवारणार्थेऽपि निदानशब्दो लभ्यते।तद्यथा- 
'वैद्यो रोगनिदानं करोति'
तथाहि-
"निदानं कारणे वत्सदामादिकारणक्षये" (मेदिनीकोशः)
"निदानं कारणे रोगनिर्णये वत्सदामनि" (विश्वकोशः)।

"अनुदानम्"-'अनु'उपसर्गपूर्वको दाधातुः पश्चाद्वर्तिदानार्थम् आर्थिकसहयोगं वा बोधयति।तद्यथा-विश्वविद्यालय-अनुदान-आयोगः (University Grants commission)
विश्वविद्यालयेभ्यः छात्रेभ्यश्च अनुदानम्(Grants) ददाति अर्थात् आर्थिकं सहयोगं करोतीति भावः।

"उपादानम्"-'उप' तथा 'आङ्' इति उपसर्गद्वयपूर्वको दाधातुः साहित्यशास्त्रे लक्षणाभेदं,दर्शनशास्त्रे कारणभेदं लोकव्यवहारे ग्रहणार्थञ्च बोधयति।तत्रादौ साहित्ये स्वार्थसिद्ध्यर्थपराक्षेपात्मिका
अजहत्स्वार्थरूपिका उपादानलक्षणा भवति।तदुच्यते-
"स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा।।"
(काव्यप्रकाशः-कारिका-१०)

दर्शनशास्त्रे "उपादीयते अनेन इति उपादानं कारणम्।" तद्यथा- 
मृत्तिका घटस्योपादानकारणम्‌।
अन्यत्रापि-
“असदकरण दुपादानग्रहणात् सर्वसम्भवामावात्।शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्य्यम्।।"
(साङ्ख्यकारिका-कारिकासङ्ख्या-९)
लोकव्यवहारे चोपदानशब्दो ग्रहणार्थं वेदयति।तद्यथा-निर्धनो राज्ञो धनमुपाददाति।
तथाहि-
“विस्रब्धं ब्राह्मणः शूद्रात् द्रव्योपादानमाचरेत्” 
(मनुस्मृतिः-८.४१७)
पुनश्च-
"मुख्यर्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये।स्यादात्मनोप्युपादानादेषोपादानलक्षणा।।"
(साहित्यदर्पणः-१०परिच्छेदः)
तत्र मानम्
"प्रत्याहार उपादानम्"
(अमरकोशः-३.२.१६) इति।


"सम्प्रदानम्"-
"सम्यक्प्रकारेण दीयते यद्दानं तत् सम्प्रदानम्"  इति व्युत्पत्त्या सम्प्रपूर्वको दाधातुर्देयद्रव्यार्थे वर्तते।तदुच्यते-
"दीयतां सम्प्रदानं च परिष्वज्य च वानरान्"(रामायणम्-४.११.३४) अत्र"सम्प्रदानं देयद्रव्यम्"इति।
व्याकरणशास्त्रे तु "सम्यक् प्रदीयते अस्मै  इति सम्प्रदानम्" इति व्युत्पत्त्या कारकभेदे सम्प्रदानं किञ्चन पारिभाषिकमस्ति।
भगवता पाणिनिना तदुक्तं-
"कर्मणा यमभिप्रैति स सम्प्रदानम्"
(अष्टाध्यायी-८.४.३२)
तद्व्याख्यायां काशिकायां तदित्थं निर्दिश्यते-
"कर्मणा करणभूतेन कर्ता यमभिप्रैति, तत् कारकं संप्रदानसंज्ञं भवति"(काशिका)
पुनश्च 
"दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यादिति"
(सिद्धान्तकौमुदी)
वार्तिककारेण तु ततोऽधिकं
"क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्"इति स्वीक्रियते।
एतत्सर्वं भावमादाय सम्प्रदानलक्षणं तदित्थं निरूप्यते-
“सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया।
दीयमानेन संयोगात् स्वामित्वं लभते यदि॥”
(मुग्धबोधव्याकरणटीकायां दुर्गादासः)
पुनश्च-
“गत्यादिभिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया।
यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम्॥”

"अपादानम्"-
'अपादीयते विश्लिष्यतेऽस्मादिति अपादानम्' इति व्युत्पत्त्या 'अप'+'आङ्' इति उपसर्गद्वयपूर्वको दाधातुः पृथक्करणं विभागं कारकसञ्ज्ञाभेदञ्च बोधयति।"यस्माद्वस्तुनो वस्त्वन्तरस्य चलनं भवति तदपादानम्।" तदुक्तं -
"ध्रुवमपायेऽपादानम्"
(अष्टाध्यायी-१.४.२४)
तत्रापायो विश्लेषः पृथक्करणं  विभागो वियोगश्च।
तदुररीकृतं हरिकारिकायाम्-
"अपाये यदुदासीनं चलं वा यदि वाऽचलम्।
ध्रुवमेव तदावेशात्तदपादानमुच्यते॥"
(वाक्यपदीयम्) इति

“पद गतौ” इति दिवादिगणस्थ आत्मनेपदी सकर्मकोऽनिट् धातुर्वर्तते।
“पद गतौ”इति धातुः चुरादिगणेऽपि लभ्यते।
“सर्वे गत्यर्था ज्ञानार्था:”इति महाभाष्यवचनप्रामाण्यादयं धातुर्ज्ञानार्थेऽपि वर्तते।तन्मतं क्षीरतरङ्गिण्यामपि पुष्णाति।तत्रोक्तं-
“गतिर्यानं ज्ञानं च”इति (क्षीरतरङ्गिणी)।एतेन स्पष्टं भवति यदयं धातुः स्वयमनेकार्थको विद्यते पुनश्च विविधोपसर्गसंयोगेन भूयोऽर्थान् वेदयति।तदत्र प्रस्तूयते-
“प्रपन्न:,प्रपद्यते”-प्रोपसर्गपूर्वः “पद गतौ”इति धातुः शरणागत्यर्थं बोधयति।मार्कण्डेयपुराणे मृत्युञ्जयाख्ये सप्तमेऽध्याये
तदाह-
“गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्। केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥”
(मार्कण्डेयपुराणम्)
अन्यत्रापि-
“प्रपन्नवत्सलो देवः”
(महाभारतम्,अनुशासनिकपर्व)।
पुनश्च-
 “शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्”(श्रीमद्भगवद्गीता-२.७)।
पुनस्तत्रैव-
“ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्”
(श्रीमद्भगवद्गीता-४.११)
तथाहि-
“त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः”
(ध्वन्यालोकः-१.१) इति।

“प्रतिपत्तिः”-प्रतिपूर्वकः पदधातुः प्रवृत्तिं ज्ञानं पदप्राप्तिं समर्पणं निरूपणार्थञ्च व्यञ्जयन्ति।

प्रवृत्त्यर्थे प्रतिपूर्वकः पदधातुर्यथा-
“मनस्विनीनां प्रतिपत्तिरीदृशी”
(कुमारसम्भवम्-५.४२)।

ज्ञानार्थेऽपि प्रतिपूर्वः पदधातुर्विद्यते। रघुवंशमहाकाव्यस्य मङ्गलश्लोके तदुक्तं-
“वागार्थाविव संपृक्तौ वागर्थप्रतिपत्तये”
(रघुवंशम्-१.१)

पदप्राप्त्यर्थे प्रत्युपसर्गपूर्वः पदधातुर्यथा-
“सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया,
भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूबन्धुभिः।“
(अभिज्ञानशाकुन्तलम्-४.१६)

समर्पणार्थे प्रपूर्वकः पदधातुः दृश्यते। तद्धि-
“तत्र यद् रिक्थजातं स्यात्तत् तस्मिन् प्रतिपादयेत्”
(मनुस्मृतिः-९.१९०) इत्यत्र प्रतिपादयेत् अर्थात् समर्पयेदिति भावः।
तथाहि-“यज्ञादिकर्मान्ते ब्राह्मणाय दक्षिणां प्रतिपादयेत्।“

