अव्ययसञ्ज्ञकशब्देषु निहितधात्वर्थाः
"अव्ययः,अव्ययञ्च" इति शब्दोऽनेकार्थेषु लभ्यते।तद्यथा
"अव्ययः"-नास्ति व्ययः(विकारः) यस्य सः परमपुरुषोऽविनाशी विकारशून्यो नित्यो व्यापको विष्णुरवबुध्यते।विष्ण्वर्थे तद्यथा-
"नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे।
पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च।।”
(मार्कण्डेयपुराणम्)
अन्यद्धि-
"वेदाविनाशिनं नित्यं य एनमजमव्ययम्"
(श्रीमद्भगवद्गीता-२.२१)
अव्ययं नामानाद्यन्तं विकारशून्यं त्रिगुणातीतं व्यापकस्वरूपं नित्यमेकवदवस्थानं परब्रह्मेति।
परब्रह्मार्थेऽव्ययं पुनर्यथा-
अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम्।
अरूपगुणवर्णाख्यं तद् ब्रह्मेत्यवधारयेत्॥
(आत्मबोधः)
अन्येष्वर्थेष्वपि अव्ययशब्दो लभ्यते।मानञ्चात्र पुनः कोशवचनम्-
"वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी।
विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्॥"
(अमरकोशः-१.२.२)
"अव्ययम्"- यन्न व्येति (विकारं परिवर्तनं वा एति) तद् अव्ययम्।सर्वथा विकारशून्यं सर्वत्रैव समानरूपं
यत्पदं भवति तदव्ययमिति निगद्यते।व्याकरणनये तु शब्दशास्त्रीयसञ्ज्ञाविशिष्टम् अव्ययम्।यद्धि पदं सर्वासु विभक्तिषु सर्वेषु वचनेषु सर्वेषु लिङ्गेषु च समानमेव रूपमाधत्ते।न कदापि व्येति विकारं गच्छति,स्वस्वरूपे परिवर्तनमानयति तदव्ययनाम्ना कीर्त्यते।महर्षपाणिन्यनुसारं तद्धि-
"स्वरादिनिपातमव्ययम्" (अष्टाध्यायी-१.१.३७) इति सूत्रादारभ्य "अव्ययीभावश्च"(अष्टाध्यायी-१.१.४१) इति सूत्रं यावत् पञ्चसु सूत्रेषु अव्ययसञ्ज्ञा व्यपदिश्यते।तद्धि-
"स्वरादिनिपातमव्ययम्"(अष्टाध्यायी-१.१.३७) ,
"तद्धितश्चासर्वविभक्तिः" (अष्टाध्यायी-१.१.३८),
"कृन्मेजन्तः" (अष्टाध्यायी-१.१.३९)
"क्त्वातोसुन्कसुनः" (अष्टाध्यायी-१.१.४०),"अव्ययीभावश्च"
(अष्टाध्यायी-१.१.४१) इत्येतैः पाणिनिसूत्रैर्या सञ्ज्ञा सम्पाद्यते सा अव्ययसञ्ज्ञा निगद्यते।
तदुच्यते काशिकायाम्-अव्ययमित्यन्वर्थसंज्ञा।
अन्यद्धि-
"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥"
(गोपथब्राह्मणम्-१.१.२६)
अन्यत्र चोक्तम्-
अव्ययम् इति महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत। लिङ्गकारकसङ्ख्या विशेषानुपादान्न व्येति विविधत्वं न गच्छतीत्यव्ययम्।
अव्ययसञ्ज्ञकशब्देषु धात्वर्थः(क्रिया) सन्निहिता भवति।तदेव तावदत्र विचार्यते-
"अलम्" इत्यव्ययं भूषणं पर्याप्तिं(प्राचूर्यम्) सामर्थ्यं(शक्तिम्) प्रतिषेधं(वारणं निषेधम्) चानेकान् अर्थान् बोधयति।
भगवता पाणिनिनापि अष्टाध्यायीसूत्रेषु तदुल्लेखः प्राप्यते।१.भूषणार्थे यथा-
"भूषणेऽलम्"(अष्टाध्यायी-१.४.६४)।
तथाहि-
"अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद-रुच्यपत्रपवृतुवृधुसहचर इष्णुच्"
(अष्टाध्यायी-३.२.१३६)।
२.पर्याप्त्यर्थे(प्राचूर्यार्थे) यथा-
"नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च" (अष्टाध्यायी-२.३.१६) इति सूत्रे महाभाष्ये "अलमिति पर्याप्त्यर्थग्रहणम्" इति वार्तिकं पठ्यते।एतत्सूत्रव्याख्यायां काशिकायां वृत्तौ पुनरुक्तम्-"अलं मल्लो मल्लाय।अलमिति पर्याप्त्यर्थग्रहणम्" इति (काशिका)।
तदेवम् अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः।
तस्मादेव सिद्धान्तकौमुद्यां कारकप्रकरणे पुनरिदं व्याख्यायते-
"अलमिति पर्याप्त्यर्थग्रहणम् ।तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि"भूषणार्थे मनुर्यथा-
"अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते"
(मनुस्मृतिः-३/२८)
निषेधार्थे(वारणार्थे)अलं यथा-
"अलं विवादेन यथाश्रुतं त्वया तथाविधस्तावदशेषमस्तु सः"
(कुमारसम्भवम्-५.८२)
अन्यद्धि-
"अलं विवादेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली॥
(महानाटकम्)
तथाहि-
"अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य॥"
(रघुवंशम्-2.34) इति (सिद्धान्तकौमुदी)।
अत्र प्रमाणम्-
"अलं भूषणपर्याप्तिशक्तिवारणवाचकम् " (अमरकोशः-३.३.२६७)।
अन्यत्रापि-
"अभावे नह्य नो नापि मास्म मालं च वारणे" (अमरकोशः-३.४.११)।
"अन्तरपरिग्रहे"(अष्टाध्यायी-१.४.६५) इति सूत्रे "अन्तर्" इत्यव्ययम् अपरिग्रहार्थे पठ्यते।अत्र परिग्रहो नाम स्वीकारः,अपरिग्रहो नामास्वीकारः।तदाह-
"अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसंज्ञो भवति।परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते" इति (काशिका)।
अव्ययसञ्ज्ञकोऽन्तःशब्दः मध्ये अधिकरणभूते परिग्रहे चापि स्मर्यते। तदुच्यते-
"अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते,परिग्रहे च।तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः,स परिग्रहेऽप्यव्ययसंज्ञार्थः" इति (न्यासः)।
"अस्तं च"(अष्टाध्यायी-१.४.६८)
इति सूत्रे समुपदिष्टम् "अस्तम्" इत्यव्ययम् अनुपलब्ध्यर्थे लभ्यते।यथा-अस्तङ्गत्येति,तिरोधानं प्राप्येत्यर्थः।
अत्र मानम्-
"अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते, स गतिसंज्ञो भवति" इति (काशिका)।
अन्यत्र चोक्तम्-
"अस्तंशब्दो मकारान्तोऽव्ययम् इति। अव्ययमित्यत एव विशेषणोपादानससामर्थ्याददव्ययत्वं विज्ञेयम्।चादेशकृतिगणत्वाद्वा" इति
(न्यासः)।
तथाहि-
"अस्तमिति मान्तमव्ययं गतिसञ्ज्ञं स्यात् "इति (सिद्धान्तकौमुदी)।
काव्यादिग्रन्थेष्वपि अस्तमित्यव्ययम् अनुपलब्ध्यर्थे(अभावार्थे) दृश्यते। तद्यथा-
"विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम्"
(रघुवंशम्-१२.११)।
अन्यद्धि-
"गतोऽस्तमर्कः" इति (काव्यप्रकाश:)
अत्र कोशवचनमपि प्रमाणम्-
"सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने"
इति (अमरकोशः-३.४.१७) ।
"अच्छ गत्यर्थवदेषु"
(अष्टाध्यायी-१.४.६९) इति सूत्रे निर्दिष्टम् "अच्छ" इति शब्दः अव्ययसञ्ज्ञो विद्यते।
अच्छम्-
"न च्छ्यति सम्मुखत्वात् दृष्टिं नावृणोति" इति व्युत्पत्त्या "छो छेदने" (दिवादिगणीयः परस्मैपदी सकर्मकोऽनिट्) इति धातोः
घञर्थे कप्रत्यये ततो नञ्तत्पुरुषसमासे सति सिद्धो भूत्वा आभिमुख्यं साम्मुख्यञ्चार्थं वेदयति। अस्य धातोः गत्यर्थे उक्तार्थे च गतिसञ्ज्ञानेन सूत्रेण विधीयते।
अत्र मानम्-
"अच्छशब्दोऽव्ययमभिशब्दस्यार्थे वर्तते।स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति" इति (काशिका)।
अन्यत्र चोक्तम्-
"अभिराभिमुख्ये अच्छोद्य" इति (न्यासः)।
अत्र "अच्छोद्य" इत्यस्य अभिमुखं गत्वा उक्त्वा चेत्यर्थः।
"च"- 'च' इत्यव्ययपदम् अनुकर्षणम् अनुवर्तनम् ,अवधारणं समुच्चयान्वाचय-
इतरेतरयोगसमाहारांश्चानेकान् अर्थान् वेदयति।तन्निगद्यते-
"अस्तं च" (अष्टाध्यायी-१.४.६८) इति सूत्रव्याख्याक्रमे न्यासकारेण जिनेन्द्रबुद्धिना प्रतिपाद्यते-
"चकारः अव्ययम् इत्यस्यानुकर्षणार्थः" इति (न्यासः)।
"खरि च" (अष्टाध्यायी-८.४.५५) इति सूत्रे न्यासकारो ब्रूते-
"समुच्चयार्थश्चकारः" इति (न्यासः)।
"चिन्तिपूजिकथिकुम्बिचर्चश्च"
(अष्टाध्यायी-३.३.१०५) इति सूत्रव्याख्यायां तत्त्वबोधिन्यां प्रतिपादितम् -
"चकारोऽनुक्तसमुच्चयार्थः" इति।
"चार्थे द्वन्द्वः" (अष्टाध्यायी-२.२.२९) इति सूत्रव्याख्यायां काशिकावृत्तौ-
"समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः" इति (काशिका)।
अत्र समुच्चितिर्नाम समुच्चयः।
तदाह-
१."यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः।
२.यदानेकस्य प्राधान्यात्तदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः।
३.इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति।
४ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः" इति (पदमञ्जरी)।
अर्थात् परस्परापेक्षाणामेव तिरोहितावयवभेदः संहतिप्रधानः समाहारः।
अन्यत्र चोक्तम्-
"परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः।अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः। मिलितानामन्वय इतरेतरयोगः।समूहः समाहारः" इति (सिद्धान्तकौमुदी)।
