"आगमादिवशेन धात्वर्थाः"
"आगमादिवशेन धात्वर्थाः" इत्युक्ते नाम पाणिनिकृद्भिः सूत्रैः , कात्यायनप्रणीतैर्वार्तिकैश्च आगमादयो विधीयन्ते।तत्प्रभावेण यद्धात्वर्थपरिवर्तनं जायते।तेषां धात्वर्थानां वर्णना अध्यायेऽस्मिन् क्रियते।अत्रादिपदेन आदेशो
लोपश्चापि सङ्गृह्यते।प्रसङ्गात्तावदादौ
आगमादयो विचार्यन्ते।
"आगम:"-आगमशब्दोऽनेकार्थेषु प्रयुज्यत इति विषयोऽस्यैव शोधप्रबन्धस्य "प्रयोगानुसारिणो धात्वर्थाः" इत्येतस्मिन्नध्याये बहुविस्तरेण चर्चितः।अत्र तावद्व्याकरणे शास्त्रीयप्रक्रियासम्पादकः प्रकृतिप्रत्ययानुपघातकः "अट्,आट्,इट्,नुट्,नुम्,कुक्,टुक्,पुक्,युक्,षुक्" इत्यादिरूपो विकारविशेषश्चागमो वर्तते।व्याकरणपरिभाषासु
तदुच्यते-
“आगमादेशयोर्मध्येबलीयान् आगमो विधिः”।
“यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”-(व्याकरणपरिभाषा)।
“आगमशास्त्रमनित्यम्”
केषुचित् वार्तिकेष्वपि तदुच्यते-
“आगमा आद्युदात्ताः”(वार्तिकम्)
“आगमा अविद्यमानवद्भवन्ति (कात्यायनः वार्तिककारः)
महाभाष्यवचनेष्वपि लभ्यते-
"अनागमकानां सागमका:",
"मित्रवदागमा भवन्ति",
"आगमावित्याह।युक्तं पुनर्यन्नित्येषु नाम शब्देषु आगमशासनं स्यात्।"
"आगमश्च नामापूर्वः शब्दोपजनः"।
पुनश्च-
"भवेद्वर्णागमाद्धंसः" इति।
एषु प्रसङ्गेष्वपि आगमशब्दः आगमनोद्भवार्थमेव विज्ञापयति। तदुक्तमागमलक्षणे-
"अन्यत्र विद्यमानस्तु यो वर्णः श्रुयतेधिकः।
आगम्यमानतुल्यत्वात्स आगम इति स्मृतः
"आदेशः"- आङुपसर्गपूर्वको दिशधातुराज्ञार्थे वर्णस्य वर्णान्तरोत्पत्त्यर्थे प्रकृतिप्रत्ययोपघातिकार्य्यार्थे च लभ्यते।आज्ञार्थे दिशधातुस्तत्रादौ-
“आदेशं देशकालज्ञः शिष्यः शासितुरानत।"
(रघुवंशम्-१.९२)
तथाहि-'शिष्यः गुर्वादेशं पालयति' इति।
आदिश्यते यः स आदेश इति व्युत्पत्त्या वर्णस्य स्थाने अन्या वर्णान्तरोत्पत्तिरादेशो भवति।
तदुक्तम्-"स्थानिवदादेशोऽनविधौ"(अष्टाध्यायी-१.१.५६),
"आदेशप्रत्यययोः"(अष्टाध्यायी-८.३.५९)
तथाहि-
"सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।"
(महाभाष्यम्,वाक्यपदीयम्)
अन्यत्रापि-
"धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्।”
(रघुवंशम्-१२.५८)।
एतत्सर्वं समीक्ष्येदं वक्तुं शक्यते यद् येन विधीयमानेन अन्यत् प्रसक्तं निवर्तते स आदेशः।
"लोपः"-
"लुप्लृ छेदने" (तुदादिगणः उभयपदी सकर्मकोऽनिट्) धातोर्भावार्थकेन घञा प्रत्ययेन "लोपः" इति सिध्यति।यस्यार्थो भवति छेदो विनाशोऽभावश्च।वैयाकरणानां नये तु लोपो नाम वर्णाभावो वर्णविनाशश्च गृह्यते।तस्मादेव लोपो नाशविधिरुच्यते।यो हि स्वरादेशविधिं विहाय सर्वविधिभ्यो बलवान् भवति।
"सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा।
लोपस्वरादेशयोस्तु स्वरादेशो विधिर्ब्बली॥”
(दुर्गादास:)
अत्र प्रमाणं पाणिनिसूत्रमेव-
"अदर्शनं लोपः"(अष्टाध्यायी १.१.६०)
इति सूत्रे शब्दशास्त्रीयप्रक्रियाङ्गभूतस्य वर्णस्य वर्णसमूहस्य वा जायमानम् अदर्शनं लोपसञ्ज्ञया व्यपदिश्यते।
अत्र 'अदर्शनम्' इत्यनेन केवलम् चाक्षुषेन्द्रियविशिष्टं कार्यम् एव न गृह्यते,अपितु 'अनुच्चारणम्' 'अश्रवणञ्चेति
दिशि उच्चारणक्रियायामिति वचनात् सङ्गृह्यते।तदाह-
"अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाश इत्यनर्थान्तरम्। एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोप इतीयं संज्ञा भवति। अर्थस्येयं संज्ञा न शब्दस्य।प्रसक्तस्यादर्शनं लोपसंज्ञं भवति" इति (काशिका)।
आगमादेशलोपेष्विदमन्तरं वर्तते यदागमा येषां केषामपि वर्णानां स्थाने भवन्ति तेषामेव विशेषणीभवन्ति तथा तेषां ग्रहणेनैवागमानामपि ग्रहणं भवन्ति।अत्र स्थानिवर्णा न नश्यन्ते,अपितु आगमैः सह तेऽपि स्थानिवर्णास्तत्र तिष्ठन्ति।तदुच्यते-
“यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”-(व्याकरणपरिभाषा)।
तथाहि-"मित्रवदागमा भवन्ति"।
आदेशेषु तु स्थानिवर्णाः नश्यन्ति,अर्थात् आदेशस्थले एकस्य वर्णस्य स्थाने वर्णान्तरोत्पतिः भवति।स्थानिवर्णो नष्टो भवति तथा तत्स्थाने नूतनो वर्णः समापतति। उच्यते हि-
"शत्रुवदादेशा भवन्ति" इति।
परं लोपेषु तु स्थानिवर्णानाम् अदर्शनम् (अश्रवणम् अनुच्चारणञ्च) भवति।तेषां स्थाने न कश्चन नूतनवर्णागमो नूतनवर्णादेशो वा भवति, अपितु स्थानिवर्णा स्वयमपि नष्टा भवन्ति।
एतेषामाधारेण धात्वर्थे किञ्चिद् विशिष्टं परिवर्तनं जायते।तदेवाध्यायेऽस्मिन् सारभूतं विचार्यते।तद्यथा-
(१)."धृषिशसी वैयात्ये"(अष्टाध्यायी-७.२.१९) इति सूत्रेण "ञिधृषा प्रागल्भ्ये","शसु हिंसायाम्" चेत्यनयोर्धात्वोः वैयात्यार्थे निष्ठायामिडागमो न भवति।अत्र वैयात्यं नाम अविनीतता।तदुच्यते -
"वियातस्य भावो वैयात्यम्,प्रागल्भ्यम्, अविनीतता।तत्र धृष् शस् इत्येतयोर्निष्ठायामिडागमो न भवति।धृष्टोऽयम् ,विशस्तोऽयम् " इति (काशिका)।
तथाहि-
"यातम् यातिः, प्राप्तिः।विरूपं यातं यस्यासन्मार्गविषयत्वात् स वियातः अविनीत इत्युच्यते।तद्भावो वैयात्यम्। ब्राह्मणादित्वात् (५.१.१२३) ष्यञ्।धृष्टः इति "(न्यासः)।
अन्यद्धि-
"विरुद्धं यातो वियातः,अविनीतः" इति
(तत्त्वबोधिनी)।
पाणिनिधातुपाठे तु
"ञिधृषा प्रागल्भ्ये" इति स्वादिगणः परस्मैपदी अकर्मकः सेट् धातुः ,
"शसु हिंसायाम्" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुश्च पठ्येते परमेतत्सूत्रानुसारेण इमौ धातू वैयात्येऽपि स्मर्येते।इदमत्र ध्येयं यद् वैयात्येऽर्थ एव इडभावः।एतद्भिन्नार्थे तु इड्भवति।तदाह-
"एतौ निष्ठायामविनये एवानिटौ स्तः।धृष्टः, विशस्तः।अन्यत्र धर्षितः,विशसितः" इति (सिद्धान्तकौमुदी)।
(२)."कृच्छ्रगहनयोः कषः"(अष्टाध्यायी-७.२.२२)
इति सूत्रेण कृच्छ्रगहनयोरर्थयोः कषधातोर्निष्ठायामिडागमो न भवति।
अत्र कृच्छ्रं नाम कष्टं दुःखं वा,गहनं नाम दुरवगाहनम्।तदुच्यते-
"कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति। कष्टोऽग्निः।कष्टं व्याकरणम्।ततोऽपि कष्टतराणि सामानि।कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते।गहने-कष्टानि वनानि। कष्टाः पर्वताः" इति (काशिका)।
पाणिनिधातुपाठे "कष हिंसायाम्" (भ्वादिगणीयः परस्मैपदी सकर्मकः सेट्) इति धातुः पठ्यते परं एतेन सूत्रेण कषधातोः कृच्छ्रं गहनञ्चेति अर्थद्वयं स्मर्यते।अत्रेदं सारभूतं तथ्यं यत् कृच्छ्रगहनार्थयोरेव इडभावः।एताभ्यां भिन्नेऽर्थे इडागमो भवत्येव।यथा-कषितं सुवर्णम्।
(३)."वो विधूनने जुक्"(अष्टाध्यायी-७.३.३८) इति सूत्रेण "ओवै शोषणे" इति धातोर्णिचि परे विधूननेऽर्थे जुगागमो भवति।अत्र विधूननपदेन कम्पनार्थो बुध्यते। उच्यते हि-
"वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः। पक्षेणोपवाजयति" इति (काशिका)।
तथाहि-
"वातेर्जुक्स्याण्णौ कम्पार्थे।वाजयति। कम्पे किम्?केशान्वापयति"
इति (सिद्धान्तकौमुदी)।
"लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्" इति परिभाषयात्र "ओवै शोषणे" इति भ्वादिगणीयः परस्मैपदी सकर्मकोऽनिट् धातुः गृह्यते।न तु गतिगन्धनार्थकोऽदादिगणीयो वाधातुः।
इदमत्र बोध्यं यत् विधूनने(कम्पने) अर्थ एव जूगागमः स्यात्।यथा-वाजयति कम्पयतीत्यर्थः।
नान्यस्मिन्नर्थे जुगागमः।यथा-केशान् वापयति केशान् मुण्डयति,भद्रकरणं करोतीत्यर्थः।
तदित्थम् आगमकार्यम् अवलोक्य तदर्थनिर्धारणं कर्तुं शक्यते।
(४)."श्योऽस्पर्शे" (८.२.४७) इति सूत्रेण
"श्यैङ् गतौ"इति धातोर्निष्ठासञ्ज्ञकस्य तकारस्य स्थाने नकारादेशो भवति अस्पर्शेऽर्थे वर्तमाने।
