विकरणप्रुक्ता धात्वर्थाः(विकरणानुसारिणो धात्वर्थाः)

शब्दशास्त्रीये रूपसिद्धिप्रक्रियाविज्ञाने धातुगुणधर्मस्वरूपसाम्याधारेण धातवो दशसु गणेषु विभज्यन्ते।येन प्रक्रियाविज्ञानं सारल्येन लोकोपकारकं सुग्राह्यञ्च भवतिस्मर्यते चैतत् संस्कृतवाङ्मयेऽतीव विशाला शब्दराशिः वर्तते।तस्माद् व्याकरणे समेषां शब्दानां (धातूनां प्रातिपदिकानाञ्चप्रतिपत्पाठोऽसम्भवः तत्कृतस्नरूपसिद्धिश्च ततोऽपि दुर्बोध्या,यतोहि एवं श्रूयते हि-"महान् शब्दस्य प्रयोगविषयः....." तथा

"बृहस्पतिः प्रवक्ता इन्द्रश्चाध्येता दिव्यं वर्षसहस्रं चाध्ययनकालः।बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानाशब्दपरायणं प्रोवाच चान्तं जगामकिं पुनरद्यत्वे,यः सर्वथा चिरं जीवति वर्षशतं जीवति.....( महाभाष्यम् प्रथमोऽध्यायः, प्रथमपादः,प्रथमाह्निकम् )

 अनेकेषां धातूनाम् एकत्र पठनं तेषां समूहो वा गणनाम्ना व्यपदिश्यते। प्रत्येकं गणस्य नामकरणं धातोः प्रथमपाठाधारेण वर्तते।तद्यथा-

"भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव

तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः।

 अयञ्च धातुगणविभागो विकरणाधारेणैव भवति।यतोहि विकरणभेदादेव धातुगणविभागः प्रवर्तते।अर्थात् क्रिर्यार्थानां धातूनां स्वरूपनिर्धारणे विकरणस्य प्रमुखं महत्त्वपूर्णं स्थानञ्चास्तिविकरणस्वरूपं दृष्ट्वैव यतो धातुगणनिर्धारणं भवतिपुनश्च विकरणो धात्वर्थनिर्णयेऽपि महदुपकरोति।तस्मादध्यायेऽस्मिन् विकरणभेदात् कथं धातुगणपरिवर्तनं धात्वर्थनिर्णयश्च कथम्भवतीति मनसि भावमङ्गीकृत् "विकरणानुसारिणो धात्वर्थाः"इति अनुसन्धानविषयांशः प्रस्तूयते

 तत्रादौ किं नाम विकरणस्वरूपमिति जिगमिषायामुच्यते-धातोस्तिङ्प्रत्ययानाञ्च मध्यवर्ती वर्णागमो हि विकरणनाम्ना व्यपदिश्यते।तस्माद् "विकरणो नाम क्रियारचनानुषाङ्गिकं  धातुगणद्योतकचिह्नम्" इति तावद् विकरणस्वरूपं परिष्फुटतिवस्तुतः विकरणा धात्वर्थबोधका भवन्ति।यतोहि वैयाकरणानां निकाये फलं व्यापारश्च धातोरेवार्थः।तदाह भूषणकारिकायाम्-"फलव्यापारयोर्धातुः"इति (वैयाकरणभूषणसारः)परं धातौ विकरणयोगं विधाय परिनिष्ठिते क्रियापदे सिद्धे सति विकरणमवलोक्य इमं निर्णयं वयं कर्तुं पारयामो यदयं धातुः एतद्गणीयस्तथायं धातुरस्मिन्नर्थे धातुपाठे पठ्यते।तद्यथा-असधातुः समानानुपूर्विकत्वेन भ्वादिगणेऽदादिगणे चावलोक्यते।भ्वादिगणे "अस गतिदीप्त्यादानेषु" इति तथा अदादिगणे "अस भुवि" इति।अतः एतादृशस्थले सन्देहो जायते।यदयं धातुः कस्य गणस्य वर्तते।तत्र पुनः "असति,असते,अस्ति"इत्यादिषु 

