लक्षणम्-(प्रयोगानुसारिणो धात्वर्थाः)

लक्षणम्-"लक्ष दर्शनाङ्कनयोः" (चुरादिगणी उभयपदी सकर्मकः सेट्) इति धातोर्ल्युटि प्रत्यये सति लक्षणं निष्पद्यते।लक्षणशब्दः चिह्न-स्वरूप-
ज्ञापक-निमित्त-दर्शन-प्रमाण-
अध्याय-प्रतिपाद्यविषय-सूत्र-शास्त्र-
लक्ष्मणादीन् अनेकार्थान् परिभाषिकसञ्ज्ञाविशिष्टञ्च विज्ञापयति।

तत्रादौ चिह्नार्थे ज्ञापकार्थे च लक्षणशब्दो यथा-
लक्ष्यते चिह्न्यते येन तल्लक्षणम्।अत्र लक्षणं नाम चिह्नम्।तदाह धातुपाठवृत्तौ क्षीरतरङ्गिण्याम्- 
"अङ्कनं चिह्नम्" इति क्षीरतरङ्गिणीकारः।
अन्यद्धि- 
"अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्षणम्" 
(रघुवंशम्-१०.६)
अत्र पुनर्मानम्-
"कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्"
(अमरकोशः-१.३.१९)
तथाहि-
लक्ष्यते येन तल्लक्षणम्,धूमो लक्षणमग्नेरिति हि वदन्ति।
चिह्नार्थे ज्ञापकार्थे च लक्षणशब्दो लभ्यते।तत्र बहुधा प्रस्तूयते मानं-
"लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः"
(अष्टाध्यायी-१.४.९०)
 लक्ष्यते चिह्न्यते येन तत् लक्षणम्।
"लक्षणं ज्ञापको हेतुश्चिह्नमिहाभिप्रेतम्"
इति न्यासकारः।
"लक्ष्यते येन तल्लक्षणं चिह्नं ज्ञापकम्"इति पदमञ्जरी।

"लक्षणेनाभिप्रती आभिमुख्ये"
(अष्टाध्यायी-२.१.१४)
लक्षणं चिह्नम्(काशिका)

"लक्षणहेत्वोः क्रियायाः"
(अष्टाध्यायी-३.२.१२६)
लक्ष्यते चिह्न्यते येन तल्लक्षणम्। जनको हेतुः(काशिका)
चिह्नयतिरवधारयति।
 लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं  ज्ञापकम् (बालमनोरमा)।
लक्ष्यतेऽनेनेति लक्षणं परिचायकम् (तत्त्वबोधिनी)।

"इत्थम्भूतलक्षणे"(अष्टाध्यायी-२.३.२१) इति सूत्रव्याख्यायां 
"लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्  चिह्नम्" इति न्यासकारस्तथा 
"लक्षणं ज्ञापकम्" इति बालमनोरमाकारः।

"यस्य च भावेन भावलक्षणम्"
(अष्टाध्यायी-२.३.३७)
लक्षणं नाम तद्भवति येन पुनः पुनर्लक्ष्यते(महाभाष्यम्)
अत्र लक्षणं नाम ज्ञापकं बोधकम्

लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्।अत्र लक्षणं नाम ज्ञापकम्।व्याकरणे तदुच्यते-
"लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्"
(परिभाषेन्दुशेखरः-परिभाषा-१०५)।
अस्यां परिभाषायां लक्षणपदेन ज्ञापकं ज्ञापकसिद्धञ्चावबुध्यते।अत्र लक्षणं लाक्षणिकपरम्।लक्षणं निष्पन्ना स्थानमिति भावः।
क्वचिल्लक्षणं पारिभाषिकार्थं वेदयति।
"लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम्"इति बोपदेवः।
लक्षणस्य लक्षणनिरूपणे न्याये कथ्यते -"लक्षणन्तु असाधारणधर्मवचनम्"
(तर्कभाषा-केशवमिश्रः)
अन्यद्धि- 
"लक्षणप्रमाणाभ्यां वस्तुसिद्धिर्न तु प्रतिज्ञामात्रेणेति"