प्रतिपाद्यते तद्धि काशिकायां-
"श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवती"ति (काशिका)। अत्र स्पर्शो नाम
त्वगिन्द्रियग्राह्यो गुणविशेषः।न स्पर्शः अस्पर्शः स्पर्शभिन्नार्थविशिष्टः।
यथा-शीनं घृतम् घनीभूतं घृतमित्यर्थः।
अयञ्चार्थो धातूनामनेकार्थत्वात् सिध्यति।तदाह बालमनोरमाकृद्वासुदेवदीक्षितः-
शीनं घृतमिति।घनीभूतमित्यर्थः, धातूनामनेकार्थत्वात्" इति (बालमनोरमा)।
अनेन सूत्रेण अस्पर्शार्थे निष्ठातकारस्य नकारादेशो विधीयते।अतः स्पर्शार्थे नकारादेशो न भवति।यथा-शीतं जलम्, शीत स्पर्शवज्जलमित्यर्थः।
तदेवं श्यैधातोर्निष्ठाभूतस्य तकारस्य नकारादेशकार्यम् आलक्ष्य तदर्थम् ज्ञातुं शक्यते।
(५)."अञ्चेः पूजायाम्"
(अष्टाध्यायी-७.२.५३) इति सूत्रेण पूजार्थे अञ्चुधातोर्विहितस्य क्त्वाप्रत्ययस्येडागमो भवति।अत्र मानम्-
"अञ्चेः पूजायामर्थे क्त्वानिष्ठयोरिडागमो भवति। अञ्चित्वा जानु जुहोति" इति (काशिका)।
तथाहि
"पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात्। अञ्चितः।गतौ तु अक्तः" इति (सिद्धान्तकौमुदी)।
तद्यथा- अञ्चिता अस्य गुरवः ,अस्य गुरवः पूजिता इत्यर्थः।
तदिदं सिध्यति यत् -
"अञ्चु गतिपूजनयो:" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः वर्तते।एतस्य पूजायामर्थ एव विहितस्य क्त्वाप्रत्ययस्येडागमो भविष्यति न तु तद्भिन्नार्थे।पूजार्थे यथा-"अञ्चित:" इत्युक्ते "पूजित:" इत्यर्थः।
तद्भिन्नेऽर्थे यथा-"अक्तः" इत्युक्ते "गत:" इत्यर्थः।
तदेवमेतादृशस्थले इडादिगमं दृष्ट्वा बुधा वैयाकरणा धात्वर्थनिर्णयं कुर्वन्ति।
(६)."लुभो विमोहने" (अष्टाध्यायी-७.२.५४) इति सूत्रेण विमोहनेऽर्थे वर्त्तमानस्य लुभधातोः परस्य क्त्वाप्रत्ययस्य निष्ठाप्रत्यययोश्चेडागमो भवति।
तदुच्यते काशिकायां-
"लुभो विमोहनेऽर्थे वर्तमानात् क्त्वानिष्ठयोरिडागमो भवति।लुभित्वा, लोभित्वा।विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि" इति (काशिका)।
अत्र विमोहनं नामाकुलीकरणं व्याकुलीकरणमित्यर्थः।
मानञ्चात्र पुनः- -
"विमोहनम् आकुलीकरणम्"इति
(माधवीयधातुवृत्तिः,कविकल्पद्रुमः)
अन्यद्धि-
"विमोहनं व्याकुलीकरणम्" इति (क्षीरतरङ्गिणी)।
अत्र
तुदादिगणस्थस्य "लुभ विमोहने" (परस्मैपदी सकर्मकः सेट् धातुः) इत्यस्य धातोर्ग्रहणं कर्त्तव्यम्।यतोहि तद्भिन्नस्य दिवादिगणस्थस्य लुभधातोर्गार्ध्येऽर्थे वर्त्तमानात्तस्य विमोहनार्थासम्भवात्।तदुक्तम्-
अत्र तौदादिकस्यैव ग्रहणं,तस्यैव विमोहनार्थकत्वात्।नतु दैवादिकस्य, तस्य गार्ध्यर्थकत्वात्" (बालमनोरमा)।
तदेवं सिध्यति यद्विमोहनार्थेऽनेन सूत्रेणेडागमो नान्यस्मिन्नर्थे।यथा-
लुभित इति-विमोहित इत्यर्थः। तद्भिन्ने गार्ध्ये तु लुब्ध इति- अभिकाङ्क्षवानित्यर्थः।
तदित्थमत्र इडागमं दृष्ट्वा धात्वर्थनिर्धारणं कर्तुं शक्यते नात्र संशीतिः।
(७)."घुषिरविशब्दने" (अष्टाध्यायी-७.२.२३) इति सूत्रे "घुषिर् अविशब्दन (चुरादिगणः परस्मैपदी सकर्मकः सेट्) इति धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति।तदाह-
"घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति" इति (काशिका)।
अत्र विशब्दनं नाम प्रतिज्ञानम्
शब्देन अभिप्रायप्रकाशनं वा।तदुक्तम्-
"विशब्दनं प्रतिज्ञानम्" इति (काशिका न्यासश्च)।
अन्यत्रापि-
"विशब्दनं प्रतिज्ञा" इति (माधवीयधातुवृत्ति:)।
तथाहि-
"विशब्दनं विशिष्टशब्दकरणम्"
इति (क्षीरतरङ्गिणी)।
अन्यद्धि-
"विशब्द इह कथनं आविष्करणं नानाशब्दकरणं वा" इति (कविकल्पद्रुमः)।
तदेवं विशब्दनं नाम स्वाभिप्रायस्य शब्देनाविष्करणमित्यर्थः समायाति।
अनेन सूत्रेण अविशब्दनार्थे एव घुषिधातोः विहितस्य निष्ठाप्रत्ययस्य इण्निषेधो भवति।विशब्दनेऽर्थे तु पुनरिडागमो भवत्येव।विशब्दने तद्यथा-