क्रियापदेषु विकरणं दृष्ट्वा गणनिर्धारणं ततश्च धात्वर्थनिर्णयो वैयाकरणैः क्रियते।यतोहि वैयाकरणानां राद्धान्तो वर्तते-

"व्याख्यानाद् विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्"इतिअयमभिप्रायो वर्तते यत्र क्वचित् शास्त्रीयप्रयोगे सन्देहो भवति तत्र व्याख्यानेन सन्देहनिर्णयः कर्त्तव्यो नहि सन्देहाद् अयं प्रयोगो युक्तो नैवेति निर्णयः कर्त्तव्यः।अतः वैयाकरणमहाभाष्ये शेषावतारो भगवान् पतञ्जलिः व्याकरणशास्त्रस्य मुख्यप्रयोजनावसरे "रक्षोहागमलघ्वसन्देहाः प्रयोजनम्"इति निर्दिशति।शाब्दिकाः क्रियाप्रयोगं दृष्ट्वा, पूर्वं तस्य गणादिकं सर्वं बुद्धीकृत्य ततोऽर्निर्णयं यावद्गच्छन्तीति मे मतिः

पुनश्च-विदधातुः पाणिनिधातुपाठे समानानुपूर्विकत्वेन चतुर्षु गणेषु पठ्यते।


."विद ज्ञाने"

इति अदादिस्थः परस्मैपदी सकर्मकः सेट् धातुः, कविकल्पद्रुमे तु "विद मतौ"इति

"विद सत्तायाम्" इति दिवादिस्थ आत्मनेपदी अनिट् धातुः, कविकल्पद्रुमे पुनः "विद भावे" इति।तत्र भावो नाम सत्ता विद्यमानतैव

."विद विचारणे"इति रुधादिस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः,कविकल्पद्रुमे "विद मीमांसे"इति।तत्र मीमांसा नाम विचारणमेव

."विद चेतनाख्याननिवासेषु"इति चुरादिस्थ आत्मनेपदी सेट् धातुर्वर्तते।कविकल्पद्रुमे तु "विद चेतनाख्यानवासवादे"इति।तत्र चेतना नाम ज्ञानं,वादो नाम स्थैर्यम् इति

चुरादिगणीयो विदधातुः क्वचित् सकर्मकः क्वचिच्चाकर्मकः।चेतनाख्याने सकर्मकः तथा वासवादेऽकर्मक इति विशेषः।तुदादिगणे तु असमानानुपूर्विकत्वेन "

.विद्लृ लाभे" इति तुदादिस्थ उभयपदी सकर्मकोऽनिट् धातुः पठ्यते।एतादृशेषु स्थलेष्वपि धातुगणकार्यं विकरणं विचिन्त्य तदर्थोऽवधारणीयः

अत्र मानम्-

"सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे

विन्दति विन्दते प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात्।

(वैयाकरणसिद्धान्तकौमुदी,चुरादिप्रकरणम्)

 भगवता पाणिनिना अष्टाध्याय्यां स्वसूत्रेषु विकरणसहितानाम् अनेकेषां धातूनामुपदेशो विहितः।तद्यथा-

"वेत्तेर्विभाषा"(अष्टाध्यायी-..) इति सूत्रे"वेत्ते:" इत्यत्र शब्लुग्विकरणेनोपदिश्यते।अतः -

."विद ज्ञानेइति अदादिस्थः परस्मैपदी सकर्मकः सेट् धातुः, कविकल्पद्रुमे तु "विद मतौ"इति

"विद सत्तायाम्" इति दिवादिस्थ आत्मनेपदी अनिट् धातुः,कविकल्पद्रुमे पुनः "विद भावे" इति।तत्र भावो नाम सत्ता विद्यमानतैव

."विद विचारणे"इति रुधादिस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः,कविकल्पद्रुमे "विद मीमांसे"इति।तत्र मीमांसा नाम विचारणमेव