समुच्चितिः समुच्चयः प्राधान्येन क्वचित् क्रियाविषयेऽनेकस्य चीयमानता।
"चादिषु च" (अष्टाध्यायी-८.१.५८) इति सूत्रे न्यासे-
"चशब्दो गतेरित्यस्यानुकर्षणार्थः" इति (न्यासः)।
"चादयोऽसत्त्वे" (अष्टाध्यायी-१.४.५७)
इति सूत्रे न्यासे-
"चशब्दोऽवधारणे" इति (न्यासकारः)।
"न चवाहाहैवयुक्ते"
(अष्टाध्यायी-८.१.२४)
इति सूत्रे न्यासे-
"इहैते चादयः समुच्चयादिना द्योत्येनार्थेनार्थवन्तः" इति (न्यासकारः)।
"चानुकृष्टं न सर्वत्र" इत्यत्र चशब्देन अनुकर्षणम् अनुवर्तनञ्चावबुध्यते।
तदेवं सिध्यति यत् "च" इत्यव्ययपदम् अनेकार्थेषु व्याकरणसूत्रेषु तद्व्याख्यानग्रन्थेषु च लभ्यते।विस्तारभयात् केषाञ्चन सूत्राणां तद्व्याख्यानानामत्रोल्लेखः सारतयात्र प्रस्तुतम्।
"चवायोगे प्रथमा" (अष्टाध्यायी-८.१.५९) इति सूत्रे "च" इत्यव्ययं समुच्चयार्थे,तथा "वा" इत्यव्ययं विकल्पार्थे वर्तते।न्यासकारेण जिनेन्द्रबुद्धिना प्रतिपाद्यते-
"इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे" इति (न्यासः)।
"न चवाहाहैवयुक्ते"
(अष्टाध्यायी-८.१.२४) इति सूत्रे "च" इति समुच्चयार्थे,"वा" इति विकल्पार्थे,"ह" इति अद्भुतार्थे(विस्मयार्थे) खेब्दार्थे(दुःखार्थे) च, "अह" इति अद्भुतार्थे(आश्चर्यार्थे) तथा "एव" इत्यवधारणार्थे लभ्यन्ते।तदुक्तम्-
"चः समुच्चये,वा विकल्पे,
ह अहेत्यद्भुते, ह खेदे च,एवोऽवधारणे" इति (पदमञ्जरी)।
अन्यत्र चोक्तम्-
"च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे" इति (बालमनोरमा)।
"एवे चानियोगे" इति वार्तिके "एव" इत्यव्ययपदम् अनियोगार्थे वर्तते।
अनेन वार्तिकेन अवर्णादुपसर्गाद् अनियोगार्थके "एव" इति परे पररूपमेकादेशो विधीयते।अत्र
नियोगो नामावधारणम्,न नियोगः इत्यनियोगोऽनवधारणमित्यर्थः।तदाह-
"नियोगोऽवधारणम्"।यथा-क्वेव भोक्ष्यसे अनवकॢप्तावेवशब्दः" इति (सिद्धान्तकौमुदी)।
"यावद्"-
"यावदवधारणे"(अष्टाध्यायी-२.१.८) इति सूत्रे "यावद्" इति अव्ययपदं सूत्रकृन्मतेऽवधारणार्थे वर्तते।अवधारणं नाम परिच्छेदकम् (परिमाणम्) सङ्ख्यानिश्चयश्च।अत्र मानम्-अवधारणमियत्तापरिच्छेदः। "यावद् अमत्रं ब्राह्मणानामन्त्रयस्व। यावन्ति पात्राणि सम्भवन्ति पञ्च षड् वा तावत आमन्त्रयस्व" इति (काशिका)।
तद्व्याख्याने न्यासे पुनरिदमुच्यते-
"इयत्तापरिच्छेदः इति।इयतो भावः। इयत्ता परिमाणम्,तस्याः परिच्छेदो निश्चयः" इति (न्यासः)।
अन्यत्रापि एतदुल्लेखः प्राप्यते-
"यावद्वित्तोपार्जनशक्तः तावन्निजपरिवारो रक्तः"
(मोहमुद्गरस्तोत्रम्)
"अनु"-
"अनुर्यत्समया" (अष्टाध्यायी-२.१.१५)
इति सूत्रे भगवान् पाणिनिः "अनु" इत्यव्ययपदम् समीपार्थे समपदिशति। अत्र प्रमाणम्-
"समया समीपम्।अनुर्यस्य समीपवाची,तेन लक्षणभूतेन सह विभाषा समस्यते,अव्ययीभावश्च समासो भवति" इति (काशिका)।
पुनस्तद्व्याख्याने न्यासकारो ब्रूते-
"समयाशब्दस्य मुख्योऽर्थः सामीप्यम्" इति (न्यासः)।
पुनस्तत्रैव-
"सामीप्ये हि वर्तमान-
समयाशब्दोऽसत्ववाचित्वादव्ययम्"
इति (न्यासः)।
"समया"-"अनुर्यत्समया"(अष्टाध्यायी-२.१.१५) इति सूत्रे,
"अभितः-परितः-
समयानिकषाहाप्रतियोगेऽपि" इति वार्तिके चोपदिष्टं "समया" इत्यव्ययपदं समीपार्थे वर्तते।तद्यथा-
"समया समीपम्" इति (काशिका)।
तथाहि-
"सामीप्ये हि वर्तमान-
समयाशब्दोऽसत्ववाचित्वादव्ययम्"
इति (न्यासः)।अत्र पुनर्मानम् अमरसिंहवचनमपि-
"समयान्तिकमध्ययोः"
(अमरकोशः-३.३.२६७)।
पुनस्तत्रैव-
"समया निकषा हिरुक्" इति
(अमरकोशः-३.४.७)।
अन्यत्रापि-
"समया निकटे मध्ये मध्ये च निकषान्तिके"
इति (रुद्र:)।
तदेवं सिध्यति यत् "समया" इत्यव्ययशब्दो सामीप्ये(अन्तिके निकटे वा) मध्ये चेत्यर्थद्वये लभ्यते।
"निकषा"-"
"अभितःपरितः- समयानिकषाहाप्रतियोगेऽपि" इति वार्तिके निर्दिष्टं "निकषा" इत्यव्ययपदं समीपार्थे वर्तते।मानञ्चात्र पुनः-
"समया निकषा हिरुक्"
(अमरकोशः-३.४.७)।
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके"
(अमरकोशः-३.४.१९)
अन्यत्र चोक्तम्-
"समया निकटे मध्ये मध्ये च निकषान्तिके।"
इति (रुद्रः)।
"तिरोऽन्तर्द्धौ"
(अष्टाध्यायी-१.४.७१) इति सूत्रे "तिरः" इति अव्ययपदं अन्तर्द्धौ(अन्तर्द्धाने) निर्दिश्यते।अत्र अन्तर्द्धिपदेनादर्शनं व्यवधानञ्चावबुध्यते।
तदुच्यते-
"अन्तर्धिर्व्यवधानम्" इति (काशिका)। अमरसिंहोऽपि जगाद-
"तिरोऽन्तर्धौ तिर्यगर्थे" इति
(अमरकोशः-३.३.२७१)
तदेवं सिध्यति यत् "तिरः" इति अव्ययशब्दः "अन्तर्धानम्" इति धात्वर्थं वेदयति।
"तिरः"-'तिरस्' इत्यव्ययम् 'अन्तर्धानम्' इत्यर्थं बोधयति।अत्र पाणिनिकृतं सूत्रमेव प्रमाणम्।तदाह-
"तिरोऽन्तर्द्धौ"(अष्टाध्यायी-१.४.७१) इति।एतत्सूत्रव्याख्यायां काशिकायां पुनरिदमुच्यते-"अन्तर्धिर्व्यवधानम्।
तत्र तिरःशब्दो गतिसंज्ञो भवति"
इति (काशिका)।यथा-
देवस्तिरो भवति,अन्तर्धानं भवतीत्यर्थः,देवो नयनपथाद्व्यवधानयी भवतीत्यर्थः।
कोशग्रन्थे तु तिरस् इति पदं तिर्यगर्थेऽपि वर्तते।सर्पस्तिरो गच्छति सर्पः वक्रं गच्छतीत्यर्थः।
अत्र प्रमाणं कोशवचनमपि-
"तिरोऽन्तर्धौ तिर्यगर्थे" इति
(अमरकोशः-३.३.२७१)।
"न वेति विभाषा"
(१.१.४४) इति सूत्रे समुपदिष्टे "न,वा" इत्यव्ययपदे वर्तेते।अत्र "न" इति निषेधार्थे(वारणार्थे,प्रतिषेधार्थे),
"वा" इति विकल्पार्थे(पक्षान्तरविधीयमानार्थे) चोपदिश्येते।अनयोरव्ययपदयोः सूत्रेणानेन विभाषासञ्ज्ञा क्रियते।
अत्र मानम्-
"नेति प्रतिषेधो वेति विकल्पः,तयोः प्रतिषेधविकल्पयोर्विभाषेति संज्ञा भवति। इतिकरणोऽर्थनिर्देशार्थः। विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते।तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते" इति (काशिका)।
तथाहि-
"निषेधविकल्पयोर्विभाषा सञ्ज्ञा स्यात्" इति (सिद्धान्तकौमुदी)।
निषेधार्थे नशब्दो यथा-
"नैकः सुप्तेषु जागृयात्”, “तिष्ठतु देवो न सविता” इति।
पाणिनिसूत्रेषु वाशब्दो विकल्पार्थे पक्षान्तरविधीयमानार्थे समुपलभ्यते।तद्यथा-
"वा क्यषः" (अष्टाध्यायी-१.३.९०) इति सूत्रे न्यासकारः पुनराह-
"विकल्पितम् इति विभाषितम्, पाक्षिकमित्यर्थः" इति (न्यासः)।
कोशग्रन्थे तु वाशब्दो विकल्पार्थे उपमानार्थे अवधारणार्थे च लभ्यते।एष्वर्थेषु गणरत्ने उदाहृतं यथा विकल्पे-"यवैर्वा व्रीहिभिर्वा यजेत।" उपमाने-"सिन्धौ वाधोमण्डलं गोर्वा रसः।"
अवधारणे-“सा वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम” न तृतीयेत्यर्थः। समुच्चये-"वायुर्वा दहनो वा।"
अत्र मानम्-
"उपमायां विकल्पे वा"
(अमरकोशः-३.३.२६४)।
पुनश्च-
"व वा यथा तथेवैवं साम्येऽहो ही च विस्मये"
(अमरकोशः-३.४.९)।
पुनस्तत्रैव-
"वेत्यवधारणवाचकाः"
(अमरकोशः-३.४.१५)।
"नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च" (अष्टाध्यायी-२.३.१६)
इति सूत्रे "१.नमः,२.स्वस्ति,३.स्वाहा ४.स्वधा,५.अलम्,६.वषट् " इति षट् अव्ययपदानि सन्ति।
१."नम:"-"नमस्"-"णम प्रह्वत्वे शब्दे" (भ्वादिगणः परस्मैपदी, सकर्मकोऽकर्मकश्चानिट्)
इति धातोर्भावे असुन् प्रत्यये सति सिध्यति।अत्र प्रह्वत्वं नाम नम्रत्वम्।
कविकल्पद्रुमे तु "णम शब्दनत्योः" इति पठ्यते।शब्दार्थे अकर्मकः,नतीत्यर्थे सकर्मकश्चायं धातुः।तत्र शब्दार्थो न भाषायाम्।नतिरिह नमस्कारो नम्रीभावश्चेत्यर्थो निर्दिश्यते।तस्मान्नतिर्नाम नमनं स्वापकर्षबोधकव्यापारश्च
असुन् प्रत्ययो भावार्थे अर्थात् स्वार्थ एव विहितस्तस्मादत्र प्रत्ययस्य न कश्चन विशिष्टार्थो भवति उतायं प्रत्ययः प्रकृत्यर्थे(स्वार्थे,भावार्थे) एव भवति।
तस्माद्धि "नमस्" इति नत्यर्थं नम्रीभवत्यर्थं वेदयति।
नमश्शब्दः त्यागसमर्पणार्थमपि वेदयति।तन्मिथिलाक्षेत्रे पुजनादौ दृश्यते।यथा-
"इदं पुष्पम्,इदं दुर्वादलम् ,इदं तुलसीपत्रम् ॐ भगवते श्रीविष्णवे नमः,इदं चन्दनं,इदं गन्धधूपादिकम्
ॐ साम्बसदाशिवाय नमः,