अवधुषितम् विशब्दितम्, आविष्कृताभिप्रायमित्यर्थः
शब्देन प्रकटीकृताभिप्रायमित्यर्थश्च।
अविशब्दने तद्यथा-
घुष्टा रज्जुः, रज्जुः उत्पादितेत्यर्थः।
तदेवम् इडागमविधानम् इडागमनिषेधञ्चावलोक्य धात्वर्थनिर्णयं कर्तुं शक्यते।
(८)."किरतौ लवने"
(अष्टाध्यायी-६.१.१४०)
इति सूत्रेण उपपूर्वकात् कॄधातोः ककारात्पूर्वो सुडागमो भवति लवनेऽर्थे वर्त्तमाने।अत्र लवनं नाम छेदनम् "लूञ् छेदने" इति धातोर्निष्पन्नत्वात्।तदुच्यते-
"उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुट् कात् पूर्वो भवति" इति (काशिका)।
अन्यत्रापि-
"उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति" इति (सिद्धान्तकौमुदी)।
तदित्थं लवनार्थे "कॄ विक्षेपे"(तुदादिगणः परस्मैपदी सकर्मकः सेट्) इति धातोः सुडागमो भवति तद्भिन्नेऽर्थे सूडागमो नैव भवति।लवनेऽर्थे यथा-उपस्कारं मद्रका लुनन्ति, उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्तीत्यर्थः" इति।
लवनात्पृथगर्थे सुडागमो दृश्यते यथा-उपकिरति।
तदेवं सुडागमकार्यं तद्भावञ्च विलोक्य धात्वर्थनिर्णयं कर्तुं प्रभवन्ति विद्वांसो नात्र संशीतिः।
(९).दिवोऽविजिगीषायाम्(८.२.४९) इत्यनेन सूत्रेण दिवुधातोर्विधीयमानस्य निष्ठाभूतस्य तकारस्य स्थाने नकारादेशः क्रियते।अत्र
विजेतुमिच्छा विजिगीषा।न विजिगीषा अविजिगीषा।उक्तञ्च-
"दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे" इति (काशिका)।
तदेवमर्थः फलति यद् दिवुधातोऽविजिगीषार्थे निष्ठातकारस्य नकारादेशो तथा विजिगीषार्थे नकारादेशाभावश्च भवति यतोहि दिवुधातुर्दिवादिगणे
"दिवु क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु" इति नानार्थेषु पठ्यते।
अविजिगीषार्थे यथा- आद्यूनः,परिद्यूनः ,अविजिगीषुरित्यर्थः।
तद्भिन्नार्थे यथा-'द्यूतम्' इति।अत्र नकारादेशाभावो दृश्यते,यतोऽत्र विजिगीषया हि अक्षपातनादि क्रियते।
आदिशब्देन शलाकापातादेर्ग्रहणमपि क्रियते।
तदिदम् सिध्यति यद्- "आद्यूनः,परिद्यूनः,द्यूतम्" इत्यादिषु प्रदेशेषु आदेशकार्यं दृष्ट्वा बुधैस्तदर्थं निर्णेतुं शक्यते।
(१०)."हिंसायां प्रतेश्च" (अष्टाध्यायी-६.१.१४१) इति सूत्रेण हिंसायाम् "प्रति" इत्युपसर्गपूर्वस्य "कॄ विक्षेपे" इति धातोः ककारात्पूर्वं सुडागमो भवति।चकारात् "उप" इत्युपसर्गपूर्वस्यापि किरतेः कात्पूर्वः सुडागमो हिंसायामर्थे भवति। तदुच्यते काशिकायां-
"किरतावित्येव।उपात् प्रतेश्चोत्तरस्मिन् किरतौ सुट् कात् पूर्वो भवति हिंसायां विषये" इति (काशिका)।
यथा-उपस्किरति,उपस्कीर्णम्,
प्रतिस्किरति,प्रतिस्कीर्णम्।
तदेवं विक्षेपार्थे पठितस्य कॄधातोः ककारात्पूर्वं सुडागमकार्यं दृष्ट्वा "हिंसायाम्" इत्यर्थोऽवगम्यते।
(११)."अपाच्चतुष्पाच्छकुनिष्वालेखने"(अष्टाध्यायी-६.१.१४२)
इति सूत्रेण "अप" इत्युपसर्गपूर्वस्य किरतेः कात्पूर्वं सुडागमो विधीयते चतुष्पाच्छकुनिष्वालेखनार्थे।अत्रालेखनं नाम खननमित्यर्थः।यथा-
अपस्किरते वृषभो हृष्टः।अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी।आलिख्य विक्षिपतीत्यर्थः।
पाणिनिधातुपाठे तु "कॄ विक्षेपे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुरुपदृश्यते।
तदेवं सुडागमं विलोक्य तत्र-तत्र तत्तदर्थनिर्णयं कर्तुं शक्नुवन्ति।
(१२)."उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु"(अष्टाध्यायी-६.१.१३९) इति सूत्रेण प्रतियत्न-वैकृत-वाक्याध्याहारार्थेषु उपपूर्वकात् "डुकृञ् करणे" इति धातोः सुडागमो विधीयते।तत्र प्रतियत्नो नाम गुणान्तराधानम्,वैकृतं नाम विकारभूतं तथा वाक्याध्याहारो नाम आकाङ्क्षितैकदेशपूरणम्।तन्निगद्यते-
"सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः।विकृतमेव वैकृतम्।
गम्यमानार्थस्य वाक्यस्य स्वरूपेणोपादानं वाक्यस्याध्याहारः" इति (काशिका)।
प्रतियत्ने यथा-एधोदकस्योपस्कुरुते(गुणाधानं करोतीत्यर्थः)।
वैकृते यथा-उपस्कृतं भुङ्क्ते(विकृतं भुङ्क्त इत्यर्थः)।
वाक्याध्याहारे यथा-
उपस्कृतं ब्रूते (वाक्याध्याहारेण ब्रूत इत्यर्थः)।
तदित्थं सुडागमं दृष्ट्वा तदर्थं निर्णेतुं शक्यते
(१३)."सम्पर्युपेभ्यः करोतौ भूषणे" (अष्टाध्यायी-६.१.१३७) इति सूत्रेण भूषणेऽर्थे "सम्-परि-उप" इत्युपसर्गत्रयपूर्वात् "डुकृञ् करणे" इति धातोः ककारात्पूर्वं सुडागमः क्रियते।तदुच्यते-
"सम् परि उप इत्येतेभ्यो भूषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति" इति (काशिका)।
यथा-
सँस्स्कर्ता,सँस्स्कर्तुम्,सँस्स्कर्तव्यम्।
परिष्कर्ता,परिष्कर्तुम्,परिष्कर्तव्यम्।
उपस्कर्ता,उपस्कर्तुम्,उपस्कर्तव्यम्।
तदेवं सुडागमं विलोक्य धात्वर्थनिर्णयं कर्तुं शक्यते।
(१४)."समवाये च"(अष्टाध्यायी६.१.१३८) इति सूत्रेण समवाये (समुदाये,सङ्घाते) अर्थे "सम्" इत्युपसर्गपूर्वः "डुकृञ्" इति धातोः सुडागमः भवति।सूत्रे चकारग्रहणात् पूर्वसूत्राद् "भूषणम्" इत्यर्थोऽपि अनुकृष्यते तथा परीत्युपसर्गोऽप्यनुवर्तते।
ततश्च सूत्रार्थो भवति-
भूषणे समवाये चार्थे सम्पर्युपसर्गपूर्वात् कृधातोः सुडागमो भवति। निगद्यते हि-
"संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे" इति (सिद्धान्तकौमुदी)।
भूषणार्थे तद्यथा- संस्करोति,अलङ्करोतीत्यर्थः।
समवायार्थे तद्यथा-संस्कुर्वन्ति, सङ्घीभवन्तीत्यर्थः।
सम्पूर्वस्य कृधातोः क्वचिदभूषणेऽपि सुडागमो भवति "संस्कृतं भक्षा:"(अष्टाध्यायी-४.२.१६) इतिपाणिनिसूत्रज्ञापकात्।
अत्र संस्कृतं नाम उत्कर्षाधानं प्रक्रियया परिवर्तनञ्च।अत्र पुनर्मानम्- "सत उत्कर्षाधानं संस्कारः" इति काशिकाकारवचनम्।
तदित्थं सिध्यति यत् सुडागमं संवीक्ष्य धात्वर्थनिर्णयो भवितुम् अर्हति नास्त्यत्र संशीतिः।
(१५)."अन्तरदेशे" (अष्टाध्यायी-८.४.२४) इति सूत्रेण अदेशार्थे अन्तःपश्चाद्वर्तिनः "हन हिंसागत्योः" इति धातोर्नकारस्य णकारादेशो भवति।तदुक्तम्-
"अन्तः शब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति अदेशाभिधाने" इति (काशिका)।यथा-
अन्तर्हण्यते,अन्तर्हणनं वर्तते।
तदेवम् अदेशार्थे "अन्तर्हणनम्" णकारादेशं तथा देशार्थे "अन्तर्हननम्" इत्यत्र णकारादेशाभावञ्च आदेशकार्यं दृष्ट्वा तदर्थनिर्णयं कुर्वन्ति बुधाः।
(१६)."सिध्यतेरपारलौकिके"
(अष्टाध्यायी-६.१.४९) इति सूत्रेण
"षिधु हिंसासंराध्योः" इति धातोः णौ परतोऽपारलौकिकर्थे( ऐहिलौकिकार्थे) एचः स्थाने आकारादेशो विधीयते।तदुच्यते-
"णाविति वर्तते।षिधु हिंसासंराध्योः इत्यस्य धातोरपारलौकिकेऽर्थे वर्तमानस्यैचः स्थाने णौ परत आकारादेशो भवति" इति (काशिका)।यथा-
अन्नं साधयति,अन्नं निष्पादयतीत्यर्थः।
तद्भिन्नार्थे तपस्तापसं सेधयतिज्ञानमस्य प्रकाशयतीत्यर्थः।
तदेवं षिधुधातोरेचः स्थाने
आकारादेशं तदभावञ्चावलोक्य तदर्थं निश्चिन्वन्ति लोकाः।
(१७)."प्रजने वीयतेः" (अष्टाध्यायी-६.१.५५)
इति सूत्रेण प्रजनार्थे णौ परतो वीधातोर्विभाषाकारदेशो भवति।अत्र
प्रजनो हि नाम जन्मन उपक्रमो गर्भग्रहणमित्यर्थः।
तदुक्तम्-"णाविति वर्तते।वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति" इति (काशिका)।
यथा-पुरोवातो गाः प्रवापयति, पुरोवातो गाः प्रवाययति,गर्भं ग्राहयतीत्यर्थः।
"प्रलम्भनशालिनीकरणयोश्च णौ नित्यमात्त्वम्" इति वार्तिकेन "विभाषा लीयते:"(अष्टाध्यायी-६.१.५१) इति सूत्रेण विभाषया प्राप्तमाकारादेशं प्रबाध्य