."विद चेतनाख्याननिवासेषु"इति चुरादिस्थ आत्मनेपदी सेट् धातुर्वर्तते।कविकल्पद्रुमे तु "विद चेतनाख्यानवासवादे"इति।तत्र चेतना नाम ज्ञानं,वादो नाम स्थैर्यम् इति

चुरादिगणीयो विदधातुः क्वचित् सकर्मकः क्वचिच्चाकर्मकः।चेतनाख्याने सकर्मकः तथा वासवादेऽकर्मक इति विशेषः।तुदादिगणे तु असमानानुपूर्विकत्वेन विदधातुः पठ्यते-

."विद्लृ लाभे" इति तुदादिस्थ उभयपदी सकर्मकोऽनिट् धातुश्च

इत्येतेषु पञ्चसु विदधातुषु अदादिगणस्य शब्लुग्विकरणसहितस्य "विद ज्ञाने" इति धातुरेवात्र ग्राह्यः।तदत्र मानम्-

"वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत्विन्ते, विन्दाते, विन्दते" इति (काशिका)

तथाहि-"सतालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम्इति (पदमञ्जरी)

"अस्यतिवक्तिख्यातिभ्योऽङ्(अष्टाध्यायी-..५२) इति पाणिनिसूत्रमपि मानं वर्तते।अस्य सूत्रस्य अयमभिप्रायो यद् "एभ्यः सूत्रोपदिष्टेभ्यो धातुभ्यः च्लेरङ् स्यादिति।अत्र पुनः जिज्ञासा समुदेति यदत्र-

()."अस गतिदीप्त्यादानेषु" इति भ्वादिगण उभयपदी सकर्मकः सेट् धातुः

(.)"अस भुवि" इति अदादिगणः परस्मैपदी अकर्मकः सेट् धातुः

()."असु क्षेपणे" इति दिवादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः

           इत्येतेषु त्रिषु धातुषु कतमस्य धातोर्ग्रहणं कर्त्तव्यम्।तदा व्याख्यानान्निर्णयो भवति यस्मिन् सूत्रे आचार्यपाणिनिः दिवादिगणस्य श्यन्विकरणसहितस्य असुधातोः प्रयोगं चकार।तस्मादत्र क्षेपणार्थकाद् असुधातोश्च्लेरङ् भवत्विति

पुनश्च-

"अस्यतितृषोः क्रियान्तरे कालेषु"

(अष्टाध्यायी-..५७) तथा "अस्यतेस्थुक्" (अष्टाध्यायी-7.4.57) इति सूत्रयोरपि तद्वत् श्यना विकरणेन सहितस्य अस्यतिग्रहणाद् दिवादिगणस्थस्य क्षेपणार्थकस्य "असु क्षेपणे" इति धातोरेव ग्रहणम् भवतीति

 

 

"उदि श्रयतियौतिपूद्रुवः"

(अष्टाध्यायी-..४९)

इति सूत्रेण उच्छब्द उपपदे श्रयत्यादिभ्यो घञ् प्रत्ययो भवति

अत्र जिज्ञासते यत् 

."श्रिञ् सेवायाम्"इति भ्वादिगणीयः उभयपदी सकर्मकः सेट् धातुः

."श्रीञ् पाके"इति क्र्यादिगणीय उभयपदी सकर्मकोऽनिट् धातुः

इत्यनयोः कतरो धातुर्ग्राह्यः?

पुनश्च-

."यु मिश्रणेऽमिश्रणे " क्वचिद् 

 "यु मिश्रणामिश्रणयोः" इति अदादिस्थोऽकर्मक आत्मनेपदी सेट् धातुः

."युञ् बन्धने"इति क्र्यादिगणीय उभयपदी सकर्मकोऽनिट् धातुः

."यु जुगुप्सायाम्"(जुगुप्सा नाम निन्दनम्) इति चुरादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः

इत्येतेषु त्रिषु कतमो धातुरत्र बोध्यः

तदा व्याख्यानादिदं ध्वन्यते यदस्मिन् सूत्रे शब्विकरणसहितस्य भ्वादिस्थस्य "श्रिञ् सेवायाम्"इति धातोर्लट्लकारस्य प्रथमपुरुषैकवचनस्य "श्रयति"इति प्रयोगनिर्देशात् सेवार्थकः "श्रिञ्"धातुः ग्राह्यस्तथा लुब्विकरणसहितस्

अदादिगणस्य "यु मिश्रणेऽमिश्रणे "इति धातोर्लट्लकारस्य प्रथमपुरुषैकवचनस्य "यौति"इत्युपदेशादत्र मिश्रणामिश्रणार्थकस्य "यु"धातोः ग्रहणं बोध्यमिति

 

 

"एतिस्तुशास्वृदृजुषः क्यप्"

(अष्टाध्यायी-..१०९) इति सूत्रे जिज्ञासोद्भवति यदत्र "इङ् अध्ययने"

(अदादिगणस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः), "इक् स्मरणे" (अदादिस्थः परस्मैपदी सकर्मकोऽनिट् धातुः),

"इण् गतौ"

(अदादिगणीयः परस्मैपदी सकर्मकोऽनिट् धातुः), "ईङ् गतौ"

(दिवादिस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः) इत्येतेषु चतुर्षु धातुषु कस्यात्र ग्रहणं स्यात्।तदा व्याख्यानाज्ज्ञायते यत् प्रथमयोर्द्वयोरत्र ग्रहणं भवितुं नार्हति यतोहि तौ धातू नित्यमधिपूर्वकावेव व्यवह्रियेते।तदाह-

"अधिग्रहणम् अन्यपूर्वस्य केवलस्य प्रयोगनिरासार्थम्" इति तथाहि-"इङिकावध्युपसर्गतो व्यभिचरतः" इति 

(सिद्धान्तकौमुदी) अर्थात् "इङ् अध्ययने" तथा "इक् स्मरणे"इति धातुद्वयमपि अध्युपसर्गं विना प्रयुज्यते

पुनर्जिज्ञासा अन्तिमयोर्द्वयोः कस्यात्र ग्रहणं स्यादिति।तदैवं निर्णयः क्रियते यद् "एतिस्तुशास्वृदृजुषः क्यप्"इति पाणिनिसूत्रे अदादिगणस्य लुग्विकरणसहितस्य "एति"इति प्रयोगेण इदं ध्वन्यते यदत्रादादिगणस्य "इण् गतौ" इति धातोरेव ग्रहणम् भविष्यति नान्यस्येति भावः

 

अत एव महाभाष्ये "रक्षार्थं वेदानामध्येयं व्याकरणम्" इत्यत्र यत्प्रत्ययान्तस्यैव अध्येय इति शब्दस्य प्रयोगः, तु अधीत्य इति क्यप्प्रत्ययान्तस्य। अत्र यथा इङ् अध्ययने इति धातोः अध्येयम् इति प्रयोगः, तथैव तुल्यन्यायात् इक् स्मरणे इत्यस्य अध्येयम् इत्येव प्रयोगो भविष्यतीत्यपि भाष्यप्रयोगेण ध्वन्यते

एतच्च पदमञ्जर्यां, तत्त्वबोधिन्यामपि स्पष्टीकृतम्

तथा चोक्तं पदमञ्जर्याम्

"अत्र चेण एव ग्रहणम्, नेङिकोः, तयोरधिपूर्वयोरेव प्रयोगादेतीति निर्देशानुपपतेः। तथा - रक्षार्थं वेदानामध्येयं व्याकरणम् इति भाष्ये यदेव प्रयुक्तः। केचितु इण्वदिक इति वक्तव्यम् इति वचनादधीत्या मातेत्यप्युदाहरन्ति।" इति। 

पदमञ्जर्यां "केचित्" इति पदेन एति पदेन "इक् स्मरणे" इत्यस्यापि ग्रहणे अरुचिः प्रदर्शिता