निरूपणार्थेऽपि प्रपूर्वः पदधातुर्लभ्यते। तद्यथा-“साहित्यदर्पणस्य प्रथमे परिच्छेदे कविराजो विश्वनाथः
पूर्वाचर्याणां काव्यलक्षणानां खण्डनं विधाय स्वकीयं काव्यलक्षणं प्रतिपादयति।“
एदतिरिक्तेषु अर्थेषु अपि प्रपूर्वकः पदधातुर्विद्यते।तदुक्तं-
“प्रतिपत्तिः प्रवृत्तौ च प्रागल्भ्ये गौरवेऽपि च।
सम्प्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति॥
(मेदिनीकोशः) इति।

“प्रत्युत्पन्नः”-‘प्रति+उद्’+पदधातुः प्रागल्भ्यार्थं ताल्कालिकबुद्धिमदर्थं बोधयति।तदुक्तं-
“तत्र मे प्रत्युत्पन्ना मतिः”(तन्त्रा०)।अत्र प्रत्युत्पन्ना तत्कालमुत्पन्ना, सद्यः सञ्जाता वेत्यर्थः।
पुनश्च-
“इदं तत् प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते’(अभिज्ञानशाकुन्तलम्)।
तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृतेति तत्र व्याख्यायामुच्यते।

“उत्पत्तिः”-“उत्पद्यते प्रथमतो ज्ञायतेऽनेनेति उत्पत्तिरिति विग्रहे 
उदुपसर्गपूर्वकः पदभातुः जन्मसम्भवाविर्भावार्थं बोधयति। तद्यथा-
“गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः”(व्याकरणपरिभाषा)।
पुनश्च-
“जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः”(अमरकोशः-१.४.३१)
तथाहि-
“कमले कमलोत्पत्तिः श्रूयते न दृश्यते”
इति।

“निष्पत्तिः”-निसुपसर्गपूर्वः पदधातुः सिद्ध्यर्थं समाप्त्यर्थं वा वेदयति।समाप्त्यर्थे तद्यथा- 
“क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्। विवक्षते यदा तत्र करणत्वं तदा स्मृतम्॥”
(वाक्यपदीयम्)
पुनश्च-
 “आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम्॥“
हठयोगप्रदीपिकायाम्-४.६९ )

सम्पत्तिः-समुपसर्गपूर्वकः पदधातुः समृद्धिम् अनुरूपात्मभावं कल्पनञ्च बोधयति।
अनुरूपात्मभावे तद्यथा-
“अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु” (अष्टाध्यायी-२.१.६)।
एतत्सूत्रव्याख्यायां दीक्षितः- 
“सम्पत्तिरनुरूप आत्मभावः समृद्धेरन्यः”(सिद्धान्तकौमुदी)।
अन्यच्च-
“सम्पतिशब्दस्य समृद्धौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह सम्पतिरनुपरूप आत्मभाव इति”(पदमञ्जरी)।
समृद्ध्यर्थेऽपि समुपसर्गपूर्वकः पदधातुः  विद्यते।
“सम्पत्तिः श्रीश्च लक्ष्मीश्च”
(अमरकोशः-२.८.८२)
पुनश्च-
“यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥“
(हितोपदेशः-४)
तथाहि-
सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा’ (मनु॰१०.६९)।अत्र सम्पद्यत अर्थात् समृध्यति समृद्धं भवति वा।
अन्यच्च- 
“सम्पत्तौ च विपत्तौ च महतामेकरूपता।“

सम्पत्तिः-समुपसर्गपूर्वकः पदधातुः समृद्धिम् अनुरूपात्मभावञ्च बोधयति।
अनुरूपात्मभावे तद्यथा-
“अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु” (अष्टाध्यायी-२.१.६)।
एतत्सूत्रव्याख्यायां दीक्षितः- 
“सम्पत्तिरनुरूप आत्मभावः समृद्धेरन्यः”(सिद्धान्तकौमुदी)।
अन्यच्च-
“सम्पतिशब्दस्य समृद्धौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह सम्पतिरनुपरूप आत्मभाव इति”(पदमञ्जरी)।
समृद्ध्यर्थेऽपि समुपसर्गपूर्वकः पदधातुः  विद्यते।
“सम्पत्तिः श्रीश्च लक्ष्मीश्च”
(अमरकोशः-२.८.८२)
पुनश्च-
“यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥“
(हितोपदेशः-४)
तथाहि-
सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा’ (मनु॰१०.६९)।अत्र सम्पद्यत अर्थात् समृध्यति समृद्धं भवति वा।

समुपसर्गपूर्वकः पदधातुः कल्पनायामपि दृश्यते।तदुक्तं-
“साधोः शिक्षा गुणाय सम्पद्यते नासाधोः” इति (पञ्चतन्त्रम्)।

“विपत्तिः,विपत्”-‘वि’ इत्युपसर्गपूर्वकः पद धातुर्दुःखापन्नाशयातनासङ्कटार्थं ज्ञापयति।नाशार्थे समाप्त्यर्थेऽपि चायं धातुर्लभ्यते।तद्यथा- 
“न तद् दानं प्रशंसन्ति वृत्तिर्येन विपद्यते”
(श्रीमद्भागवतपुराणम्-
 ८.१९.३६)।  प्रसङ्गेऽस्मिन्
 विपद्यते नश्यति अवसीदतीति।

सङ्कटार्थे च विपूर्वः पदधातुर्यथा- 
“विपदि धैर्यमथाभ्युदये क्षमा”
(भर्तृहरिनीतिशतकम्-६३) अत्र विपदित्युक्ते सङ्कटकाल इति भावः।
यातनार्थे च पुनः-
“अधार्मिको जनः विपद्यते(यातनां लभते)।“
दुःखापदर्थे च पुनः-
“स तेन दुःखमाप्नोति परत्र च विपद्यते”
(महाभारतम्,वनपर्व-२१०)
विपद्यत अर्थात् आपन्नो भवति, आपद्यत,आपदमाप्नोतीत्याशयः।
तथाहि-
“सम्पत्तौ च विपत्तौ च महतामेकरूपता।“
अत्र मानं कोशवचनमपि-
“सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ”(अमरकोशः-२.८.८२)
पुनश्च
विपत्तिरपि यातनापदोर्योषिति”
(मेदिनीकोशः)।

“आपत्तिः,आपद्,आपन्नः”-
‘आङुपसर्गपूर्वक: पदधातुः दुःखयातनासङ्कटार्थं प्राप्त्यर्थं च वेदयति।तत्रादौ दुःखाद्यर्थे आङुपसर्गपूर्वकः पदधातुर्यथा-
“आपदर्थे धनं रक्षेद्”इति (चाणक्यनीतिः)।
पुनस्तत्रैव-
“जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये॥“
(चाणक्यननीतिः)
अन्यत्रापि-
“आपदामपहर्तारं दातारं सर्वसम्पदाम् “ (रामरक्षास्तोत्रम्)
तथाहि-
“आपत्तिकाले मर्यादा नास्ति इति लोकभणितिरपि अयमेवार्थं प्रकाशयति।

प्राप्त्यर्थेऽपि चाङुपसर्गपूर्वकः पदधातुर्लभ्यते।तद्यथा- 
“द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः”
(अष्टाध्यायी-२.१.२४)
पुनश्च-
“प्राप्तापन्ने च द्वितीयया”
(अष्टाध्यायी-२.२.४) इत्यनयोः पाणिनिसूत्रयोः ‘आपन्नम्’ इत्यनेन प्राप्तम् इत्यर्थोऽवगम्यते।
‘सुखमापन्नः इति सुखापन्नः सुखप्राप्तः’  तथा
‘आपन्ना जीविकामिति आपन्नजीविका’ प्राप्तजीविकेति क्रमशस्तदुदाहरणे विज्ञातव्ये।
तथाहि-
“स्थानापत्तेर्द्रव्येषु धर्मलाभः”
( कात्या०-४.३.१९)।
अन्यत्रापि-
“मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्”
(महाभारतम्,शान्तिपर्व-१७५) इति।