प्रलम्भनार्थे शालीनीकरणार्थे च णौ परतो लीधातोर्नित्यमेव आकारादेशो विधीयते।अत्र
प्रलम्भनं नाम विसंवादनम् अर्थात् मिथ्याफलाख्यानम् तथा
शालीनीकरणं नाम न्यग्भावनम् अभिभवनमित्यर्थोऽवबुध्यते।
सूत्रे यका निर्देशात् अत्र "लीङ् श्लेषणे"
(दिवादिगणीयः) ,"ली श्लेषणे"(क्र्यादिगणीयः) चोभयोरेव ग्रहणं भवति।अत्र मानम्-
"लीङ् श्लेषणे इति दिवादिः, ली श्लेषणे इति क्र्यादिस्तयोरुभयोरपि यका निर्देशः स्मर्यते" इति (काशिका)।
पुनश्च-
"प्रलम्भनशालीनीकरणयोश्च णौ नित्यमात्वं भवति।कस्त्वामुल्लापयते। श्येनो वर्तिकामुल्लापयते " इति (काशिका)।
तदित्थम् आकारादेशं संवीक्ष्य धात्वर्थंनिर्धारणं क्रियते।
(१८)."मीनातेर्निगमे" (अष्टाध्यायी-७.३.८१)
इत्यनेन सूत्रेण निगमार्थे(वेदविषये) मिनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वाकारादेशो भवति।तन्निगद्यते-
"मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये" इति (काशिका)।
निगमार्थे यथा-"प्रमि॑णन्ति व्र॒तानि॑"।तद्भिन्ने लोके यथा "प्रमीणन्ति"इति।
तदित्थम् ह्रस्वादेशकार्यं विलोक्य धात्वर्थनिर्णयं कर्तुं शक्यते।
"पूञो विनाश इति वक्तव्यम्"
"ल्वादिभ्यः (अष्टाध्यायी-८.२.४४) इति सूत्रेण "पूञ् पवने" (क्र्यादिगणः, उभयपदी, सकर्मकः सेट्) इति धातोरुत्तरस्य निष्ठातकारस्य नकारादेशे प्राप्ते "पूञो विनाश इति वक्तव्यम्" इति वार्तिकेन तत्प्रतिषिध्य एतन्नियम्यते यद् विनाशार्थ एव पूञ्धातोर्निष्ठातकारस्य नकारादेशो भवेत् नान्यस्मिन् अर्थे।विनाशार्थे यथा-पूना यवाः,विनष्टा इत्यर्थः।तद्भिन्नार्थे यथा-पूतं धान्यम्,विधूतमित्यर्थः।
तदाह-
"धातूनामनेकार्थत्वात्पूञ पवन इत्यस्य विनाशेऽपि वृत्तिः" इति (तत्त्वबोधिनी)।
तदेवं नकारादेशकार्यं विलोक्य पूधात्वर्थं निर्णेतुं शक्यते।
(१९)."वचोऽशब्दसञ्ज्ञायाम्"
(अष्टाध्यायी-७.३.६७)
"वाच्यम्"-
'उच्यते इति' व्युत्पत्त्या वचधातोर्ण्यति प्रत्यये परे "चजोः कुः घिण्यतोः"
(अष्टाध्यायी-७.३.५२)इति सूत्रेण चकारस्य कुत्वे(ककारादेशे) प्राप्ते
"वचोऽशब्दसञ्ज्ञायाम्"
(अष्टाध्यायी-७.३.६७)
इति सूत्रेण ककारादेशो निषिध्यते।भट्टोदजिदीक्षितः
सिद्धान्तकौमुद्यां तदाह-
"वचधातोर्ण्ये कुत्वं न,शब्दसंज्ञां वर्जयित्वेत्यर्थः" इति (सिद्धान्तकौमुदी)।तस्माद् वाच्यम्-प्रतिपादनीयम् (शब्दाभिधेयम्) कथनीयम् (वचनार्हम्) च बोधयति।कथनीये वाच्यप्रयोगो यथा-
तद्यथा-
"शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि"
(ब्रह्मवैवर्तपुराणम्-प्रकृतिखण्डः-४९)
अन्यत्र चोक्तम्-
“परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा"
(महाभारतम्,कर्णपर्व-३८.४२)।
प्रतिपादनीये(शब्दाभिधेये) वाच्यप्रयोगो यथा-
“अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः"
(साहित्यदर्पण:,द्वितीयः परिच्छेदः-२)
वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणयामतः।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्यशक्तयः॥"
इति(साहित्यदर्पण:,द्वितीयः परिच्छेदः-३)
तद्भिन्ने शब्दसञ्ज्ञार्थे तु पुनः कुत्वं भवत्येव।तस्माद्धि वाक्यमिति सिध्यति।यद्धि पददसमुदायार्थं शब्दसञ्ज्ञार्थं वेदयति।
तदाह-
"शब्दाख्यायां तु वाक्यम्" इति (सिद्धान्तकौमुदी)।
अन्यद्धि-
"एकतिङ् वाक्यमिति सञ्ज्ञाशब्दोऽयमिति भावः" इति बालमनोरमाकारो वार्तिककारवचनमुदाहरति।
तथाहि-
"तिङ्सुबन्तचयो वाक्यम्" इति तत्त्वबोधिन्याम् अमरसिंहवचनं प्रस्तौति।तत्र मानम्-
"तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता"(अमरकोशः-१.६.२)
अन्यत्र चोक्तम्-
"वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः"
(साहित्यदर्पण:-द्वितीयपरिच्छेदः-कारिका-२)