इदमक्षतं इदं बिल्वपत्रम्,इदं नैवैद्यं ॐ
भगवत्यै श्रीदुर्गादेव्यै नमः" इत्यादिषु पूजनवाक्येषु तत्तत्पूजनसामग्रयः
तत्तद्देवेभ्यः समर्प्यन्त इति भावः।
पुष्पं विष्णवे नम इत्यादौ विष्णूद्देश्यकमन्त्रकरणकत्यागविषयः।
यथाह शब्दशक्तिप्रकाशिकायाम्-
“पुष्पमिदं विष्णवे नम इत्यस्य विष्णूद्देश्यक मन्त्रकरणत्यागस्य कर्मेदं पुष्पमित्यर्थस्तथ चतुर्थ्या प्रीत्युद्देश्यकत्वं तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणत्यागे बोध्यते प्रकृत्यर्थस्य च विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः" इति (शब्दशक्तिप्रकाशिका)।
२."स्वस्ति"-"स्वस्ति मङ्गलाशीर्व्वादपापनिर्णेजनादिषु" इति भागुरिः।
अन्यत्र चोक्तम्-
"स्वस्त्याशीः क्षेमपुण्यादौ (अमरकोशः-३.३.२५६)
३."स्वाहा"-स्वाहेति देवोद्देश्यकं द्रव्यदानम्
इष्टपदार्थत्यागः,भोग्यवस्तुसमर्पणं वेति।
।यथा-"अग्नये स्वाहा" इत्यस्य
अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः।
४."स्वधा"-स्वधेति पित्रुद्देश्यकं द्रव्यदानम्,पितृनिमित्तं तदिष्टभूतं पिण्डादिसमर्पणं
पितृसम्प्रदानकः श्राद्धीयक्रव्यत्यागः।यथा-"पितृभ्यः स्वधा" इत्यस्य
पित्रुद्देश्यकं द्रव्यदानमित्यर्थः।
५."अलम्"-अलमिति पर्याप्त्यर्थग्रहणम्।यथा-
दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि।
६."वषट्"-वषडिति देवहविर्दानम्।
तदाह-
"स्वाहा श्रौषट् वौषट् वषट् स्वधा एते पञ्चशब्दा देवहविर्द्दाने वह्निमुखहुतौ वर्त्तन्ते।देवाय हविषो दानं देवहविर्द्दानं तत्र देवा इन्द्रादयः" इति (शब्दकल्पद्रुमः)।अत्र मानम्-
"स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा"
(अमरकोशः-३.४.८)।
यथा-"इन्द्राय वषट्" इत्यस्य इन्द्रोद्देश्यकं हविर्दानमित्यर्थः।
"पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्"
(अष्टाध्यायी-२.३.३२)
इति सूत्रे निर्दिष्टानि
१.पृथक्,२.विना,३.नाना इत्येतानि अव्ययपदानि सन्ति।
१."पृथक्"-पृथगिति अव्ययशब्दः भिन्नार्थे(भेदार्थे),अनेकार्थे(नानार्थे),
विना(वर्जनार्थे) च लभ्यते।
२."विना"- विनेति अव्ययपदं वर्जने लभ्यते।
३."नाना"-नानेति अव्ययं
वर्जनार्थे अनेकार्थे च लभ्यते। "पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित्" इति बालमनोरमायां प्रतिपाद्यते।
अन्यत्र चोक्तम्-
"इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहुः ।पृथङ्नानाञ्भिस्तृतीयान्यतरस्याम् इति सुवचम्" इति (तत्त्वबोधिनी)।
यथा-रामं रामेण रामात् पृथक् सुखं नास्ति,रामं रामेण रामाद् विना सुखं नास्ति,
रामं रामेण नाना सुखं नास्ति"
इत्यादिषु स्थलेषु वर्जनार्थ एव "पृथग्विनानाना" इति त्रीण्यपि अव्ययपदानि प्रयुक्तानि सन्ति।तस्मादेतेषां रामस्य वर्जने सुखं नास्तीत्यर्थः फलति।
अत्र पुनर्मानं कोशवचनमपि-
"पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने" (अमरकोशः-३.४.३)।
"अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा" (अष्टाध्यायी-३.४.१८) इति सूत्रे विद्यमाने "अलम्-खलु" इत्येते अव्यये प्रतिषेधार्थे वर्तेते।तदुच्यते- अलं खलु इत्येतयोः "प्रतिषेधवाचिनोरुपपदयोर्धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन"
इति (काशिका)।
अन्यत्र चोक्तम्-
"प्रतिषेधवाचिनोः इति। प्रतिषेधयोरित्यस्येदं विवरणम्।एतेन प्रतिषेधवाचित्वादलंखलुशब्दौ सूत्रे प्रतिषेधशब्देनोक्ताविति दर्शयति।" इति (न्यासः)।
अत्र प्रतिषेधो नाम निषेधो वारणञ्चेत्यर्थः।अलङ्कारशब्दे तु अलमित्यव्ययं भूषणार्थे विद्यते।न्यसकारस्तदाह-
"अलङ्कारः इति।भावे घञ्। भूषणवचनोऽत्रालंशब्दः" इति (न्यासः)।
अत्र मानम्-
"अलं भूषणपर्याप्तिशक्तिवारणवाचकम्"
(अमरकोशः-३.३.२६७)।
पुनश्च
"अभावे नह्य नो नापि मास्म मालं च वारणे"
(अमरकोशः-३.४.११)
खलुविषयकं मानं पुनस्तत्रैव-
"निषेधवाक्यालङ्कारजिज्ञासानुनये खलु"
(अमरकोशः-३.३.२७०)।
अन्यत्र चोक्तम्-
"निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्"
(शिशुपालवधम्-२.७०)।
अत्राद्यखलुशब्दः प्रतिषेधार्थे द्वितीयः वाक्यालङ्कारे च” इति तट्टीकायां मल्लिनाथेन व्याख्यायते।
जिज्ञासार्थे खलुशब्दो
यथा-“स खल्वधीते वेदम्" इति (गणरत्नम्)।
अनुनयार्थे खलुशब्दो यथा-
“न खलु न खलु मुग्धे ! साहसं कार्य्यमेतत्” (गणरत्नम्)।
तथाहि
"न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्,
मृदुनि मृगशरीरे तूलराशाविवाग्निः।"
(अभिज्ञानशाकुन्तलम्-१.१०)।
निश्चयार्थे(अवधारणार्थे) खलुशब्दो यथा-
"न खलु धीमतां कश्चिदविषयो नाम"
(अभिज्ञानशाकुन्तलम्,चतुर्थाङ्के शारङ्गरवः)
अन्यत्र चोक्तम्-
“दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने"
(कुमारसम्भवम्-४.२८)।
तथाहि-
"प्रवृत्तिसाराः खलु मादृशां धियः"
(किरातार्जुनीयम्-१.२५) इत्युदाहृत्य गणरत्नकारस्तदाह-
प्रवृत्तिसारा एवेत्यर्थः” (गणरत्नम् )।
पादपुरणार्थेऽपि खलुशब्दो लभ्यते।तद्यथा-
“वध्याः खलु न वध्यन्ते सचिवास्तव रावण।
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्व्वशः॥
(रामायणम्३.४१.६)।
"पृथक्"-पृथगिति अव्ययशब्दः भिन्नार्थे (भेदार्थे) वर्जनार्थे च वर्तते।
"पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्"(अष्टाध्यायी-२.३.३२) इति सूत्रव्याख्यायां तदुच्यते-
"पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित्।"
अमरसिंहमते तु वर्जनार्थकं पृथगित्यव्ययं वर्तते।तदुच्यते
"पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने"
(अमरकोशः-३.४.३)
तदित्थं भेदार्थे -पृथक् रामं रामेण रामाद्वा इत्युक्ते रामप्रतियोगिकभेदवानित्यर्थः।
अन्यत्र चोक्तम्-
"शङ्खान् दध्मुः पृथक् पृथक्"
(श्रीमद्भगवद्गीता-१.१८)
वर्जनार्थे-
पृथक् रामं रामेण रामात् सुखं नास्ति इत्युक्ते रामस्य वर्जने सुखं नास्तीत्यर्थः।
"ऋते" -'ऋते' इत्यव्ययपदमपि वर्जनार्थकं वर्तते।
"हिरुक्"-हिरुगिति अव्ययमपि क्रियाविशेषणं वर्जनार्थवाचकमस्ति।
तदाह-
"पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने" (अमरकोशः-३.४.३)
"क्रियावाचकं हिरुक् पदम्" इति व्यवहारो भवति।तत्र कारणमस्ति यत् हिरुगादि केवलं क्रियाया विशेषणरूपेणैव प्रयुक्तं भवति। परमलघुमञ्जूषायां नागेशभट्टस्तदाह-
"हिरुगाद्यव्ययानां साध्यत्वाभावेऽपि क्रियावाचकत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्।तत्र सिद्धत्वं पाक इत्यादौ घञादिवाच्यम्।साध्यत्वन्तु सर्वत्रैव धातुप्रतिपाद्यम्" इति (परमलघुमञ्जूषा,धात्वर्थनिरूपणम्)।
"अन्तराऽन्तरेण युक्ते"
(अष्टाध्यायी-२.३.४) इति सूत्रे समुपदिष्टौ शब्दौ "अन्तरा-अन्तरेण" इति शब्दौ अव्ययसञ्ज्ञकौ वर्तेते। तदुच्यते काशिकायां-
"अन्तरान्तरेणशब्दौ निपातौ साहचर्याद् गृह्येते" इति (काशिका)।
तमेव भावमितोऽपि स्पष्टं करोति पदमञ्जरीकारो हरदत्तमिश्रः-
"साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति।तद्यथा- गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति,न त्वाचार्यपरशुरामयोः" इति (पदमञ्जरी)।
अत्र अन्तरेति मध्यार्थकम् अव्ययं तथान्तरेणेति वर्जनार्थकम् अव्ययञ्च वर्तते।तत्र मानम्-
"अन्तरा मध्ये" इत्यमरः।
"पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने"
(अमरकोशः-३.४.३)
यथा-अन्तरा त्वां मां हरिः अस्ति इत्युक्ते तव मम च मध्ये हरिरस्तीत्यर्थः।
यथा-अन्तरेण हरिं सुखं नास्ति इत्युक्ते
हरिं वर्जयित्वा सुखं नास्तीत्यर्थः।
"अस्तिनास्तिदिष्टं मतिः"
(अष्टाध्यायी-४.४.६०) इति सूत्रे समुपदिष्टे "अस्ति-नास्ति" इतिक्रियाप्रतिरूपके अव्ययपदे वर्तेते।
तदुच्यते सूत्रव्याख्यायां काशिकायां-
"अस्तिनास्तिशब्दौ निपातौ" इति (काशिका)।
अन्यत्र चोक्तम्-
"ननु चास्तीति तिङन्तम्,नास्तीति वाक्यम्।अत एताभ्यां न प्राप्नोति प्रत्ययः,प्रातिपदिकाधिकारात् (४.१.१) इत्यत आह-अस्तिनास्तिशब्दौ` इत्यादि।अभ्युपगम्यापि तिङन्तत्वं वाक्यत्वञ्च परिहारान्तरमाह- `वचनादाख्याताद्वाक्याच्च प्रत्ययः` इति (न्यासः)।