“व्युत्पत्तिः,व्युत्पन्नः”-‘विशिष्टा उत्पत्तिरिति व्युत्पत्तिः’ इति विग्रहे 
‘वि’+’उद्’ इत्युपसर्गद्वयपूर्वकः पदधातोः क्तिन् प्रत्यये सति व्युत्पत्तिशब्दः सिध्यति।यो हि ज्ञानं निर्वचनम् उत्पत्तिं संस्कारं नियमं व्यवहारञ्चानेकान् अर्थान् बोधयति।
ज्ञानार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुर्लभ्यते-
“शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते” (काव्यमीमांसा, पदवाक्यविवेकः) अत्र व्युत्पद्यते अर्थात् जानाति।

वि-उद् इति उपसर्गद्वययोगेन पदधातुः उत्पत्त्यर्थमपि प्रकाशयति।तद्यथा-प्रयोगदृष्ट्या
“रमन्ते योगिनो यस्मिन्” इत्यर्थे रामशब्दो व्युत्पाद्यते।अत्र व्युत्पाद्यते अर्थात् उत्पाद्यते सम्भाव्यत इति भावः।
पुनश्च-
“उणादयोऽव्युत्पन्नानि प्रातिपदिकानि भवन्ति” इति वचने अव्युत्पन्नानि अर्थात् धातुतो नोत्पद्यन्त इति।

“व्युत्पन्नः”- ‘वि-उद् इति उपसर्गद्वययोगेन पदधातुः संस्कारार्थे लभ्यते।तद्यथा-“व्युत्पन्नोऽयं जनः” अत्र व्युत्पन्नः अर्थात् संस्कारसम्पन्नः संस्कारितश्च।

नियमार्थेऽपि ‘वि-उद् इति उपसर्गद्वययोगेन पदधातुः” दृश्यते।
शास्त्रतो लोकतो वा सिद्धा युक्तिरिति व्युत्पत्तिः।अस्य शब्दस्य पर्यायपदान्येव न्यायः,सिद्धान्तो नियमश्चेति शब्दाः। परमलघुमञ्जूषायां समासनिरूपणे तदाह –
“न च चित्रगुरित्यादौ लक्षणा। बहुव्युत्पत्तिभञ्जनापत्तेः”
(परमलघुमञ्जूषा)।अत्र 
 व्युत्पत्तिरित्युक्ते नियमः।
पुनश्च-
“चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः।।“
(वैयाकरणभूषणसारः)।
एतदर्थमेव व्यत्पत्तिवादग्रन्थस्य नामान्वर्थतां भजते।


व्यवहारार्थे व्युत्पत्तिशब्दो यथा-
लोकव्युत्पत्तिः अर्थात् लोकव्यवहारः तथा शास्त्रव्युत्पत्तिः अर्थात् शास्त्रव्यवहारः।

निर्वचनार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुः” दृश्यते।तदाह- व्युत्पत्तिर्व्युतपादनं निर्वचनं वेत्यर्थः।
“गिरति अज्ञानान्धकारम् यः स गुरुः” इति गुरुशब्दस्य  ‘व्युत्पत्तिः’ वर्तते।
“पङ्के पङ्काद्वा जायते यत् तत् पङ्कजम्” इति पङ्कजशब्दस्य व्युत्पत्तिः वर्तते।
पुनश्च-“कारके”(अष्टाध्यायी-१.४.२६)
इति सूत्रव्याख्यायां सिद्धान्तकौमुद्यां तदित्थम् उच्यते-
“ क्रियाजनकं कारकम्। करोति क्रियान्निर्वर्तयतीति भाष्ये व्युत्पत्तिदर्शनात्।“
तथाहि
“सति सम्भवे व्युत्पत्तिरन्यथा कर्तव्या रूढेरनियमात्”इति।

"वद व्यक्तायां वाचि"इति भ्वादिगणस्य परस्मैपदी सकर्मकः सेट् धातुः स्वयमनेकार्थको विद्यते पुनश्च विविधोपसर्गास्तत्र सहकारभूताः तदर्थप्रकाशका भवन्ति।वदधातोः घञा प्रत्ययेन वादः निष्पन्नतामेति।योहि यथार्थबोधं तथेच्छोर्वाक्यं  सिद्धान्तं वा बोधयति।तद्धि-
"वादो नाम यः परस्परेण सह शास्त्रपूर्वकं विगृह्य कथयति"
गौतमन्यायसूत्रे तु-
"प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चवाक्योपपन्नः 
पक्षप्रतिपक्षपरिग्रहो वादः"
(गौतमीयं न्यायसूत्रम्-१.२.१)
अन्यत्र च-
"विजिगीषोः कथा जल्पो वादस्तत्वविवेदिष:।"
            (जटाधरः)
सिद्धान्तार्थे-
"वादी निजशास्त्रवादं प्रस्तौति"

        अयमेव वादो विविधोपसर्गयोगेन विविधार्थं बोधयन्ति।तद्यथा-
"प्रवादः"-"प्र"उपसर्गसंयोगेन वदधातोः प्रवादो निष्पन्नो भूत्वा
प्रकृष्टो वादः प्रसिद्धो वादो वार्थं बोधयति।प्रवादो नाम परस्परवाक्यं प्रसिद्धं लोकवादो वा।तद्यथा-
“इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ
(भट्टिकाव्यम्-२.३६)
अन्यद्धि-
"अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः"
(मालतीमाधवम्-१.१६)

प्रसिद्धे लोकवादे प्रवादो यथा-
"व्याघ्रो मानुषं खादतीति लोकप्रवादो दुर्निवारः।"
पुनश्च- "इदन्तु प्रवादमात्रम्" इति।

"विवादः"-"वि"इत्युपसर्गपूर्वको वदधातुर्विरुद्धव्यवहारं कलहं वार्थं बोधयति।विरुद्धो वादो विवादः। तदुच्यते-
"ऋणादिदायकलहे द्वयोर्ब्बहुतरस्य वा ।विवादो व्यवहारश्च द्बयमेतन्निगद्यते॥”
              (शब्दरत्नावली)
अन्यद्धि- 
 "विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः"
          (पञ्चतन्त्रम्-१.४३६)
पुनश्च-
"अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः"
         (कुमारसम्भवम्-५.८२)
तथाहि- "मूर्खः सदा विवादं करोति"इति।तत्र प्रमाणं कोशवचनमपि-
"विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्"
          (अमरकोशः-१.६.९)

"संवादः"-समुपसर्गसंयोगेन वदधातुः
सन्देशवाक्यं समाचारो मिथःसम्भाषणञ्चार्थं वेदयति।
सन्देशवाक्यार्थे-
राजा मन्त्रिणा समं संवादः करोति
समाचारार्थे-
गुप्तचरः प्रजासंवादं राजानं सूचयति।
मिथःसम्भाषणार्थे संवादो यथा-
“अध्येष्यते च य इमं धर्म्मं संवादमावयोः।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥"
          (श्रीमद्भगवद्गीता-१८-७०)

"अनुवादः"- अनूपसर्गसम्बन्धेन वदधातुः पुनः पुनः कथनं पुनरुक्तिरावृत्तिर्मुहुर्भाषणं वार्थं  भाषान्तरकथनञ्च बोधयति।
पुनःपुनः कथनाद्यर्थे-
उक्तस्य पुनः कथनम् अनुवादः।अथ च 
विधिप्राप्तस्य वाक्यान्तरेण कथनं नामानुवादः।यथा-"अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य अग्निहोत्रहोमस्य दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्वमात्रं तत्र विधेयम्।