तत्त्वबोधिन्यामपि एवमेवोक्तम्- "एतीतीण एव ग्रहणं, नेङिकोः, तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः तथा रक्षार्थं वेदानामध्येयं व्याकरण॑मिति भाष्ये यदेव प्रयुक्तः।" इति।

 

"अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च"

(अष्टाध्यायी-..१३८)

इत्यने

अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति।सूत्रेऽस्मिन् पुनर्जिज्ञासा भवति यत् पूर्ववर्णितेषु "विद सत्तायाम्","विद ज्ञाने", "विद विचारणे"

"विद चेतनाख्याननिवासेषु" तथा 

"विद्लृ लाभे" इत्येतेषु पञ्सु धातुषु कतरो धातुरत्र ग्राह्यः।व्याख्यानविधिना पुनरिदमाख्यायते यत्सूत्रेऽस्मिन् नुम्सहितः शविकिरणसहितो "विन्द"इति धातुरुपदेशाद् शविकरणसहितस्य तुदादिगणस्य "विद्लृ लाभे"इत्येव धातुरत्र बोध्यः

पुनश्च 

लिम्प इत्यत्र नुम्सहितस्य शविकरणसहितस्य चोपदेशात् "लिप उपदेहे"इति तुदादिगणी

उभयपदी सकर्मकोऽनिट् धातुर्ग्राह्यः

 

"मन्यकर्मण्यनादरे विभाषाऽप्राणिषु"(अष्टाध्यायी-..१७इति सूत्रे जिज्ञासोद्भवति यदत्र-

."मन ज्ञाने" इति दिवादिगणस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः

."मनु अवबोधने" इति तनादिगणस्थ आत्मनेपदी सकर्मकः सेट् धातुः

इत्यनयोः कतरस्य धातोर्ग्रहणं स्यात्तदा व्याख्यानेनेदं बुध्यते यदस्मिन् सूत्रे श्यना विकरणेन सहितस्य "मन्य"इत्युपदेशादत्र दिवादिगणस्थस्य ज्ञानार्थकस्य मनधातोरेवात्र ग्रहणं स्यात्।तत्र मानं-

"प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे।न त्वां तृणं मन्ये तृणाय वा।श्यना निर्देशात्तानादिकयोगे न।न त्वां तृणं मन्वेऽहम्इति (सिद्धान्तकौमुदी)।

     यदा पुनरेका जिज्ञासा समुदेति यत्सूत्रे यदा यका निर्देशो स्वीकर्त्तव्यो तु श्यना निर्देशस्तदा तदपि तत्त्वबोधिनीकारेण वार्यते।तद्यथा-

मन्य इति यका निर्देशः किं स्यादिति वाच्यम्, अनभिहित इत्यधिकारात्।न हि यका योगे अनभिहितं कर्म सम्भवतीति (तत्त्वबोधिनी)

 "प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च" (अष्टाध्यायी-१.४.१०६)

इति सूत्रे "मन्य" तथा "मन्यते" इत्यनयोः श्यना विकरणेनोपदेशः क्रियते। तस्मात् सूत्रेऽस्मिन्  दिवादिगस्य मनधातोरेव ग्रहणं विज्ञेयं न तु तनादिगणस्येति।तदत्र मानम्- 

"मन्यतेरिति श्यना निर्देशः, इत्यस्य तानादिकस्य ग्रहणं मा भूदत्येवमर्थः" इति (न्यासः)।

तथाहि-

"श्यनानिर्देशान्मन ज्ञानैत्यस्य ग्रहणम्, न तु'मनु अवबोधने' इत्यस्य" इति 

(पदमञ्जरी)

अन्यत्र चोक्तम्- 

"मनधातुः श्यन्विकरण:" इति (बालमनोरमा, तत्त्वबोधिनी च)।

"स्वरतिसूतिसूयतिधूञूदितो वा"