तस्माद् आख्यातं साव्ययं सकारकं सकारकविशेषणं वाक्यसंज्ञं भवतीति फलितार्थो भवति।
तदित्थं कुत्वे(ककारादेशे) कुत्वाभावे (कत्वादेशाभावे) चार्थपरिवर्तनं सुस्पष्टमेवाभाति।
(२०)."वेश्च स्वनो भोजने"
(अष्टाध्यायी-८.३.६९) इति सूत्रे चकाराद् "अवाच्चालम्बनाविदूर्ययोः"
(अष्टाध्यायी-८.३.६८)" इति पूर्वसूत्राद् 'अव' इत्यस्यानुकर्षणं क्रियते।ततः सूत्रार्थ एवमायाति-भोजनार्थे
"वि-अव" इत्युपसर्गद्वयपूर्वस्य स्वनधातोः सकारस्य मूर्धन्यादेशः स्यादिति।तदाह-
वेरुपसर्गादवाच्चोत्तरस्य भोजनार्थस्य स्वनतेः सकारस्य मूर्धन्यादेशो भवति।
अन्यद्धि-
"व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने" इति (सिद्धान्तकौमुदी)।
अत्र सूत्रे स्वनधातोर्भोजनार्थे निर्दिश्यते।परं पाणिनिधातुपाठे तु
"स्वन शब्दे" भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः पठ्यते। "पुनश्चायमर्थः कुतः" इत्याकाङ्क्षायामुच्यते-
"अनेकार्थत्वाद्धातूनां स्वनतिरत्राभ्यवहार क्रियाविशेषे वर्तते"
इति (न्यासः)।
अन्यत्र चोक्तम्-
"अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति" इति (काशिका)।
तदित्थं फलति यद्भोजनार्थे मूर्धन्यादेशस्तथा शब्दार्थे मूर्धन्यादेशाभावः।
भोजनार्थे यथा-विष्वणति, सशब्दं भूङ्क्त इत्यर्थः।
शब्दार्थे यथा-
विस्वनति मृदङ्गः,शब्दं करोतीत्यर्थः।
तदेवं मूर्धन्यादेशं दृष्ट्वा धात्वर्थनिर्णयं कर्तुं शक्यते।
(२१)."णौ गमिरबोधने"
(अष्टाध्यायी-२.४.४६) इति सूत्रेण णिचि प्रत्यये परे अबोधनार्थे
"इण् गतौ" इति धोतोः स्थाने "गम्" इत्यादेशः क्रियते।तदुच्यते-
"णौ परत इणोऽबोधनार्थस्य गमिरादेशो भवति।इकार उच्चारणार्थः" इति (काशिका)।
अन्यत्र चोक्तम्-
"इणो गमिः स्याण्णौ" इति (सिद्धान्तकौमुदी)।
अबोधनार्थे यथा- गमयति प्रापयतीत्यर्थः।
बोधनार्थे यथा-प्रत्याययतीति, बोधयतीत्यर्थः।
तदेवम् गम्यादेशरूपं दृष्ट्वा तदर्थं निर्णेतुं शक्यते।
"अवाच्चालम्बनाविदूर्ययोः"
(अष्टाध्यायी-८.३.६८) इति सूत्रेण आलम्बनाविदुर्ययोरर्थयोः 'अव'इत्युपसर्गात् स्तम्भधातोः सकारस्य स्थाने मूर्धन्यादेशो विधीयते।
अत्रालम्बनं नामाश्रयणम्।अत्र विदूरं विप्रकृष्टम्,ततोऽन्यदविदूरम्।
आविदुर्यं नामाविदूरस्य भाव आविदूर्यं सामीप्यमित्यर्थः।
तदुक्तम्-
"अवशब्दादुपसर्गादुत्तरस्य स्तन्भेः सकारस्य मूर्धन्य आदेशो भवत्यालम्बनेऽर्थ आविदूर्ये च" इति (काशिका)।
आलम्बने यथा-अवष्टभ्यास्ते, अवष्टभ्य तिष्ठतीत्यर्थः।
आविदूर्ये यथा-अवष्टब्धा सेना,
आसन्नेत्यर्थः।
एतद्भिन्नार्थे यथा-
अवस्तब्ध इति ,अभ्यर्दित इत्यर्थः।ष
तदित्थं सिध्यति यन्मूर्धन्यादेशरूपं कार्यं विलोक्यापि तदर्थं निर्णेतुं शक्यते।
(२२)."अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति-सातिसाहिभ्यश्च"
(अष्टाध्यायी-३.१.१३८) इति सूत्रे "लिप्-विद्" इत्येतौ धातू नुमागमसहितौ निर्दिष्टौ।तस्मादेवात्र "लिप उपदेहो"इति तुदादिगणीयो धातुरेव
गृह्यते।अत्रोपदेहो नाम वृद्धिः।एवं हि "विद्लृ लाभे" इति तुदादिगणीयो धातुरेव गृह्यते।
यतोहि विद्धातुरनेकेषु गणेषु पृथक्पृथगर्थेषु पठ्यते।अत्र नुमागमसहितनिर्देशात् लाभार्थकस्तुदादिगणीयो विद्धातुरेव गृह्यते।
अत्र प्रमाणं काशिकावचनम्-
"सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ, अतस्तौदादकयोरेव ग्रहणम् " इति (काशिका)।
अन्यद्धि-
"इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिष्टौ।तेन लाभार्थस्यैव विन्देग्रहणं, न तु सत्ताद्यर्थकानाम्।"
इति (तत्त्वबोधिनी)।
तदित्थं सिध्यति यत् नुमागमकार्यं दृष्ट्वापि धात्वर्धनिर्णयो भवत्येव नात्र संशयः समुदेति।
"अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानम्" इति वार्तिकेन