अनुवादो नाम भाषान्तरकथनम्-
"प्रमाणान्तरावगतस्य अर्थस्य शब्देन संकीर्तनमात्रमनुवादः"
(अनुवादे चरणानाम्-२.४.३ -काशिका)
अवगतार्थस्य प्रतिपादनं नामानुवादः।

छात्रः संस्कृतवाक्यानां हिन्दीभाषायाम् अनुवादं करोति।

"प्रतिवादः"-'प्रति' इत्युपसर्गपूर्वको वदधातुः प्रतिपक्षं विपक्षं वा ज्ञापयति।
प्रतिकूलो विपरीतो वादः प्रतिवादः।प्रतिवादो नाम प्रतिपक्षः विपक्षो वा।
तदुक्तम्-
"नरेन्द्रसूनुः प्रतिसंहरन्निषु प्रियंवदः प्रत्यवदत्सुरेश्वरम्"
         (रघुवंशम्-३.६४)
तथाहि-
शास्त्रार्थे उत्तरपक्षः प्रतिवादं करोति।

"परिवादः"-"परि"इति उपसर्गसंयोगेन वदधातुः परि सर्व्वतो दोषोल्लेखेन वादः कथनं परिवादो निन्दार्थं बोधयति।
 “नीचसंसर्गनिरताः परवित्तापहारकाः। परनिन्दापरद्रोह-परिवादपराः खलाः।।"
(महानिर्व्वाणतन्त्रे-१.४२)

"अपवादः"-अपपूर्वको वदधातुः निन्दा (जुगुप्सा,गर्हा),
वेदान्तविधिः,शब्दशास्त्रीयं बाधकशास्त्रञ्चादीन् अनेकान् अर्थान् वेदयति।अपोद्यते बाध्यतेऽनेनेति व्युत्पत्त्या करणार्थे घञा प्रत्ययेन च निष्पन्नोऽपवादो बाधकशास्त्रार्थं बोधयति।तदुच्यते-
"येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः" इति (व्याकरणपरिभाषा)।अयमाशयो यत्-द्वौ नञावावश्यकत्वं बोधयन्तः।यत्कर्तृकावश्यप्राप्तौ सत्यां यो विधिरारभ्यते,स आरभ्यमाणो विधिः तस्य अवश्यप्राप्तस्य विधेरपवादः बाधको भवतीत्यर्थः।एतद्विस्तरेणास्य शोधप्रबन्धस्य द्वितीयाध्याये अपवादशब्दविमर्शो द्रष्टव्यः।

“असु क्षेपणे” इति दिवादिस्थः परस्मैभाषः सकर्मकः सेट् धातुरस्ति।असुधातोः अनेकार्थेषु प्रयोगा लभ्यन्ते।तस्मात् प्रयोगानुसारेण असुधातोरनेकार्थत्वं स्वीक्रियते।पुनश्च विविधाश्चोपसर्गास्तत्र द्योतकीभूता भवन्ति।ते च प्रयोगाः सारतो निरूप्यन्ते।

“अभ्यासः,अभ्यस्तः,अभ्यस्यति”-
“आभिमुख्येनास्यते क्षिप्यत इति अभ्यासः” इति व्युत्पत्त्या अभीत्युपसर्गपूर्वकोऽसुधातुरावृत्त्यर्थं वेदयति।तदुच्यते 
“चित्तस्यैकस्मिन्नभ्यन्तरे बाह्ये वा प्रतिमादावालम्बने सर्व्वतः समाहृत्य पुनः पुनः स्थापनमभ्यासः।“
शिक्षाग्रन्थेऽपि तदुक्तम्-
“अभ्यासार्थे द्रुता वृत्तिः”(माण्डुकीशिक्षा-१.३)

पातञ्जलयोगसूत्रेऽपि चित्तवृत्तिनिरोधप्रसङ्गे निगद्यते-
“अभ्यासवैराग्याभ्यां तन्निरोधः”
(पातञ्जलयोगसूत्रम्-१/१२)
काव्यप्रकाशे काव्यहेतुनिरूपणावसरेऽपि कीर्त्यते-
“काव्यज्ञशिक्षयाभ्यासः”
(काव्यप्रकाशः-१.३)
तथाहि-
“व्रीडादिवाभ्यासगतैर्विलिल्ये”
(शिशुपालवधम्-३.४०)
मीमांसादर्शने च पुनर्लिङ्गतात्पर्यनिर्णयावसरे
“उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये।।“
पुनश्च-गुरुर्वेदाभ्यासं कारयति, छात्रो योगाभ्यासं करोति,अभ्यासेन दक्षता लभ्यते।
तद्वद् अभ्यस्तः, अभ्यस्यति चेति पदद्वयमपि आवृत्त्यर्थं पौनःपुन्यार्थं बोधयति।रामः शास्त्रेषु शस्त्रेषु चाभ्यस्त आसीत्।एकलव्यः द्रोणप्रतिमासम्मुखं  धनुर्विद्यामभ्यस्यति स्म।

व्याकरणशास्त्रे तु अभ्यासाभ्यस्तशब्दः पारिभाषिको वर्तते।तदुच्यते-
“पूर्वोऽभ्यासः”(अष्टाध्यायी-६.१.१४)।
एतत्सूत्रव्याख्यायां दीक्षितः-
“अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्” इति 
(सिद्धान्तकौमुदी)।
अर्थात् षाष्ठद्वितीयप्रकरणान्तर्गतं यद्द्वित्वं विधीयते।तस्मिन् द्वित्वे पूर्वस्य अभ्याससञ्ज्ञा भवति।
पुनश्च-
“उभे अभ्यस्तम्” (अष्टाध्यायी-६.१.५) इति।अत्र व्याख्यायामुक्तम्-
“षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः” इति (सिद्धान्तकौमुदी)।

“अत्यस्तः अत्यासः”-
अतिपूर्वकोऽसुधातुरतिक्रमणार्थं ज्ञापयति।तदुक्तं-
“द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः”
तद्व्याख्यायामुच्यते-
(अष्टाध्यायी-२.१.२४)
एतत्सूत्रवृत्तौ-
 तरङ्गानत्यस्त इति तरङ्गात्यस्तः तरङ्गमतिक्रान्त इत्यर्थः। तुहिनम् अत्यस्त इति 
तुहिनात्यस्तः’ हिममतिक्रमित इत्यर्थः।
तद्धि व्याख्यातम्-
“अत्यस्तो व्यतिक्रमः” इति (तत्त्वबोधिनी)

पुनश्च-
“अस्यतितृषोः क्रियाऽन्तरे कालेषु”
अष्टाध्यायी-३.४.५७) इति सूत्रवृत्तौ काशिकायां-
 ‘द्व्यहात्यासं गाः पाययति’   अत्यसनेनातिक्रमणेन गवां पानक्रियां विच्छिनत्ति।अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः।

“व्यत्यासः/व्यतस्तम्”-‘वि’ इति उपसर्गसंयोगेन असुधातुर्विपर्ययार्थम् अर्थात् 
वैपरीत्येन स्थापनार्थं विरोधर्थञ्च प्रकाशयति।विपर्ययार्थे व्यत्यासशब्दो यथा-
“व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः॥
(मनुस्मृतिः-२.७२)
तथाहि-
“मात्रासि वञ्चिता भद्रे! चरुव्यत्यासहेतुना।
भविष्यति हि पुत्रस्ते क्रूरकर्म्मातिदारुणः॥“
(हरिवंशपुराणम्-२७.२९)
अत्र मानं कोशवचनमपि-
“स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये”
(अमरकोशः-३.२.३३)
विरोधार्थे पुनः-
‘व्यत्यस्तं लपति’ अर्थात् विरुद्धं वदतीति भावः।