(अष्टाध्यायी-..४४) इति सूत्रेऽपि 

भगवता पाणिनिना त्रयो धातवो विकरणसहिताः समुपदिष्टास्ते चात्र क्रमशः प्रस्तूयन्ते-

."स्वरति"-स्वरतीत्यत्र शपा निर्देशो विद्यते।एतस्माद्धि-

()."स्वृ शब्दोपतापयोः" इति भ्वादिगणः परस्मैपदी सकर्मकोऽकर्मकश्च वेट् धातुः।उपतापो नाम रोगः।अयं धातुः शब्देऽर्थेऽकर्मक उपतापे सकर्मकश्चास्ति

()."स्वर आक्षेपे" इति चुरादिगण उभयपदी सकर्मकः सेट् धातुः

इत्यनयोः भ्वादिगणस्य शपा निर्दिष्टस्य "स्वृ शब्दोपतापयोः" इत्यस्य ग्रहणं भवतु

 

()."सूति" इत्यत्र शब्लुग्विकरणेन श्तिपा प्रत्ययेन निर्देशात् -

()."षु प्रसवैश्वर्ययोः" इति भ्वादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्र प्रसवोऽभ्यनुज्ञानम् इति

()."षु प्रसवैश्वर्ययोः" इति अदादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्रापि प्रसवोऽभ्यनुज्ञानम् इति

().षूङ् प्राणिगर्भविमोचने" इति अदादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः

()."षूङ् प्राणिप्रसवे" इति कविकल्पद्रुमे तु "षूङ् सूतौ इति दिवादिगणः आत्मनेपदी सकर्मकः सेट् धातुः।तत्र सूतिर्नाम गर्भविमोचनमिति

()."षूञ् अभिषवे" इति कविकल्पद्रुमे "षूञ् सन्धाने,सोमादेः पीडने,मन्थने , चकारात् स्नाने" इति 

स्वादिगण उभयपदी सकर्मकोऽकर्मश्च  

अनिट् धातुः।अयं धातुः स्नानेऽकर्मकस्तथान्यत्र सकर्मको वर्तते

()."षू प्रेरणे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुः

इत्येतेषु षट्सु धातुषु शब्लुग्विकरणस्

अदादिगणीयस्य "षूङ् प्राणिगर्भविमोचने" इति धातोरत्र ग्रहणं कर्तव्यम्

 

."सूयति"- इत्यत्र श्यना विकरणेन श्तिपा प्रत्ययेन निर्दिश्यते।तस्माद्-

उपर्युक्तेषु षट्सु धातुषु "दिवादिगणः श्यन्विकरण: "षूङ् प्राणिप्रसवे" इति धातुरत्र ग्रहीतव्यः

तत्र मानम्

"अथ किमर्थं सूतिसूयत्योः पृथग्ग्रहणं क्रियते ?,सुवतेर्मा भूत्।अथ किमर्थं धूञः सानुबन्धकस्य ग्रहणं क्रियते?, धुवतेर्मा भूदिति" (महाभाष्यम् )

अन्यद्धि

"अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, `सू` इत्येबोध्येत? इत्यत आह - `सूतिसूयत्योः` इत्यादि। `सू` इत्युच्यमाने `निरनुबन्धकग्रहणे सानुबन्धकस्य` (व्या।प।५३) इति `सू प्रेरणे` (धातुपाठः-१४०८) [`षू प्रेरणे` - धातुपाठः-] इत्यस्यैव ग्रहणं स्यात्। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत्? प्रयोजनम्, सूङिति निर्देशः कर्तव्यः? नैवं शक्यम्; एवं हि सति निर्देशे क्रियमाणे `लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।५०) इति सूयतेरेव ग्रहणं स्यात्, सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्रसत्यां `सूङ्` इति निर्देशं कुर्याद्" इति न्यासकारः

पुनश्च-

" स्वरति सूति सूयति धूञ् ऊदित्एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं फलितमाहस्वरत्यादेरिति स्वरतीति स्वृधातोः शपा निर्देशः सूतीति सूयतीति लुग्विकरणस्य श्यन्विकरणस्य सूधातोर्निर्देशः एवंच षू प्रेरण इति तौदादिकस्य ग्रहणम् 'धूञ् कम्पने' स्वादिः क्र्यादिश्च ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य ग्रहणम्" इति (बालमनोरमा)

