आदेशविचार

"आदेशः"- आङुपसर्गपूर्वको दिशधातुराज्ञार्थे वर्णस्य वर्णान्तरोत्पत्त्यर्थे प्रकृतिप्रत्ययोपघातिकार्य्यार्थे च लभ्यते।आज्ञार्थे दिशधातुस्तत्रादौ-
“आदेशं देशकालज्ञः शिष्यः शासितुरानत।"
       (रघुवंशम्-१.९२)
तथाहि-'शिष्यः गुर्वादेशं पालयति' इति।

आदिश्यते यः स आदेश इति व्युत्पत्त्या वर्णस्य स्थाने अन्या वर्णान्तरोत्पत्तिरादेशो भवति।
तदुक्तम्-"स्थानिवदादेशोऽनविधौ"(अष्टाध्यायी-१.१.५६),
"आदेशप्रत्यययोः"(अष्टाध्यायी-८.३.५९)
तथाहि-
"सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।"
(महाभाष्यम्,वाक्यपदीयम्)
अन्यत्रापि-
"धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्।” 
(रघुवंशम्-१२.५८

आगमादेशयोर्मध्ये बलीयानागमोविधिः” व्या० कारि० “स्थानि- वदादेशोऽनल्विधौ” पा० “लोपोऽप्यादेशौच्यते” व्या० का०

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)