तदेवम्
"अस्तीति विभक्तिप्रतिरूपमव्ययम्"।यस्यार्थो विद्यमानता सत्तेति भावः।
तदाह-"अस्तीति सत्तायाम्" इति (तत्त्वबोधिनी)।
न अस्तीति विग्रहे "सह सुपा"(अष्टाध्यायी-२.१.४) इति सूत्रेण समासः।यस्यार्थोऽविद्यमानता सत्ताभावो वेति।
अत्र मानम्-
"अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि" (अमरकोशः-३.४.१८)।
अन्यत्र चोक्तम्-
"अतिथिर्बालकश्चैव राजा भार्य्या तथैव च
अस्ति नास्ति न जानाति देहि देहि पुनः पुनः"इति (चाणक्यः)।
"सनुतर्'- सनुतरिति अव्ययम्
अन्तर्धानं बोधयति।तदाह तत्त्वबोधिनीकारो ज्ञानेन्द्रसरस्वती-
"सनुतरित्यन्तर्धाने" इति।
"शनैस्"-शनैरिति क्रियामान्द्यरूपं धात्वर्थं वेदयति।
"शनैस् क्रियामान्द्ये" इति तत्त्वबोधिनीकारो जगाद।अन्यद्धि-
"प्रायो भूम्न्यद्रुते शनैः" इति
(अमरकोशः-३.४.१७)।
"इवे प्रतिकृतौ"(अष्टाध्यायी-५.३.९६)
इति सूत्रे "इव" इत्यव्ययपदम् उपमानार्थे(तुल्यार्थे) सादृश्यार्थे (प्रतिकृत्यर्थे),साधर्म्यार्थे
(साम्यार्थे) च वर्तते।तदुच्यते सूत्रव्याख्यायां काशिकायाम्- "इवार्थः सादृश्यम्" इति (काशिका)।
अन्यद्धि-
"इवार्थौपमानत्वम्" इति (सिद्धान्तकौमुदी)।
अत्र प्रमाणं कोशवचनमपि-
"व वा यथा तथेवैवं साम्येऽहो ही च विस्मये"
(अमरकोशः-३.४.९)।
इवशब्दोऽवधारणार्थेऽपि वर्तते। तद्यथा-
“श्रिये पुषन्निषुकृतेव देवाः”
(ऋग्वेद:- १.१८४.३) इति मन्त्रव्याख्यायाम् उच्यते-
“इवशब्द एवार्थे” इति भाष्ये दृश्यते। एवशब्दस्य अवधारणार्थः।
शतपथब्राह्मणे पुनः-"प्लक्ष्णेव तु ईश्वरा” “इवशब्दोऽवधारणार्थः इति भाष्यकारो ब्रूते।
यथासादृश्ये (अष्टाध्यायी-२.१.७)
इति सूत्रे "यथा" इति अव्ययम् असादृश्यार्थे लभ्यते।सादृश्यं नाम समानता तुल्यतोपमानञ्च।अत्र मानम्-"सादृश्यं तुल्यता" इति (काशिका )।न सादृश्यम् इति असादृश्यम् असमानता अतुल्यता अनुपमानञ्च।
तदाह-
"यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति" इति (काशिका)।
एतत्सूत्रव्याख्यायां सिद्धान्तकौमुद्यां प्रत्युदाहरणरूपेण सादृश्यार्थे(उपमानार्थे) यथाशब्दस्य प्रयोगो विहितः।तद्यथा-
"यथा हरिस्तथा हरः" ।हरेरुपमानत्वं यथाशब्दो द्योतयति इति (सिद्धान्तकौमुदी)।
पुनश्च
"तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते" इति (सिद्धान्तकौमुदी)।
"अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु" (अष्टाध्यायी-२.१.६) इति सूत्रव्याख्यायां काशिकायां यथाशब्दस्य चत्वारोऽर्थाः निर्दिष्टाः सन्ति।तत्राह-
"योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः" इति (काशिका)।
"यथासङ्ख्यमनुदेशः समानाम्"
(अष्टाध्यायी-१.३.१०)
इति सूत्रे यथाशब्दोऽनतिक्रमणार्थे विद्यते।तद्धि-सङ्ख्याम्(क्रमम्) अनतिक्रम्य इति यथासङ्ख्यं यथाक्रममित्यर्थः।
"सहयुक्तेऽप्रधाने"
(अष्टाध्यायी-२.३.१९) इति सूत्रे "सह' इत्यव्ययपदं सम्बन्धार्थे दृश्यते।तदाह-
"क्रियागुणद्रव्यसम्बन्धे हि सति सहयोगो भवति" इति (न्यासः)।
तथाहि-
'क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति" इति (पदमञ्जरी)।
कोषग्रन्थेषु तु "सह" इत्यव्ययपदम् अनेकार्थेषु लभ्यते।तत्र मानम्-
"सह सम्बन्धसादृश्ययौगपद्यसमृद्धिषु। साकल्ये विद्यमाने च" इति (हेमचन्द्रः)।
शब्दकल्पद्रुमकारेण पुनरिदमुच्यते-
"साकल्यम्,विद्यमानम्,सादृश्यम्, यौगपद्यम् ,समृद्धिः,सम्बन्धः" इति (मेदिनीकोशः)
" सामर्थ्यम्" इति (शब्दरत्नावली )।
अन्यत्र चोक्तम्-
"सहशब्दार्थस्तु समभिव्याहृतक्रियाकालः,
स्वक्रियाकालीनक्रिया वा।तत्र गौणक्रियान्वविनि तृतीया।पुत्रेण सहागता पिता" इति (वाचस्पत्यम्)।
"आङ् मर्यादाभिविध्योः"
(अष्टाध्यायी -२.१.१३) इति सूत्रे प्रयुक्तम् आङित्यव्ययं मर्यादायाम् अभिविधौ च वर्तते।
अन्यत्र च संस्कृतव्याकरणे
"आङ्" इत्यव्ययं चतुर्षु अर्थेषु प्रयुज्यते।
सिद्धान्तकौमुदीकारिकैकात्र मानम्-
"ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः।
एतमातं ङितं विद्यात्,वाक्यस्मरणयोरङित्॥
(१).ईषदर्थः-ईषदः अर्थ इति ईषदर्थः, अल्पार्थः,स्तोकार्थश्च।यथा-आ उष्णम् ओष्णम्,ईषदुष्णमित्यर्थः।
(२).क्रियायोगः-क्रियायोगे आङित्युपसर्गसञ्ज्ञां लभते।यथा-आगच्छति,आरमति,आधत्ते।
(३).मर्यादा-मर्यादा नाम सीमावधिर्वा। तदुच्यते"अवधिर्मर्यादा" इति (सिद्धान्तकौमुदी)।
अर्थात् मर्यादा नाम सा सीमा(अवधिः) यस्याः ग्रहणं न भवति।यथा-
"आ उदकान्तात्",ओदकान्तात्प्रियं प्रोधमनुव्रजेद् इत्यर्थः।
(४).अभिविधिः-अभिव्याप्तिः।अभिविधिर्नाम सा सीमा यस्याः ग्रहणं भवति।यथा-
"आ अहिच्छत्रात्",आहिच्छत्रं वृष्टो देवः।अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः।
एतद्भिन्नं ङिद्रहितम् "आ" इत्यव्ययं वाक्यस्मरणार्थयोर्वर्तते।
(१).वाक्यम्-वाक्यशब्देन वाक्यार्थ उक्तः। अभिधेयेऽभिधानोपचारात्।प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते।यथा- "आ एवं नु मन्यसे" इति।एवमयं वाक्यार्थो विज्ञायत इत्यर्थः।
(२).स्मरणम्-स्मृतिः।यथा-
"आ एवं किल तत्"।एवमिदं विज्ञातमित्यर्थः।
"माङ्"-माङित्यव्ययं निषेधार्थकं वर्तते।
"माङि लुङ्"(अष्टाध्यायी-३.३.१७५) इति सूत्रव्याख्यायां बालमनोरमाकारस्तदाह-
"मास्त्वित्यादौ तु 'मा' इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः।
"आङ्माङोश्च" (अष्टाध्यायी-६.१.७४)
इति सूत्रव्याख्यायां काशिकायाम्-
"आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङ श्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति"(काशिका)।
तथाहि-
"आङ्माङोः सानुबन्धकयोर्निर्देशो गतिकर्मप्रवचनीयप्रतिषेधसंप्रत्ययार्थः - आङ्माङोः सानुबन्धकयोर्निर्देशः क्रियते - आङो गतिकर्मप्रवचनीयसंप्रत्ययार्थः, माङः प्रतिषेधसंप्रत्ययार्थः" इति (महाभाष्यम्)।
"किं क्षेपे"(अष्टाध्यायी २.१.६४) तथा
"किमः क्षेपे"(अष्टाध्यायी-५.४.७०)
इत्यनयोः सूत्रयोः किमित्यव्ययं क्षेपार्थे वर्तते।
"किमित्येतत् क्षेपे गम्यमाने सुपा सह समस्यते, तत्पुरुषश्च समासो भवति।किंराजा, यो न रक्षति। किंसखा,योऽभिद्रुह्यति।किंगौः,यो न वहति" इति (काशिका)
अत्र क्षेपो नाम निन्दा।तदाह- "क्षेपो निन्दा" इति (बालमनोरमा)।
तस्मात् 'किंराजा' इत्यस्य 'निन्दितो राजा','कुत्सितः राजा' चेत्यर्थः।
"साम्प्रतम्"-साम्प्रतमित्येकमव्ययं वर्तते।यस्यार्थो युक्तम्,उचितं वेत्यर्थः।"कर्मणि द्वितीया"(अष्टाध्यायी-२.३.२) इति सूत्रव्याख्यायां सिद्धान्तकौमुद्यां
"क्वचिन्निपातेनाप्यभिधानम्" इति वचनस्य उदाहरणत्वेन "विषवृक्षोऽपि संवर्ध्य स्वयं क्षेत्तुमसाम्प्रतम्" इत्यत्र "साम्प्रतम् इत्यस्य युज्यते हि इत्यर्थो निर्दिश्यते।तस्मादेव असाम्प्रतम् इत्यस्य न युज्यते इत्यर्थः सङ्गच्छते।
अत्र मानम्- "अ साम्प्रतिके"(अष्टाध्यायी ४.३.९) इति सूत्रव्याख्यायां न्यासकारो जगाद-
"साम्प्रतिकम्-न्याय्यम्,युक्तम्,उचितम्, सममुच्यते-काशिका,पदमञ्जरी च। साम्प्रतिकं न्याय्यमुच्यते" इति (न्यासः)।
अन्यत्र चोक्तम्-
"इदानीमित्यर्थे तु प्रसिद्धमेव।
"एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा" इति (अमरकोशः-३.४.२३)अमरवचनात्।ततः प्रज्ञादित्वात्स्वार्थेऽण्,विनयादित्वात्स्वार्थे ठगपि।तेन साम्प्रतं साम्प्रतिकमिति पर्यायौ। उत्कर्षेत्यादि।न्याय्ये विद्यमान एव सम्प्रतिशब्दोऽत्र गृह्यते इति भावः" इति (तत्त्वबोधिनी)।
"प्राध्वम्"-'प्राध्वम्' इति पदम् "कृन्मेजन्तः"(अष्टाध्यायी-१.१.३९)
इति पाणिनिसूत्रेण
अव्ययसञ्ज्ञां लभते।प्राध्वमित्यव्ययं
बन्धनार्थे आनुकूल्यार्थे च लभ्यते। अत्र प्रमाणं पाणिनिसूत्रमेव।तद्यथा-
"प्राध्वं बन्धने"(१.४.७८) इति सूत्रे "प्राध्वम्" इत्यव्ययं बन्धनार्थे वर्तते।
अन्यत्र चोक्तम्-