“समासः,समस्तम्,समस्यति”-
समपूर्वकोऽसुधातुःसंक्षेपसमाहारार्थं व्याकरणशास्त्रीयवृत्तिसञ्ज्ञाविशिष्टं शब्दशास्त्रीयविधिविधिविशिष्टं साकल्यार्थञ्च प्रकाशयति।
तदत्र मानं कोशवचनम्-
“ समासस्तु समाहारः संक्षेपः संग्रहोऽपि च।“
         (हेमचन्द्रः)
समस्यन्ते संक्षेपीक्रियन्ते एकीक्रियन्ते पदार्था येन सः समासः।तदुच्यते-
 “समसनं पदयोः पदानां वा एकपदीकरणं समास” इति व्युत्पत्या अनेकेषां पदानाम् एकपदीभवनं समासः।(तत्त्वबोधिनी)।
इत्थं स्पष्टं भवति यत् समासशब्दः संक्षेपार्थे वर्तते।तदाह मनुः-
“सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम्”(मनुस्मृति:-७.२०२)।
तथाहि-
“सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥“
 (श्रीमद्भगवद्गीता-१८.५०)
पुनश्च-
“विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्॥“
(महाभारतम्-१.१.५१)
तट्टीकायां पुनराह
 “समासः संक्षेपः व्यासो विस्तारः” इति।

अन्यद्धि- 
“सम्पूर्वकस्य अस्यतेरेकीकरणात्मकं संश्लेषोऽर्थः।समस्यते अनेकं पदमिति समासः”(बालमनोरमा)।
समसनं समासः।समपूर्वकादसुधातोः “अकर्तरि च कारके सञ्ज्ञायाम्”
(अष्टाध्यायी-३.३.१९) इति सूत्रेण कर्मणि घञा सिध्यति समासशब्दः। अनेकस्य पदस्य एकपदीभवनमित्यर्थः।
“प्राक्कडारात्समासः”
(अष्टाध्यायी-२.१.३) इत्यतः 
“कडाराः कर्मधारये”
(अष्टाध्यायी-२.२ .३८) इति पर्यन्तं पठितेषु सूत्रेषु समाससञ्ज्ञाधिक्रियते।इयं समाससञ्ज्ञैव वैयाकरणानां निकाये वृत्तिभेदत्वेन अन्वर्थसञ्ज्ञाविशिष्टत्वेन परिगण्यते। तदुक्तं-“कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः”(सिद्धान्तकौमुदी)।अत एव समासशब्दस्य भूयान् प्रयोगः अष्टाध्यायीप्रभृतिषु ग्रन्थेषु लभ्यते। तद्यथा-
“कृत्तद्धितसमासाश्च”(अष्टाध्यायी- १.२.४६)
ततद्व्याख्याने भगवान् पतञ्जलिराह-
“अर्थवत्समुदायानां समासग्रहणं नियमार्थम्” इति महाभाष्यम्।
पुनश्च 
“सर्व्वोऽप्यवयवोऽह्ना समस्यते।”  “अव्ययं समर्थेन सह समस्यते।“
“अभिधानञ्च प्रायेण तिङ्कृत्तद्धितसमासैः”
(सिद्धान्तकौमुदी)
“गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः”(व्याकरणपरिभाषा-१३८)।
समासो विधिविशेषश्च।तदुच्यते-
“समर्थः पदविधिः”(अष्टाध्यायी-२.१.१)
इति सूत्रव्याख्यायां काशिकायां-
“यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स सर्वः समर्थो वेदितव्यः।विधीयत इति विधिः।पदानां विधिः पदविधिः। स पुनः समासादिः।“(काशिका)
पुनश्च-
“समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्”(वार्तिकम्)।

साकल्यार्थे समपूर्वकादसुधातोः प्रयोगो यथा-
“विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्। समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥“
(अमरकोशः-३.१.६४)
तथाहि-
“सपदि कुमुदिनीभिर्मीलितं हा क्षपापि।
क्षयमगमदपेतास्तारकास्ताः समस्ताः।।“
(शिशुपालवधम्-११-२४)
व्याकरणे तु समस्तशब्देन कृतसमासार्थो गृह्यते।तद्यथा-“रूपस्य योग्यम्” इत्यत्र ‘अनुरूपम्’ इति समस्तं पदम् इति।

“व्यासः,व्यस्तम्”-विपूर्वकोऽसुधातुर्विस्तारं विभाजनकर्तारं पुराणमहाभारतादिवक्तारं कृष्णदैपायनञ्चार्थं प्रकाशयति।

विस्तारार्थे व्यासशब्दो यथा-
“विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्॥” 
(महाभारतम्-१.१.५१)
तट्टीकायामुच्यते-
“समासः संक्षेपः व्यासो विस्तारः।”
तदत्र मानम्-
“विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः।“
(अमरकोशः-३.२.२२)
शब्दशास्त्रे तु 
समासादिसमानार्थकं विग्रहवाक्यं व्यासः।

व्यास्यति वेदानिति व्युत्पत्त्या विपूर्वको ऽसुधातुः
विभाजनकर्तरि व्यासशब्दो दृश्यते।तद्यथा-
“विव्यास वेदान् यस्मात्स तस्माद् व्यास इति स्मृतः”(सिद्धान्तकौमुदी)
तथाहि 
“यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।
लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च॥
(महाभारतम्-१.१०५.१४)
अन्यद्धि- 
“व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः”
(अमरकोशः-२.७.४०)

अतएव वृत्तस्य(गोलस्य) विभाजिका मध्यरेखा व्यास उच्यते।
अद्यत्वे पुराणमहाभारतादिग्रन्थानां पाठकब्राह्मणार्थेऽपि प्रयुज्यते। तद्यथा- 
“ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप।
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते॥“
लोके “कथाव्यासो भागवतकथां श्रावयति” इत्यनेनापि तदर्थः प्रतीयते।

“न्यासः,न्यस्तम्,न्यस्यति”
निपूर्वकश्च “असु क्षेपणे” इति धातुः स्थाप्यद्रव्यं(उपनिधिं निक्षेपं वा) स्थापनम्(आवाहनम्) अर्पणम्(त्यागं,दानं वा)
शब्दशास्त्रीयव्याख्याग्रन्थविशिष्टञ्च ज्ञापयति।तत्रादौ स्थाप्यद्रव्यार्थे न्यासशब्दो यथा-
“स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्”(मनु० ८.१८३) अत्र न्यस्तं निक्षिप्तमुपनिहितं वा।
अन्यद्धि- 
“अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥“
(अभिज्ञानशाकुन्तलम्-४.२२)
तथाहि-
“राज्यं न्यासमिवाभुनक्”
(रघुवंशम्-१२.१८)।
तदत्र कोशवचनमपि प्रमाणस्वरूपं प्रस्तूयते-
“पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्”
(अमरकोशः-२.९.८२)
अन्यत्रापि-
“निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम्”
(अभिधानचिन्तामणिः)।

स्थापनार्थेऽपि न्यासशब्दो लभ्यते। तदाह मनुः-
“दृष्टिपूतं न्यसेत्पादम्” 
(मनुस्मृति:-६.४६) अत्र न्यसेद् इत्युक्ते निदधीत स्थापयेदित्यर्थः।
अन्यच्च-
“तस्याः “खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया”
(रघुवंशम्-१.२)
अन्यद्धि-
 “नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम्”
(कुमारसम्भवम्-६.५०)
तथाहि- मातृकान्यासाक्षरन्यासषडङ्गन्यासप्रभृतिकं यद्देवादिपूजायां विधीयते।तदर्थं तत्तत्स्थापनम् आवाहनं वेति।