साङ्ख्ये तु पुनः
षड्दर्शनाचार्येण वाचस्पतिमिश्रेण पुनरिदमाकीर्त्यते-
"समानासमानजातीयो व्यवच्छेदो लक्षणार्थः”
(साङ्ख्यतत्त्वकौमुदी- ५)
पुनश्च-
"तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम्"इति।
तथाहि-
"व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्" इति।

स्वरूपार्थे लक्षणशब्दो यथा- 
"सर्वगन्धवती पृथिवीति पृथिवीलक्षणे लक्षणशब्दः स्वरूपार्थं बोधयति।योऽन्येभ्यो गन्धवद्भ्यः पदार्थेभ्यः पृथिवीं पृथक् करोति।
पुनश्च-
 घटलक्षणं वस्तु अर्थात् घटस्वरूपकं वस्तु इति।
तथाहि-
"वेदलक्षणा गौः"इत्यनेन इत्यादावपि वेदो लक्षणम्(स्वरूपम्) यस्याः सा वेदलक्षणेति।अत्रापि लक्षणं नाम स्वरूपम् इत्यभिव्यञ्जयति।
"सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम्।
एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः॥"
(मनुस्मृतिः-४.१६०)
मनुस्मृतौ "समासेन लक्षणं सुखदुःखयोः " इति वर्णने लक्षणं नाम स्वरूपमित्यर्थोऽवबुध्यते।तस्मात् समासेन सुखदुःखस्वरूपम् इति ज्ञायताम्।


निमित्तार्थेऽपि लक्षणशब्दो व्याकरणशास्त्रे लभ्यते।तत्र निमित्तं नाम कारणं हेतुश्च।तदुच्यते -
"प्रत्ययलोपे प्रत्ययलक्षणम्"
(अष्टाध्यायी-१.१.६२) इति सूत्रे
प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति(काशिका)
प्रत्ययो लक्षणं(निमित्तं कारणं हेतुश्च)यस्येति तत् प्रत्ययलक्षणम्।
तत्र मानं-
"लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः,अस्ति च करणसाधनो निमितवचनः" इति (पदमञ्जरी)

प्रत्ययो लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्।प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादिति (बालमनोरमा)।
पुनश्च-
"वृद्धो यूना तल्लक्षणश्चेदेव विशेषः"
(अष्टाध्यायी-१.२.६५) इति सूत्रेऽपि काशिकायां व्याख्यायते 
"लक्षणशब्दो निमित्तपर्यायः"
(काशिका)।
तथाहि -
"अनुर्लक्षणे"
(अष्टाध्यायी-१.४.८४)
अत्र लक्षणं हेतुः कारणमिति।तद्धि-
"लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्"इति (बालमनोरमा)।
अन्यत्रापि चोक्तम्- 
"वर्णाश्रये नास्ति प्रत्ययलक्षणम्" (परिभाषेन्दुशेखरः)।
इति व्याकरणपरिभाषायामपि लक्षणशब्दो निमित्तार्थे लभ्यते।