"लगि गतौ" (भ्वादिगणः परस्मैपदी सकर्मकः सेट्) इति धातोस्तथा "कपि चलने" (भ्वादिगण आत्मनेपदी अकर्मकः सेट्" इति धातोः उपतापे शरीरविकारे चार्थे किति ङिति परे नकारलोपो विधीयते।अत्र उपतापो नाम रोगस्तथा शरीरविकारो नाम देवविकारोऽङ्गविकारश्च।तदाह-
"उपतापो व्याधिः, शरीरविकारः शरीरस्यान्यथात्वम्" इति (न्यासः)।
उपतापशरीरविकरार्थयोर्यथा-
विलगितः,विकपितः।
तद्भिन्नार्थे विलङ्गितः,विकम्पितः ।
तदेवं लोपकार्यं दृष्ट्वा धात्वर्थनिर्णयं कर्तुं शक्यते।
"रञ्जेर्णौ मृगरमण उपसंख्यानं कर्तव्यम्" इति वार्तिकेन णौ परतः "रञ्ज रागे" इति धातोर्मृगरमणार्थे नकारलोपः सम्पाद्यते।अत्र मृगरमणं नाम मृगक्रीडेत्युच्यते।
मृगरमणार्थे यथा-रजयति मृगान्
रममाणान् मृगान् प्रयुङ्क्ते इत्यर्थः।
तद्भिन्नार्थे रञ्जयति रागं करोतीत्यर्थः।
तदेवं नलोपकार्यं दृष्ट्वा धात्वर्थनिर्णयं कर्तुं शक्यते।
(२३)."लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने" (अष्टाध्यायी-७.३.३९) इति सूत्रेण स्नेहविपातनेऽर्थे णौ परतो लीयतेः लातेश्च विकल्पेन क्रमपूर्वकौ नुग्लुकावागमौ भवतः।तदुच्यते-
"ली ला इत्येतयोरङ्गयोरन्यतरस्यां नुक् लुक् इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे" इति (काशिका)।
अन्यत्र चोक्तम्-
"लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे" इति (सिद्धान्तकौमुदी)
अत्र "लीयते" इत्यनेन लीलिङोरुभयोरपि ग्रहणम्। तदेवमत्र त्रयाणां धातूनां ग्रहणं भवति। तद्यथा-
१."ली श्लेषणे" इति क्र्यादिगणीयः परस्मैपदी अकर्मकोऽनिट् धातुः।
२."लीङ् श्लिषि" इति दिवादिगणः आत्मनेपदी अकर्मकोऽनिट् धातुः।
३."ला आदाने" इति अदादिगणीयः परस्मैपदी सकर्मकोऽनिट् धातुः।
एतेषां त्रयाणामपि स्नेहविपातनार्थोऽत्र गृह्यते।स्नेहविपातनं हि नाम विगच्छतः स्नेहस्य पातनं व्यापारणम्।तदुक्तम्-
"स्नेहस्य तैलस्य,निपातनं द्रावणम् इति (बालमनोरमा)।तद्यथा-
घृतं विलीनयति,घृतं विलाययति,घृतं विलालयति, घृतं विलापयति। द्रवीकरोतीत्यर्थः।
"प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम्" इति वार्तिकेन प्रलम्भनेऽभिभवे पूजायाञ्च अशिति प्रत्यये परे लीधातोर्नित्यमेवात्वं विधीयते।
अत्र प्रलम्भनं वञ्चनम्,अभिभवो न्यूनीकरणञ्चावबुध्यते।
तदित्थमागमकार्येणापि धात्वर्थभेदो भवतीति स्पष्टमेव।
(२४)."शदेरगतौ तः" (अष्टाध्यायी-७.३.४२) इति सूत्रेण अगत्यर्थे(गतिभिन्नार्थे) णौ परतः "शद्ऌ शातने" इति धातोरङ्गस्य स्थाने तकारादेशो विधीयते।
"शद्लृ शातने" (भ्वादिगणीयः परस्मैपदी अकर्मकोऽनिट् ) इति।क्षीरतरङ्गिण्यां "शातनं तनूकरणम्" इति तदर्थं निरूप्यते।
कविकल्पद्रुमे तु "शद्लृ शाते" इति पठ्यते।तत्र शातो नाम पतनं पातनञ्चेति तदर्थो निर्दिश्यते।
तदुच्यते-
"शदेरङ्गस्यागतावर्थ वर्तमानस्य तकारादेशो भवति णौ परतः" इति (काशिका)।
अगत्यर्थे यथा-पुष्पाणि शातयति।
गत्यर्थे यथा-गाः शादयति गोपालकः।
"श्यतेरित्त्वं व्रते नित्यम् इति वक्तव्यम्"
इति वार्तिकेन तकारादौ किति प्रत्यये परे व्रतार्थे "शो" इति धातोरङ्गस्य नित्यमिकारादेशो विधीयते।अत्र मानम्-
"व्रतविषये श्यतेर्नित्यमित्त्वं भवति" इति (न्यासः)।
यथा-संशितं व्रतम् सम्यक्सम्पादितमित्यर्थः। संशितो ब्राह्मणः व्रतविषयकयत्नवानित्यर्थः।
अत्र "शो तनूकरणे" इति दिवादिगणः परस्मैपदी सकर्मकोऽनिट् इति धातुः। कविकल्पद्रुमे "शो निशाने" इति पठ्यते।निशानमिहाल्पीकरणम्।
तदित्थम् इकारादेशं दृष्ट्वा परिवर्तितधात्वर्थं निर्णेतुं शक्यते।
उपर्युक्तानां सूत्राणां वार्तिकानाञ्च विविचनेनेदं सिध्यति यद् आगमादेशलोपैः धातुपाठे निर्दिष्टधात्वर्थात् भिन्नाः धात्वर्थाः प्रकाश्यन्त इति मन्मतिः
Comments
Post a Comment