अर्पणार्थे पुनर्न्यासशब्दो यथा-
“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः।
सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥”
(श्रीमद्भगवद्गीता-१८/२)
पुनश्च-
“संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति”
(महाभारत-वनपर्व-२९४.२५) अत्र देहन्यासो नाम देहत्यागो निधनं वा।
शब्दशास्त्रीयकाशिकाव्याख्याग्रन्थविशिष्टेऽर्थेऽपि न्यासशब्दः समुपलभ्यते।तद्यथा-वैयाकरणेषु न्यासकारः जिनेन्द्रबुद्धिः वर्तते।यस्य काशिकोपरि व्याख्याग्रन्थः काशिकाविवरणपञ्जिका विद्यते।यस्यापरं नाम ‘न्यासः’ वर्तते।तस्मादेव बौद्धविद्वान् जिनेन्द्रबुद्धिः न्यासकाररूपेणाभिधीयते।
अन्यद्धि- 
‘सम्पूर्वस्य ख्यातेः प्रयोगो न’ इति न्यासकारः’(सिद्धान्तकौमुदी)
पुनश्च –‘स्खदिरपावपरिभ्यः इति न्यासकारः’(सिद्धान्तकौमुदी)
तथाहि-
“अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा॥”
(माघकाव्यम्-२.११२) इति।

“उपन्यासः,उपन्यस्तम्”-‘उप समीपे न्यास’ इति व्युत्पत्त्या 
‘उप+नि’ इति उपसर्गद्वयपूर्वकोऽसुधातुः
उपस्थानं वाङ्मयं विचारं कथनं  दृष्टान्तं कार्यग्रन्थनार्थञ्च बोधयति 
उपस्थानार्थेऽभिज्ञानशाकुन्तले तद्यथा- 
“पावकः खलु एष वचनोपन्यासः”
(अभिज्ञानशाकुन्तलम्-षष्ठाङ्के शकुन्तला)
विचारार्थे चोपन्यासशब्दो यथा-
“विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत”-
 (मनुः-९.३१) तट्टीकायां पुनराह –
“वक्ष्यमाणं सर्व्वजनहितं विचारं शृणुत”-(कुल्लुकभट्टः)।
वाङ्मयार्थे उपन्यासशब्दो यथा-
“विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्”
(अमरकोशः-१.६.९)
कथनार्थे चोपन्यासः-
निर्यात: “शनकैरलीकवचनोपन्यासमालीजनः” (अमरुकशतम्-२७)।
दृष्टान्तार्थेऽपि उपन्यासशब्दो वर्तते।
पुनश्च-
“चतुरो मधुरश्चायमुपन्यासः”
(मृच्छकटिकं प्रथमाङ्के वसन्तसेना) तद्धि-
‘विषम उपन्यासः’ (व्या०महाभाष्यम्)।
अन्यद्धि-
“स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः”(किरातार्जुनीयम्-२।३) ‘उपन्यस्यति’अर्थात् उदाहरति।
कार्यग्रन्थनार्थे चोपन्यासशब्दो लभ्यते। तद्यथा-
“उपन्यासस्तु कार्याणां ग्रथनम् “
(वेणीसंहारम्)
“उपन्यासो ऽथ विन्यासो विबोधः साध्वसं तथा”(साहित्यदर्पणः-६.३०९)। 
“उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम्”(साहित्यदर्पणः-६.३१०)।
“उपपत्तिकृतो योऽर्थ उपन्यासः स कीर्तितः”(साहित्यदर्पणः)
“अनुरागहेतुवाक्यरचनोपन्यासः”
साहित्ये तु उपन्यासः काव्यरचनाविधाविशेषो वर्तते।
अपपूर्वकः परापूर्वको निरुपसर्गपूर्वश्चासुधातुः क्षिप्तापसारितदूरीकरणार्थं बोधयति।यो हि केवलस्य असुधातोः प्रयोगेणापि लभ्यते।तस्मादुपसर्गाणां द्योतकत्वं स्पष्टमेव।काव्यलक्षणनिरूपणावसरे साहित्यदर्पणे प्रयोगो लभ्यते।तद्यथा-
“इत्यादीनामपि काव्यलक्षणत्वमपास्तम्”
(साहित्यदर्पणः,प्रथमः परिच्छेदः) अत्र अपास्तमित्यस्य निराकृतमित्यर्थः
पुनस्तत्रैव-
“एतेन अनलङ्कृती पुनः क्वापीति यदुक्तं तदपि परास्तम्” 
(साहित्यदर्पणः,प्रथमः परिच्छेदः) अत्र परास्तम् अर्थात् निराकृतम् इति।
अन्यत्रापि-
“निरस्तगाम्भीर्य्यमपास्तपुष्पकमिति”
(शिशुपालवधम्-१.५५)
पुनश्च-
“परास्तवसुधा सुधाधिवसति”
(किरातार्जुनीयम्-५.२७)
तथाहि-
“समुच्छ्वलितविभ्रमा गतिरपास्तसंस्था मतिरिति” 
(मालविकाग्निमित्रम्) इति।

"रमु क्रीडायाम्" इति भ्वादिगणीय आत्मनेपदी अकर्मकोऽनिट् धातुः विविधोपसर्गयोगेन अनेकार्थं बोधयति।तद्यथा-
विराम:-"वि" इत्युपसर्गपूर्वो रमुधातुर्विरतिं निवृत्तिम् अवसानं वर्णानामभावं विष्णुपर्यायार्थं वाक्यान्तसूचकचिह्नविशिष्टञ्च बोधयति।
निवृत्यर्थे विपूर्वो रमुधातुर्यथा-
पापाद्विरामोऽर्थात् पापान्निवृत्तिः।
कार्यविरामोऽर्थात् कर्मणो निवृत्तिः।
विरत्यर्थे वर्णोच्चारणाभावे च पुनर्यथा-
"विरामोऽवसानम्"(अष्टाध्यायी-१.४.११०) इति पाणिनिसूत्रव्याख्यायां काशिकायां-
"विरतिर्विरामः।विरम्यतेऽनेनेति वा विरामः" इति (काशिका)।
पुनश्च-
"विरामो वणोच्चारणाभावः"इति (न्यासः पदमञ्जरी च)
तथाहि-
"विरमणं विरामः।विरमणं क्रियाया अभाव"इति (तत्त्वबोधिनी)।

"रामो विरामो विरतः" इति विष्णुसहस्रनामस्तोत्रे विरामशब्दो विष्णुपर्यायार्थे लभ्यते।तन्निरुक्तिरेवमुच्यते-
"वरप्रदैर्ब्रह्ममुख्यैरवध्यत्वादिभिर्वरैः। यस्मिन् विरम्यत इति स विरामः परिकीर्तितः॥"
हिन्दीभाषादिषु विरामपदेन वाक्यान्तसूचकचिह्नार्थेऽपि प्रयुज्यते।तद्यथा-वाक्यप्रयोगे अर्धविराम-पूर्णविरामचिह्नं योजयेदिति।

"आरामः"-"आरम्यतेऽत्र" इति विग्रहे 
 आङुपसर्गपूर्वो रमुधातुराधारे घञा प्रत्ययेन उपवनार्थं बोधयति।तद्यथा-
"क्षेत्रकूपतडागानामारामस्य गृहस्य च”
      (मनुस्मृतिः-८.२६२)
पुनश्च-
“गृहं तडागमारामं क्षेत्रं वा भीषया हरन्”
   (मनुस्मृतिः-८.२६४)
तदत्र मानम्-
"आरामः स्यादुपवनं कृत्रिमं वनमेव यत्।अमात्यगणिकागेहोपवने वृक्षवाटिका॥ 
( अमरकोशः-२.४.२ )