दर्शनार्थे पुनर्लक्षणशब्दो यथा-
चित्रं लक्षयेद् अर्थात् चित्रं दर्शयेत् इति भावः।
लक्षणशब्दः शास्त्रे सूत्रे चोपयुज्यते।तत्र मानम् -
"लक्ष्यलक्षणे व्याकरणम्।
लक्ष्यं च लक्षणं चैतत्समुदितं व्याकरणं भवति।किं पुनर्लक्ष्यम्,किं लक्षणम्? शब्दो लक्ष्यः,सूत्रं लक्षणम्"इति (महाभाष्यम्)।व्याकरणतन्त्रे प्रत्येकं सूत्रं शास्त्रत्वेन वेदत्वेन चाकीर्त्यते।
व्याकरणमहाभाष्ये शेषावतारो भगवान् पतञ्जलिस्तदाह-
"शास्त्रपूर्वक प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन"
पुनस्तत्रैव-
"प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किम्पुनरियता सूत्रेण"
(पाणिनिसूत्रम्-१-१.१)।
अपि च सामर्थ्ययोगान्न हि किञ्चिदस्मिन्शास्त्रे पश्यामि यदनर्थकं स्यादिति  (पाणिनिसूत्रम्-६.१.७७) ।
उपर्युक्तमहाभाष्यप्रमाणैरिदं सिध्यति यन्महाभाष्यकृन्मते लक्षणं नाम सूत्रं  शास्त्रं वेदपर्यायश्चेति।
अन्यत्रापि चोक्तम्-
"व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्"
एतद्व्याख्यायां शास्त्रे सूत्रे च सन्देहे व्याख्यानात् विशेषप्रतिपत्तिर्ज्ञेया अर्थाद् विशिष्टं ज्ञानं कर्त्तव्यम्, सन्देहात् नहि तत् अलक्षणम् (अशास्त्रम्,असूत्रम्) इति विज्ञेयम्।

लक्षणशब्दोऽध्याये प्रतिपाद्यविषयार्थे च प्रयुज्यते।तद्यथा-
"द्वादशलक्षणी मीमांसा,षोडशलक्षणी मीमांसा "इति पूर्वमीमांसादर्शनापरपर्यायत्वेन
 लभ्यते।तत्र द्वादश लक्षणानि (अध्यायाः प्रतिपाद्यविषया वा) यत्र सा द्वादशलक्षणी इति।तदाह-
“इत्थं द्वादशलक्षणीति” माधवीयन्यायमीमांसायां द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां समाहारः इति तदर्थो निरूपितो दृश्यते।

प्रमाणार्थे पुनर्लक्षणशब्दो यथा- 
"चोदनालक्षणार्थो धर्मः"
(जैमिनिसूत्रम्-१.१.२)
इति पूर्वमीमांसादर्शनेन प्रोक्ते धर्मलक्षणे लक्षणशब्दः प्रमाणं बोधयति। यस्मात् प्रमाणेन सर्वं लक्ष्यते तस्माल्लक्षणं नाम प्रमाणम्। 
चोदना(प्रवर्तना प्रेरणा वा) लक्षणं (प्रमाणम्)यस्य सः चोदनालक्षणः।चोदनालक्षणश्चासौ अर्थः(प्रयोजनम्) इति चोदनालक्षणार्थः इति धर्मस्य विशेषणत्वेन वर्तत इति तद्व्याख्यानं ज्ञेयम्।
अत्र लक्ष्यते बोध्यते प्रमाणीक्रियते येनेति तल्लक्षणमिति करणव्युत्पत्त्या ल्युडन्तं लक्षणं प्रमाणं बोधयति।

पुंसि लक्षणशब्दस्तु रामस्य अनुजं सुमित्रानन्दनं लक्ष्मणार्थं ज्ञापयति।तद्यथा-"लक्षणमस्ति अस्येति" व्युत्पत्त्या "अर्श आदिभ्योऽच्"(अष्टाध्यायी-५.२.१२७) इति पाणिनिसूत्रेणाचि प्रत्यये पुंसि  निष्पन्नो लक्षणशब्दः सुमित्रापत्यं लक्ष्मणार्थं ज्ञापयति।हरिवंशवर्णने तदुच्यते-
"लक्षणानुगतो यश्च सर्व्वभूतहिते रतः। चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः॥
(हरिवंशपुराणम्-४१.१२९)
अत्र लक्षणः (लक्ष्मणः) अनुगतः(पश्चाद्गामी, अनुवर्ती वा) यस्य स इति व्याख्यया लक्षणशब्दो लक्ष्मणार्थबोधकः।

तदित्थं लक्षणशब्दस्यानेकार्थत्वमागम्यते। तस्माल्लक्षिधातोरनेकार्थत्वं स्वयं सिध्यति नात्र संशयः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)