"प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानुकूल्यं बन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति" इति (काशिका)।यथा-"प्राध्वङ्कृत्य", बन्धनेन निमित्तेनानुकूल्यं कृत्वेत्यर्थः।
कोशवचनमप्यत्र मानम्-
"प्राध्वं सुप्रणते चातिदूरवर्त्मनि बन्धने" (विश्वकोश:)।
अन्यद्धि-
"आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा" (अमरकोशः-३.४.४)।
"कणेमनसी श्रद्धाप्रतीघाते"
(अष्टाध्यायी-१.४.६६) इति सूत्रे कणेमनसी इति शब्दौ श्रद्धाप्रतीघातार्थे वर्तेते।
अत्र "कणे"
इति सप्तमीविभक्त्यन्तप्रतिरुपको निपातो विद्यते।तदुच्यते-
"कणेशब्दः सप्तम्यन्तप्रतिरूपको निपातः।न चेहाभिलाषातिशये वर्तमानो गृह्यते" इति (न्यासः)।
अन्यत्र चोक्तम्-
"कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽपि साहचर्यादभिलाषावृत्तिरेव विज्ञेयः"
इति (पदमञ्जरी)।
"कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते।मनः शब्दोऽप्यत्रैव" इति (सिद्धान्तकौमुदी)।
तदित्थं सूत्रेऽस्मिन् श्रद्धा नाम इच्छाभिलाषा वेति।एवं प्रतीघातो नाम निवृत्तिः पूर्त्तिर्वा श्रद्धाप्रतीघातो नामाभिलाषनिवृत्तिः इच्छापूर्तिर्वेत्यर्थः।
"स्मारम् स्मारम्"-"स्मृ आध्याने" इति धातोः आभीक्ष्ण्यार्थे(पौनःपुन्यार्थे)
"आभीक्ष्ण्ये णमुल्" इति सूत्रेण णमुलि प्रत्यये,तत्रामि शिष्टे,ततः
प्रातिपदिकसञ्ज्ञा-स्वादिकार्ये च
कृते "स्मारम्" इति सिध्यति,एवम् "आभीक्ष्ण्ये द्वे भवतः"(वा० ८.१.१२) इति वार्तिकेन तस्य द्वित्वे "स्मारं स्मारम्" इति भवति। पुनश्च "कृन्मेजन्तः" (अष्टाध्यायी-१.१.३९) इति सूत्रेण मान्तत्वाद् अव्ययसञ्ज्ञा भवति।यस्यार्थो भवति स्मृत्वा स्मृत्वा
(स्मरणं कृत्वा स्मरणं कृत्वा) इत्यर्थो विज्ञायते।तदुच्यते-
"स्मारं स्मारं नमति शिवम्,
स्मृत्वा स्मृत्वा" इति (सिद्धान्तकौमुदी)।
सिद्धान्तकौमुदीव्याख्यायाः प्रौढमनोरमाया मङ्गलाचरणे
भट्टोजिदीक्षितः पुनस्तदुदाहरति-
"ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोर्गिरः।
सिद्धान्तकौमुदीव्याख्यां कुर्मः प्रौढमनोरमाम्॥"
(प्रौढमनोरमा-मङ्गलाचरणम्)
"स्मारं स्मारम्" इतिवत् "ध्यायं ध्यायम्" इत्यपि ज्ञेयम्।अत्र "ध्यै चिन्तायाम्" (भ्वादिगणीयः परस्मैपदी सकर्मकोऽनिट्) इति धातुर्विद्यते।
ध्यात्वा ध्यात्वा (ध्यानं कृत्वा ध्यानं कृत्वा, चिन्तनं कृत्वा चिन्तनं कृत्वा वा) इति तदर्थः।प्रौढमनोरमायाः शब्दरत्नव्याख्यायां हरिदीक्षितस्तदाह-ध्यायं ध्यायमिति।
ध्यात्वा ध्यात्वेत्यर्थः।
सिद्धान्तकौमुद्यां समासप्रकरणे कानिचन वार्तिकानि पठितानि।तेषु वार्तिकेषु अव्ययसञ्जान्तर्निहितानां प्रादीनां तत्तदर्थसङ्केते तत्पुरुषसमासः साधितः।तद्यथा-
१."प्रादयः गताद्यर्थे प्रथमया" इति वार्तिकेन प्रादीनां गतादिधात्वर्थेषु प्रथमया विभक्त्या तत्पुरुषसमासो विधीयते।यथा-"प्रगतः आचार्यः इति प्राचार्यः" इत्यत्र "प्र" इत्यस्य "गतः:" इत्यर्थोऽवबुध्यते।तद्व्याख्यायते-
"प्रादय इति।गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः।प्रगत आचार्य इति।प्रेत्यस्य विवरणं गत इति।'गत आचार्य' इत्येव अस्वपदविग्रहः,नित्यसमासत्वात्" इति (बालमनोरमा)।
तथाहि-
"आदिशब्द उभयत्र प्रकारे।तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम्" इति तत्त्वबोधिनी।
२."अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति वार्तिकेन अव्ययसञ्ज्ञायां सन्निहितानाम् अत्यादीनां क्रान्ताद्यर्थेषु द्वितीयया विभक्त्या तत्पुरुषसमासः निष्पाद्यते।यथा-अतिक्रान्तो मालाम् इति "अतिमालः" इत्यत्र "अति" इत्यस्य "क्रान्त:" इत्यर्थो बुध्यते।
तदाह-
"अत्यादय इति।क्रान्ताद्यर्थे अत्यादयः समस्यन्त इत्यर्थ:।अति क्रान्तो मालामिति।अतिशब्दः क्रान्ते वर्तते। क्रान्तो मालामित्यस्वपदविग्रहः।तत्र क्रमुधातोरतिक्रमणमर्थ।अतिमाल" इति (बालमनोरमा)।
अन्यत्र चोक्तम्-
"अत्यादय इति।आदिपदादभिगता मुखमभिमुखः।उद्गतो वेलामुद्वेलः। प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम्" इति (तत्त्वबोधिनी)।
३."अवादयः क्रुष्टाद्यर्थे तृतीयया" इति
वार्तिकेन अवादीनां क्रुष्टाद्यर्थे तृतीयया विभक्त्या तत्पुरुषसमासः साध्यते।यथा-"अवक्रुष्टः कोकिलया इति अवकोकिलः" इत्यत्र "अव" इत्यस्य "क्रुष्टः" इत्यर्थो गृह्यते।तन्निगद्यते-
"अवादय इति।क्रुष्टाद्यर्थे अवादयः समस्यन्त इत्यर्थः।अवकोकिल इति। कोकिलया आहूत इत्यर्थः" (बालमनोरमा)।
अन्यत्रापि-
"अवादय इति।आदिपदात्परिणद्धो वीरुधा परिवीरुत्।सन्नद्धो वर्मणा संवर्मेति" (तत्त्वबोधिनी)
४."पर्यादयः ग्लानाद्यर्थे चतुर्थ्या" इति वार्तिकेन अव्ययसञ्ज्ञायां सन्निहितानां पर्यादीनां शब्दानां ग्लानाद्यर्थे तत्पुरुषसमासः क्रियते।यथा-
"परिग्लानोऽध्ययनाय पर्यध्ययनः" इति विग्रहे "परि" इत्यस्य "ग्लानः" इत्यर्थो ज्ञायते।तदाह-
"पर्यादय इति।ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः।अध्ययनाय अध्ययनार्थम्।तेन श्रान्त इत्यर्थः। परिरत्र ग्लाने वर्तते" इति (बालमनोरमा)।
तथाहि-
"पर्यादय इति।आदिपदादुद्युक्तः सङ्ग्रामाय उत्सङ्ग्रामः।अध्ययनायेति।तादर्थ्ये चतुर्थी। गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः" इति (तत्त्वबोधिनी)।
५."निरादयः क्रान्ताद्यर्थे पञ्चम्या" इति वार्तिकेन अव्ययभूतशब्देषु परिगणितानां निरादीनां क्रान्ताद्यर्थे पञ्चम्या विभक्त्या तत्पुरुषसमासविधानं क्रियते।यथा-
"निष्क्रान्तः कौशाम्ब्याः इति निष्कौशाम्बिः" इति वाक्ये "निस्" इत्यस्य "क्रान्त:" इत्यर्थो वेद्यते।
उच्यते हि-
"क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः।निष्कौशाम्बिरिति।अतिमालवद्ध्रस्वः।निरित्यव्ययं निर्गमने वर्तते इति (बालमनोरमा)।
अन्यद्धि-
"निरादय इति।आदिपदादुत्क्रान्तः कुलादुत्कुलः।निर्गतमङ्गुलिभ्यो निरङ्गुलम्" इति (तत्त्वबोधिनी)
धात्वर्थे निहित धात्वर्थाः
इति शीर्षकं तावदत्र विचार्यते।
माधवीयधातुवृत्त्यादिषु धातुपाठसम्बद्धेषु ग्रन्थेषु, ग्रन्थांशेषु च धातूनां येऽर्था उपलक्षणत्वेनापि निर्दिष्टाः, तेष्वर्थेष्वपि प्रयोगानुसारेण अन्येऽपि अर्था निहिता भवन्ति। तद्यथा अव्यक्ते शब्दे अर्थाद् अव्यक्तशब्दकरणे प्रयुज्यमानः "णद धातुः" धात्वर्थसङ्गृहीतकर्मत्वेन अकर्मको भवति।परन्तु "ननाद ढक्कां नवपञ्चवारम्" इत्यत्र णदधात्वर्थे ण्यर्थस्यापि अन्तर्निहितत्वं मत्वा व्याख्याकारैः कथितं यदत्र अन्तर्भावितण्यर्थत्वाद् णदधातुरत्र सकर्मकः।अतः 'ननाद' इत्यस्य 'नादयामास' इत्यर्थः।
एवमेव "अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसञ्ज्ञक इति वाच्यम्" इति वार्तिकेन यत् "कुरून् स्वपिति, गोदोहमास्ते" इत्यादिप्रयोगेषु कर्मसञ्ज्ञा भवति,तद्भाष्यसम्मतं नास्ति, एतादृशवार्तिकस्य भाष्येऽनुपलम्भात्।तेन स्वपादिधातूनां न केवलं स्वप्नादयः एव धात्वर्थाः,अपि तु तत्र व्यापनार्थोऽपि निहितो विद्यते।अतः स्वपधातोरर्थो विद्यते- स्वप्नेन व्याप्तिकरणमिति,तेन कुरून् स्वपिति इत्यस्य एवमर्थः करणीयः-कुरून् अभिव्याप्य स्वपिति इति।एवमेव मासमास्ते इत्यस्य एवमर्थोऽस्ति- मासमभिव्याप्य आस्ते इति। एवमेवान्येषामपि प्रयोगाणां विषये ज्ञेयम्।एतद्विषये लघुशब्देन्दुशेखरे नागेशेन एवं रहस्यमुद्घाटितम्- “तेषां स्वकरणकव्यापने वृत्या व्याप्तिरूपफलाश्रयत्वेन कर्तुरिति कर्मत्वम्।मासमास्ते इत्यादेर्मासमासनेन व्याप्नोत्यादिक्रमेणार्थः इति भावः।यत्त्विदमेव कर्मसञ्ज्ञाविधायकमिति,तन्न भाष्ये तादृशवचनानुपलम्भात्।
अतः अध्यायेऽस्मिन् धात्वर्थेषु निहितधात्वर्थानां विषये निर्दशनरूपेण कतिपयानां धातूनां,धात्वर्थानां चोल्लेखपूर्वकं यथामति समीक्षिष्यते।
"अकथितं च" (अष्टाध्यायी-१.४.५१) इति सूत्रव्याख्यायाम् अकर्मकप्रकृतिण्यन्तानां कथं द्विकर्मकत्वम् इत्याशङ्कायामिदमुच्यते-
"कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणां देशश्च" इति भाष्ये वार्तिकं पठ्यते।तच्च न विधायकं हि शब्दघटितत्वात्।किञ्च "कालाध्वनोरत्यन्तसंयोगे"(अष्टाध्यायी-२.३.५) इति सूत्रे "कालाध्वनौ कर्मवदिति वक्तव्यम्" इति वार्तिकप्रत्याख्याने प्राकृतमेवैतत्कर्म यथा कटं करोतीत्युक्तम्।
अकर्मकव्यवहारस्तु धातूनां द्रव्यकर्माभावनिमित्तमेव।सकर्मकधातुस्थलेऽपि अन्तर्भूतक्रियान्तरं प्रयोज्य फलाश्रयतया मासादेः कर्मसञ्ज्ञायां "मासमोदनं पचति" इत्यादेः प्रयोगस्य उत्पत्तिः स्यात्।अकर्मकधातूनामिव सकर्मकधातूनामपि फलानुकूलव्यापारकरणकव्याप्त्यर्थवृत्ति-
स्वीकारेण कालभावगन्तव्याध्वदेशानां कर्मसञ्ज्ञा भवति।अर्थात् देवदतः स्वविक्लित्यनुकूलव्यापारेण मासं व्याप्नोति।
अकर्मकधातूनां स्वकर्मकव्याप्त्यर्थस्वीकारे सकलधातूनां सकर्मकत्वं भविष्यति,तथा च सकर्मकाकर्मकभेदद्वयम् असिद्धं भविष्यति।प्रधानाप्रधानं कर्माधृत्य सकर्मकाकर्मकधातुभेदोपपत्तिर्भविष्यति।
प्रधानकर्मको धातुः सकर्मकस्तथा गौणकर्मको धातुरकर्मको भवति।अर्थात् धात्वर्थतावच्छेदकफलस्याश्रयत्वं सकर्मकत्वं तद्भिन्नम् अकर्मकत्वम्।
तत्र व्यापारे यस्य फलस्य साक्षादन्वयो भवति तदाश्रयं प्रधानं कर्म,कालादीनां द्रव्यद्वारकव्यापारेऽन्वयात् कालादिकम् अप्रधानं कर्मेति फलति।वाक्यपदीयकारो भर्तृहरिस्तदाह-
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते।।
(वाक्यपदीयम्-३.७.६७)
तथाहि-
"कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणां देशश्च" इति
(महाभाष्य-वार्तिकम्)।
अन्यद्धि-
"अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसञ्ज्ञक इति वाच्यम्"
इति (सिद्धान्तकौमुदी)।
एतेषां वचनानाम् अयमभिप्रायो यत् -"अकथितं च" अष्टाध्यायी-१.४.५१) इति सूत्रे अकर्मकाणां कथं कर्मणा योगः स्यादिति चेत् कालादीनां तत्सम्प्रयोगेन कर्मत्वं वक्तव्यमुपजायते।अन्तर्भूतं प्रधानक्रियापेक्षया क्रियान्तरं येषामिति ते अन्तर्भूतक्रियान्तराः।तद्यथा-
"मासमास्ते,गोदोहमास्ते " इत्यादिषु स्थानेषु व्याप्त्यङ्गायामासनादिक्रियायां धातुर्वृत्तः।तस्मान् "मासमास्ते" इत्यस्य आसनेन व्याप्नोतीत्यर्थः,तथा "गोदोहमास्ते" इत्यस्य गोदोहनकालम् अभिव्याप्य आस्त इत्यर्थः फलति।"
"कोशं स्वपिति,कुरून् स्वपिति" इत्यादिषु स्थलेषु "स्वापकरणव्याप्त्यनुकूलव्यापारः शीङोर्थः"।यथा-"कोशं स्वपिति" इत्यस्य कोशं व्याप्य स्वपितीत्यर्थस्तथा "कुरून् स्वपिति " इत्यस्य कुरुदेशान् व्याप्य स्वपितीत्यर्थः सिध्यतीति भावः।
"अन्तर्भावितण्यर्था:"-अन्तः(मध्ये) भावितः अनुप्रविष्टः (कृतः,कल्पितो,निर्धारितः सम्पादितो वा) ण्यर्थः (णिचोऽर्थः)।यस्मिन् धातौ सोऽन्तर्भावितन्यर्थः।
"हेतुमति च"(अष्टाध्यायी-३.१.२६) इति पाणिनिसूत्रेण प्रवर्तितप्रयोजकणिचोऽभिधेयार्थश्च।
अयमाशयो यद् यत्र णिच्प्रत्ययो न वर्तते पुनरपि तत्र तदर्थो गृह्यते,अर्थात् णिच्प्रययं विनापि णिचोऽर्थो यत्र समापतति तत्र अन्तर्भावितण्यर्थत्वम् अङ्गीक्रियते।एतेनाकर्मकधातोरपि सकर्मकत्वं कल्प्यते।
"राजनि युधि कृञः"
(अष्टाध्यायी-३.२.९५) इति सूत्रे काशिकायामुच्यते-
"ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति" इति (काशिका)।
युध सम्प्रहारे" इति दिवादिगण आत्मनेपदी अकर्मकोऽनिट् धातुर्वर्तते।
युधधातोरकर्मकत्वात्
"राजन्शब्दे कर्मण्युपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति" इति वृत्तौ कर्मोल्लेखो न सङ्गच्छत इति तदाशयः।
अन्यद्धि-
"ननु च युधिरकर्मक इति।तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः।अन्तर्भावितण्यर्थ इति।अनेकार्थत्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः" इति (पदमञ्जरी)।
तथाहि -
"युधिरन्तर्भावितण्यर्थः" इति (सिद्धान्तकौमुदी)।
इत्यादिभिर्ग्रन्थप्रमाणैरिदं ज्ञायते यद् अन्तर्भावितण्यर्थशब्देबहुव्रीहिसमासः,धातुश्चान्यपदार्थः।पदमञ्जरीकृन्मते धातूनामन्तर्भावितण्यर्थत्वञ्च धातूनामनेकार्थत्वाल्लक्षणया वा भवति।
पुनश्च-
नन्दिकेश्वरकृतकाशिकायामुल्लिखितं पद्यमेकम्-
"नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥"
इति पद्ये "ननाद" इत्यस्य "नादयामास" इति
अन्तर्भावितण्यर्थो गृह्यते।
यतोहि पाणिनिधातुपाठे "णद अव्यक्ते शब्दे" (भ्वादिगणः परस्मैपदी अकर्मकः सेट् ) इति धातुरुपदिश्यते।णदधातोरकर्मकत्वाद् यदा "ढक्काम् ननाद" इत्यत्रानन्वयापत्तिर्जायते तथात्र द्वितीयाविभक्तिर्न सिध्यति।तदा अन्तर्भावितण्यर्थं स्वीकृत्य तद्वारणं कुर्वन्ति बुधा वैयाकरणाः।तदित्थं ढक्का नदति स्वयमेव,तां नादयति(नदितुं प्रेरयति)नटराजराजः साक्षान्महेश्वरः।तदेवं नटराजराजः महादेवः ढक्कां नादयामास इत्यर्थं विचिन्त्य अत्रान्तर्भावितण्यर्थत्वम् कल्पयन्ति।
"उपाच्च"(अष्टाध्यायी-१.३.८४) इति सूत्रव्याख्यायां काशिकायां तदित्थमुच्यते-
"उपपूर्वाद् रमतेः परस्मैपदं भवति। देवदत्तमुपरमति। यज्ञदत्तमुपरमति। उपरमयतीति यावत्।अन्तर्भावितण्यर्थोऽत्र रमिः"(काशिका)।अत्र पुनर्जिज्ञासोद्भवति-
धातुपाठे "रमु क्रीडायाम्" (भ्वादिगण आत्मनेपदी अकर्मकोऽनिट् धातुः निर्दिश्यते।उपपूर्वकरमिधातोकर्मकत्वेनैव विनाशार्थे व्यवहारो वर्तते।कथं पुनः द्वितीया विभक्तिः सिध्यति।अत्र मानम्-
"ननु चोपपूर्वो रमिरकर्मक एव भवति।तथा ह्युपपूर्वस्यास्य विनाशोऽर्थो भवति।यथा- उपरतानि, नष्टानीति गम्यते।निवृत्तिर्वा भवति,स्वाध्यायादुपरमते,निवर्तत इति गम्यते।न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते।तत्कथं सकर्मकस्योदाहरणं युज्यत इत्याह - 'उपरमयतीति यावत्' इति।एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति।अकर्मको हि धातुण्यर्थे वर्तमानः सकर्मको भवति" इति (न्यासः)।
अन्यत्र चोक्तम्-
"उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्,उपरतो निधनादिदि।न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते।तत्कथं सकर्मकस्योदाहरणम्?अत आह- उपरमयति यावदिति।कथं पुनरण्यन्तो ण्यर्थे वर्तते?अत आह-अन्तर्भावितण्यर्थ" इति (पदमञ्जरी)।
तदित्थम् अन्तर्भावितण्यर्थमपि स्वीकर्तुं शक्यते धातूनामनेकार्थत्वादिति भावः।
तस्माद् "उपरमति" इत्यस्य "उपरमो विरामोऽवसानम्" इत्यर्थं परित्यज्य
उपरमयन्ति विरमयन्ति,अवसाययन्ति इत्यर्थोऽन्तर्भावितण्यर्थत्वादङ्गीक्रियते।
"तेन निर्वृत्तम्"अष्टाध्यायी-४.२.६८) इति
सूत्रे प्रयुक्ते "निर्वृत्तम्" इति कर्मणि निष्ठासञ्ज्ञकः क्तप्रत्ययो वर्तते।
अत्रेयं जिज्ञासा भवति यत् पाणिनिधातुपाठे "वृतु वर्तने" इति भ्वादिगण आत्मनेपदी अकर्मको धातुः पठ्यते।अकर्मत्वात् ततः कर्मणि निष्ठाप्रत्ययः कुतः।तदैवमुच्यते यदत्र अन्तर्भावितण्यर्थो वर्तते।काशिकाया न्यासव्याख्यायां पुनरिदमुच्यते-
"यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कर्तरि निष्ठा,यदा कर्तरि तदाऽन्तर्भावितण्यर्थत्वात्कर्मणि।अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति" इति (न्यासः)
तथाहि-
"निर्वृत्तमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः" इति (पदमञ्जरी)।
पुनश्च-
"तेन निर्वृत्तम्।अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्त:" इति (तत्त्वबोधिनी)।
तस्माद्धि निर्वृत्तमिति पदं सम्पादितं निष्पादितं निर्मितं वेत्यर्थवाचकम्।यथा-
सहस्रेण निर्वृत्ता साहस्री परिखा।अत्र हेत्वर्थे तृतीया।परिखानिर्माणार्थं सहस्रजनानाम् साहाय्यमुपलब्धम् इत्यर्थः।
कुशाम्बेन निर्वृत्ता नगरी।अत्र कर्तरि तृतीया।
कुशाम्बनाम्ना राज्ञा निर्मिता नगरी इत्यर्थः।
"ब्रह्मा"-बृंहति वर्धयति प्रजा ब्रह्मा इति व्युत्पत्त्या "बृहि बृद्धौ" इति धातोः