"अभिरामः"-"अभिरमते मनोऽत्र" इति विग्रहे अभिपूर्वो रमधातुराधारे घञा प्रत्ययेन रुचिरं रमणीयं मनोहरञ्च वेदयति।तद्यथा-
"मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः"
       (रघुवंशम् -१.३९)
पुनश्च-
"ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः,
पश्चार्धेन प्रविष्टः शरपतनभयात् भूयसा पूर्वकायम्।"
(अभिज्ञानशाकुन्तलम्-१.७)

मानञ्चात्र पुनः-
"आरामः कल्पवृक्षाणां विरामः सकलापदाम्‌।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः॥"
(श्रीरामरक्षास्तोत्रम्-१.१६)

पाणिनिधातुपाठे केचन धातवः सोपसर्गाः समुपदिष्टास्तद्यथा- 
१."आङः शसि इच्छायाम्" इति पाणिनिधातुपाठे भ्वादिगणे परस्मैपदी सकर्मकः सेट् धातुः पठ्यते।यस्यायं भावः यदाङुपसर्गपूर्वः शशिधातुरिच्छार्थको विद्यते।अत्र मानम्-
 "आङः शसीति प्रयोगादयमाङ्पूर्व एव प्रयोक्तव्यः तथा च काश्यपः-अयमाङः पर एव प्रयोक्तव्य इति।सम्मतायां न च केवलो नाप्युपसर्गान्तरपूर्व" इति (माधवीयधातुवृत्तिः)।
अनेन सिद्ध्यति यदयं न केवलो धातुर्नान्योपसर्गपूर्वश्च।यतोहि अयं धातुः पाणिनिधातुपाठ एवाङुपसर्गपूर्व उपदिश्यते।कविकल्पद्रुमे तु "शसि आशिषि" इति धातुः पठ्यते।तत्र आशीरिष्टार्थशंसनमिति निर्दिश्यते। केषाञ्चिन्मते इच्छार्थे वर्तत इति दुर्गादासेन प्रतिपाद्यते।
अत्र पुनर्मानम्-
"आशंसायां भूतवच्च"(३.३.१३२) इति पाणिनिसूत्रमेव।अस्मिन् सूत्रे आङुपसर्गपूर्वः शशिधातोरिच्छार्थ एव दृश्यते।आशंसा नाम अप्राप्तस्य प्राप्तुमिच्छा।एतत्सूत्रव्याख्यायायां काशिकायां तदुच्यते-
"आशंसनमाशंसा,अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा" इति (काशिका)।
तदित्थं सिध्यति यत् शसिधातुराङ्पूर्व इच्छार्थं बोधयतीति नात्र संशयः।

२."आङः शासु इच्छायाम्" इति पाणिनिधातुपाठेऽदादिगणे 
आत्मनेपदी सकर्मकः सेट् इति धातुः
पठ्यते।अयमाशयो यद्-आङुपसर्गपूर्वः शासुधातुरिच्छार्थको वर्तते। कविकल्पद्रुमे च पुननारङ्पूर्वः शासु
आशिष्यर्थे वर्तते।आङ्पूर्व इति केवलानामन्यपूर्वाणाञ्च प्रयोगनिरासार्थं वर्तते।परम्-
"इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे" इति उत्तररामचरितस्य मङ्गलपद्ये आचार्यभवभूतिप्रयोगेनेदं सिद्ध्यति यदयं धातुराङ्पूर्व इति प्रायिकम्।अथवा आचार्यपाणिनिमतेऽयं धातराङ्पूर्वस्तथा केषाञ्चन मते तदतिरिक्तपूर्वोऽपि।
तत्राशीरिष्टार्थाशंसनम् इति तदर्थो निर्दिश्यते।दुर्गादासाचार्यमतानुसारेण
अन्येषामाचार्याणां मतेऽयंधातुरिच्छायामपि दृश्यते।
तदेवं सिध्यति हि-आङ्पूर्वः शासुधातुरिच्छार्थबोधको विद्यते।

३."आङः क्रन्द सातत्ये" इति पाणिनिधातुपाठे चुरादिगणे उभयपदी अकर्मकः सेट् धातुरित्युपदिश्यते।सातत्यं निरन्तरं नित्यञ्चेत्यर्थः।
कविकल्पद्रुमे पुनः 
"आङः क्रन्द शब्दसातत्ये" इति पठ्यते।तत्र
"शब्दसातत्यं निरन्तरशब्दक्रिया" इति दुर्गादासेन प्रतिपाद्यते।
तदेवं सिध्यति यत् आङुपसर्गपूर्वाद् क्रन्दधातुर्निरन्तरक्रियार्थे प्रयुज्यते।

४."आङः षद पद्यर्थे" इति पाणिनिधातुपाठे चुरादिगणे उभयपदी सकर्मकः सेट् धातुः समुपदिश्यते।अत्र पद्यर्थो नाम पदेरर्थः।अर्थात् पदधातोः योऽर्थः स एवार्थोऽस्य धातोरिति भावः।
तस्मादयं धातुः गत्यर्थको विद्यते।यतोहि भगवता पाणिनिना स्वयमेव धातुपाठे 
"पद गतौ" इति दिवादिगण आत्मनेपदी सकर्मकोऽनिट् धातुरुपदिष्टः।
"सर्वे गत्यर्था ज्ञानार्थकाः प्राप्त्यर्थकाश्च" इति महाभाष्यवचनात् समेऽपि गत्यर्थका धातवः न केवलं गत्यर्थका एव भवन्ति,अपितु ते धातवो ज्ञानार्थकाः प्राप्त्यर्थकाश्चापि भवन्ति।
अत्र प्रमाणम्-
"पद गतौ गतिर्यानं ज्ञानं च" इति (क्षीरतरङ्गिणी)।
पुनश्च-
"आङः षद पद्यर्थे।पद्यतेरर्थो गतिः" इति क्षीरस्वामी।
तदित्थं सिध्यति यद् आङुपसर्गपूर्वात् षदधातुः गतिं ज्ञानं प्राप्तिञ्च बोधयतीति मन्मतिः।

५."इङ् अध्ययने" अदादिगण आत्मनेपदी सकर्मकोऽनिट् धातुः।अध्ययनमर्थतः शब्दतश्च गुरुतो ग्रहणम्।अयं धातुः 
 नित्यमधिपूर्वः प्रयुज्यते।अत्रापि 
प्रमाणं पाणिनिसूत्रम्-
"णेरध्ययने वृत्तम्" 
(अष्टाध्यायी-७.२.२६) 
तथा 
"अध्ययनतोऽविप्रकृष्टाख्यानाम्" 
(अष्टाध्यायी-२.४.५) इत्यनयोः सूत्रयोः "इङ्" धातुरधिपूर्व एव दृश्यते।
अन्यद्धि- 
इङिकावध्युपसर्गतो न व्यभिचरतः
"इणो गा लुङि" (अष्टाध्यायी-२.४.४५) इति सूत्रव्याख्यायां बालमनोरमायामिदमुच्यते-
"नित्यमधिपूर्व इति।धातुपाठे वचनमिदम्।अधीते इत्यत्र धातुरुपसर्गं न व्यभिचरतीति भूवादिसूत्रे भाष्ये"।
तथाहि-
"इङिकावध्युपसर्गतो न व्यभिचरतः"
इति वचनम्।

६."इक् स्मरणे" इति अदादिगणे परस्मैपदी सकर्मकोऽनिट् धातुः पठ्यते।अयं धातुर्नित्यमेवाधिपूर्वः।
अधिग्रहणम् अन्यपूर्वस्य केवलस्य च "इक्"धातोः प्रयोगनिरासार्थमुच्यते।अत्र प्रमाणं पाणिनिसूत्रमेव-
"अधीगर्थदयेशां कर्मणि"
(अष्टाध्यायी-२.३.५२) इति पाणिनिसूत्रमेव मानम्।
एतत्सूत्रव्याख्यायां काशिकायां वृत्तौ प्रतिपाद्यते-
"अधीगर्थाः स्मरणार्थाः" इति (काशिका)।
अन्यत्र चोक्तम्- 
"अधीक इति।'इक् स्मरणे' (धातुपाठः-१०४७) इत्यस्याधिपूर्वस्य ग्रहणम्। अधीगित्यनेन समानार्था अधीगर्थाः। ककारानुबन्धकरणमस्य धातोरत्रैव सूत्रे विशेषणार्थम्। अध्ययनार्थानामित्युच्यमाने सन्देहः स्यात्-कोऽयं धातुरिति। अधिपूर्वस्योच्चारणेनाधिपूर्वस्यैवास्य प्रयोग इति दर्शयति" इति (न्यासः)।
तथाहि-
"अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्" इति (पदमञ्जरी)।
अन्यद्धि- 
"इक्स्मरणे॑नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः।स्मरणार्थक इति यावत् "इति (बालमनोरमा)।
पुनश्च -
"अधिशब्दोच्चारणम्इङिकावध्युपसर्गं न व्यभिचरतः॑इति ज्ञापनार्थम्" इति (तत्त्वबोधिनी)।

७."अनो रुध कामे" इति दिवादिगणे आत्मनेपदी सकर्मकोऽनिट् धातुः पठ्यते।अत्र कामो नाम इच्छा।
यथा -अनुरुध्यते धनं लोकः ,लोकः(संसारः) धनम् इच्छतीत्यर्थः।अत्र मानम्- 
"रुधेरनूपसृष्टस्य कामे वृत्तस्य दिवादित्वमात्मनेपदित्वं च "
इति (माधवीयधातुवृत्तिः)।
पुनश्च -
"अनुपूर्वो रुधिर् इच्छार्थे दिवादिः अनुरुध्यते" इति (क्षीरतरङ्गिणी)।
 तथाहि-
"अनौ उपसर्गे रुधेः कामवृत्तेर्दिवादित्वमात्मनेपदित्वञ्च अनुरुध्यते अनुरुरुधे अनुरोद्धा अनुरोधः" इति (धातुप्रदीपः)।

पाणिनिसूत्रेऽपि केचन धातवः सोपसर्गाः समुपदिष्टास्तद्यथा-
"भुवः प्रभवः"(अष्टाध्यायी-१.४.३१) इति सूत्रे धातुपाठे सत्तार्थके वर्त्तमानस्य भूधातोः "प्र" इति उपसर्गपूर्वप्रयोगेण "प्रभवति अस्मात् इति प्रभवः" इति व्युत्पत्त्या प्रकटितो भवति प्रथमं प्रकाशते वेत्यर्थोऽङ्गीक्रियते।तदुच्यते-
"भवनं भूः। प्रभवत्यस्मादिति प्रभवः। भूकर्तुः प्रभवो यः,तत् कारकमपादानसंज्ञं भवति" इति (काशिका)।
तथाहि-
"प्रभवति प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः"
इति (बालमनोरमा)
यथा-हिमवतो गङ्गा प्रभवति इत्यस्य गङ्गा हिमपर्वतात् हिमालयात् प्रकटिता भवति प्रथमं प्रकाशते वेत्यर्थः।

"परौ भुवोऽवज्ञाने" (अष्टाध्यायी-३.३.५५)  इति सूत्रेण पर्युपसर्गपूर्वको भूधातुरवज्ञानेऽर्थे समुपदिश्यते।तत्र अवज्ञानं नामासत्कारोऽर्थात् तिरस्कारोऽनादरो वेति।तदित्थं सूत्रार्थो भवति-"परिशब्द उपपदे अवज्ञानेऽर्थे गम्यमाने भवतेर्धातोर्विभाषा घञ् प्रत्ययो भवति।अत्र मानं कोशवचनमपि-
"अनादरः परिभवः परीभावस्तिरस्क्रिया" 
इति (अमरकोशः-१.७.२४)।
तस्मादेव सिद्धान्तकौमुद्यां दीक्षितकृते मङ्गलाचरणे 'परिभाव्य' इति प्रयोगो युक्तियुक्तः प्रतिभाति।तद्यथा-
"मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च" इति 
       (सिद्धान्तकौमुदी-मङ्गलपद्यम्)
अत्र "परिभाव्य" इत्यस्य "तिरस्कृत्य" इत्यर्थनिर्देशः क्रियते।

"उपसर्गाच्छन्दसि धात्वर्थे"
(अष्टाध्यायी-५.१.११८) इति सूत्रेण 
उपसर्गस्य प्रयोगो धात्वर्थे एव,परं धातुं विना कृतः दृश्यते।यथा-"उद्+गम्" इत्यस्य स्थाने केवलम् "उद्"इत्युपसर्गः वतिप्रत्ययेन सह प्रयुक्तो वर्तते।अत्र 'वति'प्रत्ययेन कोऽपि नूतनोऽर्थो न निर्दिश्यते,अपितु धात्वर्थे (स्वार्थे) एव वतिप्रत्ययस्य प्रयोगो भवति।
यथा-"यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑ग् एषि प्रग॒र्धिनी॑व॒ सेना॑।"
ऋग्वेदः (१०.१४२.४) इति मन्त्रे 
'उद्वतः' तथा 'निवतः' इति प्रयोगौ दृश्यते।तत्र 
'उद्वतः' इति रूपमुद्वत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति।तत्र 'उद्+गम्' इत्यस्मिन्नर्थे केवलम् 'उद्' इत्युपसर्गः प्रयुक्तो अस्ति, तथा च स्वार्थे एव तस्माद् वतिप्रत्ययोऽपि प्रयुक्तोऽस्ति।'उद्वतः' इत्यस्य अत्र अर्थः 'ये उद्गच्छन्ति तान् इति।
पुनश्च 
"निवतः" इति रूपम् निवत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति।तत्र
'नि+गम्' इत्यस्मिन्नर्थे केवलम् 'नि' इत्युपसर्गः प्रयुक्तोऽस्ति,तथा स्वार्थ एव तस्माद् वति-प्रत्ययोऽपि प्रयुक्तोऽस्ति। 'निवतः' इत्यस्य अर्थः 'ये निगच्छन्ति तान् इति।
तदुच्यते-
उपसर्गात् ससाधने धात्वर्थे वर्तमानात् स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये। यदुद्वतो॑ नि॒वतो॒ यासि॒ बप्स॒द् (ऋग्वेदः-१०.१४२.४)।उद्गतानि निगतानि च" इति (काशिका)।
उपसर्गमहिम्ना क्वचदकर्मकोऽपि धातुः सकर्मको भवति।यथा-
"क्रुध कोपे" इति दिवादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः पठ्यते।अत्र मानम्- 
"क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः"
(अष्टाध्यायी-१.४.३७) इति सूत्रव्याख्यानक्रमे न्यासकारः
"क्रुधद्रुहावकर्मकौ" इति (न्यासः)।
तथाहि-
"क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता" इति (प्रौढमनोरमा,तत्त्वबोधिनी)।
केवलोऽयं धातुरकर्मत्वेन वर्तते परं सोपसर्गोऽयं धातुः सकर्मकत्वेन प्रयुज्यते।अतः सामान्यतया लोके एवमुच्यते हि उपसर्गमहिम्ना एवाकर्मको धातुः सकर्मको भवति।तत्र मानम्-
"क्रुधद्रहोरुपसृष्टयोः कर्म" (अष्टाध्यायी-१.४.३८) इति।
सकर्मकत्वेन प्रयोगो यथा-
देवदत्तमभिक्रुध्यति।देवदत्तमभिद्रुह्यति। 
अकर्मकत्वेन प्रयोगो यथा-
देवदत्ताय क्रुध्यति।यज्ञदत्ताय द्रुह्यति।
तदित्थं स्पष्टं भवति यदुपसर्गानुरिणो धात्वर्था भवन्तीति शम्।









Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)