"बृंहेर्नोऽच्च"(उणादिसूत्रम्-४.१४५) इत्युणादिसूत्रेण मनिन्प्रत्यये नकारस्याकारे रत्वे च कृते ब्रह्मेति सिध्यति।धातुपाठे"बृहि उद्यमने" इति तुदादिगणोऽकर्मकः परस्मैपदी सेट् धातुरवलोक्यते।अतः धातोरकर्मकत्वात् "बृंहति वर्धयति प्रजाः" इत्यमरटीकायां या व्युत्पत्तिः दर्शिता सा कथं समीचीनेत्याकाङ्क्षायां टीकाकारः समादधति यदत्र अन्तर्भावितण्यर्थो वर्तते।यतो धातूनामनेकार्थत्वमिति वैयाकरणानां राद्धान्तानुसारम्
अन्तर्भावितण्यर्थेऽकर्मकधातुरपि सकर्मको भवति।तस्मात् "बृंहति" इति व्युत्पत्त्या निष्पन्नो "ब्रह्मा" सृष्टिकर्मणा प्रजाः वर्धयति ,संसारचक्रं समेधयति चेत्यर्थः सङ्गच्छते।
"सारथिः"-"सरति अश्वान्" इति व्युत्पत्त्या "सृ गतौ" इति "सर्त्तेर्णिच्च"(उणादि-४.३९) इत्युणादिसूत्रेण णिच्प्रत्यये अथिन्प्रत्यये च सारथिरिति सिध्यति।अत्रापि अन्तर्भावितण्यर्थादेव सारथेः "रथादिघोटकनियोगकर्त्ता" इत्यर्थः स्वीक्रियते।तस्मात् "सरति अश्वान्" इति विग्रहवाक्यस्य "सारयति अश्वान्" इत्यर्थः सङ्गच्छते।
केचन धातवः स्वार्थे(प्रकृत्यर्थे) सन्तोऽपि णिजर्थं बोधयति।तथापि रूपन्तु णिजन्तं न भवति।एते "अन्तर्भावितण्यर्था:" इत्युच्यन्ते।एतेषु धातुषु ण्यर्थोऽन्तर्भावितो भवति धातूनामनेकार्थत्वातदिति तात्पर्यम् वर्तते।
यथा- "शम्(कल्याणं मङ्गलम्) भावयति कल्पयति" इति शम्भुः।धातुपाठे "भू सत्तायाम्" इति भ्वादिगणः परस्मैपदी अकर्मकः सेट् धातुः पठ्यते।भूधातोरकर्मकत्वादत्र कर्मव्युत्पत्तिः कथं सिध्यतीत्यकाङ्क्षायामुच्यते
"वस्तुतस्तु भवतेः(अण्यन्तस्य) एव डुप्रत्ययः।अर्थस्तु भावयतीति।एवं 'भवति' इत्यस्य 'भावयति' इत्यर्थ उच्यत,इत्यत अत्र अन्तर्भाविण्यर्थता इति (शुद्धिकौमुदी)।
यतोहि अकर्मकोऽपि धातुः ण्यर्थे सकर्मको भवतीति स्पष्टमेव।तदाह-
"अकर्मका अपि अन्तर्भाविता ण्यर्थाः सकर्मकाः भवन्ति" इति (न्यासः)।
दुहादीनां धातूनां धात्वर्थसन्दर्भे प्राच्यनव्यवैयाकरणयोः
दीक्षितनागेशयोर्भिन्नं भिन्नं मतं वर्तते। तद्धि-
"अकथितं च"(अष्टाध्यायी-१.४.५१) इति सूत्रेणानेन अपादानादिकारकाणाम् अविवक्षायां कर्मत्वं विधीयते।यतोहि "विवक्षातः कारकाणि भवन्ति।अत्र प्रमाणम्-
"अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्" इति (सिद्धान्तकौमुदी)।
द्विकर्मकधातूनां परिगणनं पुनस्तत्रैव प्रतिपादितम्।तद्यथा-
"दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥"
"दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः" इति (सिद्धान्तकौमुदी)।
"अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रोपदिष्टस्य अकथितशब्दोऽविवक्षितपरो न त्वप्रधानार्थपरः।अकथितशब्दस्य अप्रधानार्थस्वीकारे 'गोः पयो दोग्धि' एवं 'गां पयो दोग्धि' इति वाक्यद्वयस्योपपत्तिर्न भविष्यति।यतोहि 'गोः पयो दोग्धि' इति वाक्ये उद्देश्यताश्रयं 'पयः' प्रधानं कर्म तथा 'गोः' अप्रधानं कर्म स्यात्।अकथितशब्दस्य अविवक्षार्थस्वीकारे सति अपादानस्य अविवक्षापूर्वकं कर्मत्वं विवक्षायां 'गां पयो दोग्धि' तथापादानत्वेन विवक्षायां 'गोः पयो दोग्धि' इति वाक्यद्वयमुपपद्यते।
अन्यथा चेत्सर्वथा 'गां पयो दोग्धि' इत्येकं वाक्यमेवोपपद्यते।
इयम् अविवक्षा द्विधा भवति।
(१).प्राप्तिपूर्विका अविवक्षा-प्राप्तानाम् अपादानादीनाम् अविवक्षा प्राप्तिपूर्विकाविवक्षा भवति।
(२).अप्राप्तिपूर्विका अविवक्षा-सर्वथा अप्राप्तानाम् अपादानादीनाम् अप्राप्तिपूर्विकाविवक्षा भवति।
प्राप्तपूर्विकायाम् अविवक्षायां प्राप्तापादानादिसञ्ज्ञानां कर्मसञ्ज्ञया बाधः फलति।अथ च अप्राप्तिपूर्विकायाम् अविवक्षायां प्राप्तषष्ठीविभक्तेर्बाधः फलति।उभयथापि शाब्दबोधे कारकव्याप्यापादानादीनां कर्मत्वेनैव बोधो भवति।परं प्राचीना वैयाकरणाः "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रेण कर्मसञ्ज्ञाविधानपूर्वकं द्वितीयास्थले सम्बन्धत्वेन शाब्दबोधं स्वीकुर्वन्ति।यतोहि "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रेण कर्मसञ्ज्ञाविधानम् अपादानादिकारकाणामविवक्षायां प्राप्तषष्ठीविभक्तेर्बाधनपूर्वकं भवति।अतएव "अकथितं च" (अष्टाध्यायी-१.४.५१) इति शास्त्रविहिते कर्मणि द्वितीयायाः सम्बन्धत्वेन बाधो भवतीत्येतन्न युक्तियुक्तम् इति नागेशमतम्।यतोहि भवदीयमते अपादानादिसञ्ज्ञाविधायक-शास्त्रोपदेशाभावे सर्वत्र षष्ठीविभक्तिः प्राप्यत' इत्याकारकः कर्मादिकारकाणामपि सम्बन्धत्वेन बोधः स्यात्,परं कर्मादिकारकाणां क्वचिदपि सम्बन्धत्वेन बोधो न दृश्यते।अतः अपादानादिकारकाणाम् अविवक्षास्थले "अकथितं च" (अष्टाध्यायी-१.४.५१) इति शास्त्रेण विधीयमानया कर्मसञ्ज्ञया विहिताया द्वितीयाविभक्तेरपि कर्मत्वेन बोधो भवति।अत एव "कर्मणि द्वितीया"(अष्टाध्यायी-२.३.२)इति शास्त्रविहितद्वितीयया सह तस्य वैरूप्यं न भवति।भवन्मते "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रविहितकर्मसञ्ज्ञकद्वितीयायाः सम्बन्धत्वेन बोधस्तथा "कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) इति शास्त्रविधीयमानकर्मसञ्ज्ञकद्वितीयायाः कर्मत्वेन बोधः इति उभयोः स्थलयोः पृथक्पृथग्बोधस्वीकारे "कर्मणि द्वितीया"
(अष्टाध्यायी २.३.२) इति शास्त्रविहितद्वितीयाया वैरूप्यापत्तिरवश्यम्भाविनी वर्तते।अर्थात् एकार्थोपस्थापिका द्वितीया न भविष्यति।"अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रविहितद्वितीयायाः कर्मत्वेन बोधो भवति।अतः "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रोपदेशानाभीष्टसिद्धिः सम्भवास्ति।"कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) तथा "तथायुक्तं चानीप्सितम्" (अष्टाध्यायी १.४.५०) इत्येतच्छास्त्रोपदेशद्वयमनर्थकम् इत्याकारिकाया आशङ्काया समाधानं भाष्यकृतैवं कृतं यत्-"कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) तथा "तथायुक्तं चानीप्सितम्" (अष्टाध्यायी १.४.५०)इत्युभयशास्त्रोपदेशाभावे "वारणार्थानामीप्सितः"(अष्टाध्यायी-१.४.२७)इति सूत्रम् अपवादशास्त्रं भूत्वा "परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः" इति परिभाषाबलात्
"अग्नेर्माणवकं वारयति" इति वाक्यघटकस्य 'माणवक' इत्यस्य अपादानसञ्ज्ञां करिष्यति।भवदीये मते "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रविहितकर्मसञ्ज्ञकद्वितीयायाः सम्बन्धत्वेन तथा "कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) इति शास्त्रविहितकर्मसञ्ज्ञकद्वितीयायाः कर्मत्वेन बोधो भवति।एवं शाब्दबोधीयप्रक्रियायां विभेदापत्तित्वात् "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रेणैव कार्यं स्यात्।
"कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) तथा "तथायुक्तं चानीप्सितम्"(अष्टाध्यायी १.४.५०) इत्युभयशास्त्रोपदेशो न कर्त्तव्यः इत्याशङ्कैव नोत्थिता भविष्यति। कथञ्चित् "तुष्यतु दुर्जन" इति न्यायेन शङ्कोत्थापनस्वीक्रियते,तदापि प्रकृतशङ्काया शाब्दबोधवैरूप्यापत्तिहेतुत्वाद् भाष्यकारेण समाधानं कर्तव्यं स्यात्।न हि "वारणार्थानामीप्सितः"(अष्टाध्यायी-१.४.२७) इति सूत्रस्यापवादमुक्त्वा समाधानं वक्तव्यं स्यात्।अतः "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रविहितकर्मसञ्ज्ञकद्वितीयाया अपि कर्मत्वेन शाब्दबोधः स्वीकर्त्तव्यः।यतोहि भवदीयमते "कर्तुरीप्सिततमं कर्म (अष्टाध्यायी-१.४.४९) " तथा "तथायुक्तं चानीप्सितम्" (अष्टाध्यायी-१.४.५०) इत्युभयसूत्रस्थाने "अकथितं च"(अष्टाध्यायी-१.४.५१) इत्येकसूत्रोपदेशस्वीकारे "अकथितं च" (अष्टाध्यायी-१.४.५१) इति सूत्रेण ईप्सितानीप्सितयोरुभयत्र कर्मसञ्ज्ञा भविष्यति।इत्थञ्च 'अग्नेर्माणवकं वारयति' इति वाक्यघटकयोः अग्निमाणवकयोरुभयोः कर्मसञ्ज्ञा प्राप्यते,अथ च "वारणार्थानामीप्सितः" (अष्टाध्यायी-१.४.२७)इति शास्त्रेणोभयत्र अपादानसञ्ज्ञा प्राप्यते।यतोहि "अकथितं च"(अष्टाध्यायी-१.४.५१) इति सूत्रं दुहादिधातूनां योगे चारितार्थम् अस्ति।अत एव "निरवकाशो विधिरपवादः" इति वचनाद् वारिधातुयोगे "वारणार्थानामीप्सितः" इति सूत्रम् अपवादशास्त्रं भूत्वा "अकथितं च"(अष्टाध्यायी-१.४.५१) इति सूत्रं प्रबाध्य अग्निमाणवकयोरुभयत्र अपादानसञ्ज्ञा ततः "अपादाने पञ्चमी" (अष्टाध्यायी-२.३.२८) इति सूत्रेण पञ्चमीविभक्तिः स्यात्।"कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) इति सूत्रस्य पृथगुपदेशस्वीकारे ईप्सिततमस्य कर्मसञ्ज्ञा तथा ईप्सितस्य "वारणार्थानामीप्सितः"(अष्टाध्यायी-१.४.२७)इत्यनेन अपादानसञ्ज्ञा भवति।एवं विषयभेदत्वाद् "वारणार्थानामीप्सितः (अष्टाध्यायी-१.४.२७) इति सूत्रे चारितार्थं न भवति।अतः माणवके पञ्चमीविभक्तिर्न भवति।
"अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रं भाष्यकृता खण्डितम्।तस्मान्नागेशभट्टेन स्वकीये सिद्धान्तकौमुदीव्याख्याग्रन्थे लघुशब्देन्दुशेखरे दुहादिधातूनां सन्दर्भे भाष्यसम्मतं प्रकारान्तरेण समाधानं प्रस्तुतम्।तद्धि-दुहादीनां धातूनां व्यापारद्वयार्थस्वीकारे "कर्तुरीप्सिततमं कर्म (अष्टाध्यायी-१.४.४९) इति सूत्रेण उभयत्र कर्मसञ्ज्ञा भविष्यति।अतः "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रोपदेशस्य आवश्यकता नास्ति।यतः
"फलैक्ये प्रत्याख्यानं वरं न तु फलभेदे" इति नियमो वर्तते।भवन्मते "अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रेण विहितकर्मसञ्ज्ञया समागतद्वितीयाविभक्तेः सम्बन्धत्वेन बोधो भवति,अथ च "कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) इति शास्त्रविहितकर्मसञ्ज्ञया समागतद्वितीयाविभक्तेः कर्मत्वेन भानं भवति।अतः फलैक्याभावात् प्रत्याख्यानं असम्भवमासीत्।परं भाष्यकारेण दुहादीनां धातूनां धात्वर्थद्वयस्वीकृतिपूर्वकम्
"अकथितं च"(अष्टाध्यायी-१.४.५१) इति सूत्रस्य प्रत्याख्यानं चकार।
अतः द्विकर्मकधातुकारिकायां "कर्मयुग्" इत्युक्तं सङ्गच्छते।लघुशब्देन्दुशेखरे श्रीमान् नागेशभट्टस्तदाह-
"कर्मयुक्तत्वं धात्वर्थव्यापारात् प्राक् तदनन्तरं वा तत्सम्बन्धत्वं बोध्यम्।तद्विषये तु तदनन्तरं तत्सम्बन्धत्वं बोध्यम्"
इति (लघुशब्देन्दुशेखरः)।
प्राच्याणां मते तु "क्षरणानुकूलो व्यापारो दुहेर्थः।
"गां पयो दोग्धि'" इति 'गोः सकाशात् पयो दोग्धि' इति वाक्यघटकस्य क्षरणानुकूलो व्यापारोऽर्थः। क्षरणानुकूलो व्यापारो गोपे तिष्ठति।गोपनिष्ठक्षरणानुकूलव्यापारजन्य-क्षरणरूपफलाश्रयं पयोनिष्ठम्।क्षरणव्यापारात् पयसो विभागो भवति।विभागावधित्वं गोनिष्ठम्।अतः अवधिभूतस्य गोशब्दस्य अपादानत्वं ततः पञ्चमीविभक्तिरायाति।गोरपादानत्वेनाविवक्षापूर्वकं कर्मत्वेन विवक्षा क्रियते चेद् अविवक्षितापादानस्य अवधिभूतस्य गोशब्दस्य कर्मभूतस्य पयश्शब्दस्य च सम्बन्धो भवति।अतः "अकथितं च" (अष्टाध्यायी-१.४.५१) इति शास्त्रेण गोशब्दस्य कर्मसञ्ज्ञायां सत्यां "गां पयो दोग्धि" इति वाक्यमुपपद्यते।परं भाष्यकृता
"अकथितं च"(अष्टाध्यायी-१.४.५१) इति शास्त्रस्य प्रत्याख्यानाद् "विभागानुकूलव्यापारानुकूलव्यापारो दुहेर्थो नागेशेन स्वीक्रियते।
दुहधात्वर्थप्रधानीभूतव्यापारो गोपनिष्ठः, तज्जन्यविभागानुकूलव्यापाररूपं फलं गोनिष्ठम्,अथ च गोनिष्ठव्यापारजन्यविभागरूपफलं पयोनिष्ठम्।अतः गोपयसोरुभयोरपि "कर्तुरीप्सिततमं कर्म"(अष्टाध्यायी-१.४.४९) इति शास्त्रेणैव कर्मसञ्ज्ञां प्रतिपाद्य "अकथितं च"(अष्टाध्यायी-१.४.५१) इति सूत्रं भाष्यकृता प्रत्याख्यातम्।तस्मादेव "गोकर्मक-पयःकर्मक-दोहनानुकूलव्यापारः" इति भाष्यकृन्मते शाब्दबोधः फलति।
एवमेव द्विकर्मकधातूनां विषये सर्वत्र नव्यानां मते व्यापारद्वयात्मको धात्वर्थो ज्ञेयः।विस्तरभयात्तथा प्रसङ्गानूकूलाच्चात्र केवलं धात्वर्थनिरूपणं क्रियते।तद्यथा-
"बलिं याचते वसुधाम् "-अत्र "परस्वत्वनिवृत्तिपूर्वक-स्वस्वोत्पत्त्यनकुलो व्यापारो याचेरर्थ इति प्राच्यमतं तथा
परस्वत्वनिवृत्तिपूर्वक-स्वस्वोत्पत्त्यनकुल-व्यापारानुकूलव्यापारो याचेरर्थ इति नव्यमतम्।
"बलिकर्मक-वसुधाकर्मक-स्वीकारानुकूलाव्यापारः" इति शाब्दबोधो ज्ञेयः।लघुशब्देन्दुशेखरे नागेशेन तदुच्यते-"याचेः स्वीकारानुकूलव्यापारोऽर्थः।स्वीकारश्च 'इदमेव करिष्यामि' इति शब्दप्रयोगजनको ज्ञानविशेषः।
"बलिं भिक्षते वसुधाम्" इत्यत्र परस्वत्वनिवृत्तिपूर्वक-स्वस्वोत्पत्त्यनुकूलव्यापारो याचेरर्थः।अत्र स्वत्वं वसुधायां तिष्ठति ,अथ च स्वत्वनिरूपितं स्वामित्वं बलौ तिष्ठति।अर्थात् वसुधानिष्ठ-स्वत्वनिरूपितस्वामित्वं बलिनिष्ठम्।अतः वसुधात्र कर्म वर्तते।वसुधाया बलिना सार्धं स्वस्वामिभावसम्बन्धे सति प्रकृतस्थले बलिराज्ञि सम्बन्धसामान्ये
"षष्ठी शेषे" इति सूत्रेण षष्ठीविभक्तिः प्राप्यते।तदविवक्षायाम् "अकथितं च" इति सूत्रेण बलेः कर्मत्वमिति प्राचां मतम्।
व्यापारद्वयात्मकपक्षे परस्वत्वनिवृत्तिपूर्वक-
स्वस्वोत्पत्त्यनुकूल-व्यापारानुकूलव्यापारो याचेरर्थः।याचधात्वर्थप्रधानीभूतव्यापारो याचकनिष्ठः,तज्जन्यः "अहं ददामि" अर्थात् याचकस्वोत्पत्त्यनुकूलव्यापाराश्रयो बलिस्तथा याचकस्वोत्वोत्पत्तिरूपफलाश्रयं वसुधा।एवं बलिवसुधयोर्द्वयोरपि "कर्तुरीप्सिततमं कर्म" इति सूत्रेण कर्मत्वसिद्धिः।
"तण्डुलान् ओदनं पचति" इत्यत्र "विक्लित्यनूकूलो व्यापारः पचेरर्थः" इत्येकव्यापारार्थस्वीकृतिपक्षावम्बिनां मतम्।परं "कर्तुरीप्सिततमं कर्म" इति सूत्रव्याख्यायां महाभाष्यटीकायां "विक्लित्तिनिर्वृत्त्युभयफलानुकूलव्यापारः पचेरर्थः" इति कैयटवचनानुरोधाद्व्यापारद्वयार्थवादिभिस्तन्मतं दूष्यते।यतोहि तण्डुले विक्लेदने सति ओदनस्य निर्वर्तनं भवति।अतएव विक्लेदनरूपफलाश्रयत्वात् तण्डुलस्य तथा निर्वर्तनरूपफलाश्रयत्वादोदनस्य कर्मत्वं "कर्तुरीप्सिततमं कर्म" इति सूत्रेणैव सिध्यति।अतः तन्मते "अकथितं च" इति सूत्रस्य एतदुदाहरणं चिन्त्यमेव।
"गर्गान् शतं दण्डयति"- इत्यत्र स्वसम्प्रदानकदानानुकूल-व्यापारानुकूल-शासनव्यापारो वा दण्डेरर्थः।अत एव दानरूपफलाश्रयत्वात् शतस्य तथा दानानुकूलव्यापाररूपफलाश्रयत्वाद् गर्गस्य च कर्मत्वं "कर्तुरीप्सिततमं कर्म" इति शास्त्रेणैव सङ्गच्छते।अतः "अकथितं च" इति शास्त्रोपदेशस्य व्यर्थत्वं सुतरां स्पष्टमेव।
"व्रजमवरुणद्धि गाम्" इत्यत्र। "निर्गमप्रतिबन्धकपूर्वक-यत्किञ्चिदधिकरणक-चिरस्थित्यनुकूलव्यापारानुकूलव्यापारो रुधेरर्थः"।
"माणवकं पन्थानं पृच्छति" इत्यत्र जिज्ञासाविषयार्थज्ञानानुकूलः,केन पथा गन्तव्यम् इत्यभिलाषादिरूपो व्यापारः पृच्छेरर्थः।अर्थात्
"जिज्ञासाविषयार्थज्ञानानुकूल-व्यापारानुकूलव्यापारो पृच्छेरर्थः " इति व्यापारद्वयार्थवादिनां मतम्।
वृक्षमवचिनोति फलानि-
विभागपूर्वकादानानुकूलव्यापारश्चिञोऽर्थः।
अयमाशयो यत्
विभागपूर्वकपात्रस्थापनानुकूलव्यापारः चिधात्वर्थः।
"माणवकं धर्मं ब्रूते शास्ति वा" -
ज्ञानानुकूलशब्दप्रयोगरूपो व्यापारो ब्रुञोऽर्थः।
शास्त्रोपदिष्टं धर्माचरणं कुरु इत्याकारक- प्रकृतिपर्यवसायी ज्ञानानुकूलव्यापारः शासेरर्थः।
"ग्राममजां हरति नयति हरति कर्षति वहति वा"-
संयोगानुकूलव्यापारानुकूलव्यापारो नयतेरर्थः।स्कन्धग्रहणपूर्वकसंयोगानुकूलव्यापारानुकूलव्यापारो वहतेर्थः।
गत्यनुकूव्यापारानुकूलव्यापारविशेषः कर्षतेरर्थः।
बलाद्ग्रहणपूर्वकदेशान्तरप्रापणानुकूल-
व्यापारानुकूलव्यापारो हरतेर्थः।
एतेषां परिगणनं प्राच्यवैयाकरणानुरोधेन कृतं भाष्ये तदर्शनात्।यतोहि भाष्ये "दुहियाचिरुधिप्रच्छिभिक्षिचिञ्ब्रुविशासयो द्विकर्मकधातवः" इति परिगण्यन्ते।तदुच्यते लघुशब्देन्दुशेखरे नागेशेन-"एवञ्च भाष्यानुक्तानामत्र ग्रहणं प्राचामनुरोधेनेति तत्त्वम्।भाष्योक्ता हि दुहियाचिरुधिप्रच्छिभिक्षिचिञ्ब्रुविशासयः" इति
(लघुशब्देन्दुशेखरः)।
एवमेव व्यापारद्वयं स्वीकृत्य सर्वत्र द्विकर्मकधातूनां विषये
भाष्यसम्मतं कर्मसञ्ज्ञाविधानं ज्ञेयमित्यलम्।
तदित्थम् विवेचनेनेदं सिध्यति यद् अव्ययसञ्ज्ञकशब्देष्वपि निहितधात्वार्था, धातूनाम् अन्तर्भाविण्यन्तधात्वर्थाः, धात्वर्थे निहितधात्वर्थाश्च भवन्तीति शम्।
Comments
Post a Comment