तथाहि -

"ननु स्वरतिसूधूञूदितो वे॑ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन मैवम् तथाहि सति निरनुबन्धकपरिभाषयाषू प्रेरणे॑ इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः चैवं षूङिति पठतामिति वाच्यं,लुग्विकरणाऽलुग्विकरणयो॑रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात् अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः" इति (तत्त्वबोधिनी)

 

"सेधतेर्गतौ" (अष्टाध्यायी-. .११३) इति सूत्रे सेधतेरित्यत्र शपा विकरणेन श्तिपा प्रत्ययेन चोपदिश्यते।तस्मात्-

()."षिध गत्याम्" केषाञ्चिन्मते "षिधु गत्याम्" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः

()."षिधू शास्त्रे माङ्गल्ये " इति भ्वादिगणः परस्मैपदी सेट् धातुः।अत्र शास्त्रं नाम शासनमिति मैत्रेयशाकटायनौ, शास्त्रं नाम शिष्टिरिति चन्द्रदेवस्तथा शास्त्रं नाम शास्त्रविषयं शासनम् एवं मङ्गलं नाम मङ्गलविषया क्रियेति क्षीरस्वामी

कविकल्पद्रुमे तु धातुरयं शिवे शास्त्रे निर्दिष्टो वर्तते।तत्र शिवो नाम मङ्गलं तथा शास्त्रं नामानुशासनम्।अयं धातुः शासनार्थे सकर्मको मङ्गलार्थे चाकर्मको विद्यते

()."षिधु संराद्धौ" इति दिवादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः।अत्र संराद्धिर्नाम निष्पत्तिः सिद्धिरत्यर्थः

भ्वादिगणः शब्विकरणः षिधधातोरत्र ग्राह्यः

अत्र मानम् -

श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव - `विषेषिधीति` सेदेति शपा निर्देशाद्यङलुकि `उपसर्गात्सुनोती`ति षत्वं भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयर्थ्यापत्तेरिति दिगिति (तत्त्वबोधिनी)

 "सिध्यतेरपारलौकिके" (अष्टाध्यायी-..४९)

इति सूत्रे सिध्यतेरित्यत्र श्यना विकरणेन श्तिपा प्रत्ययेन चोपदिश्यते।तस्मात्-

()."षिध गत्याम्" केषाञ्चिन्मते "षिधु गत्याम्" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः

()."षिधू शास्त्रे माङ्गल्ये " इति भ्वादिगणः परस्मैपदी सेट् धातुः।अत्र शास्त्रं नाम शासनमिति मैत्रेयशाकटायनौ, शास्त्रं नाम शिष्टिरिति चन्द्रदेवस्तथा शास्त्रं नाम शास्त्रविषयं शासनम् एवं मङ्गलं नाम मङ्गलविषया क्रियेति क्षीरस्वामी

कविकल्पद्रुमे तु धातुरयं शिवे शास्त्रे निर्दिष्टो वर्तते।तत्र शिवो नाम मङ्गलं तथा शास्त्रं नामानुशासनम्।अयं धातुः शासनार्थे सकर्मको मङ्गलार्थे चाकर्मको विद्यते

()."षिधु संराद्धौ" इति दिवादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः।अत्र संराद्धिर्नाम निष्पत्तिः सिद्धिरत्यर्थः

दिवादिगणः श्यन्विकरणः षिधधातोरत्र ग्राह्यः

अत्र मानम् -

"सिध्यतेरिति श्यना निर्देशः षिधु गत्याम् इत्यस्य भौवादिकस्य निवृत्त्यर्थः"इति (काशिका)

पुनश्च-

"अथ सिद्ध्यतेः श्यना निर्देशः किमर्थः, सिधेरित्येवोच्येत, एवं हि लघु सूत्रं भवति? इत्याह -`सिद्ध्यतेः` इत्यादि" (न्यासः)

तथाहि-

"श्यना निर्देशाद्भौवादिकस्याऽग्रहणम्" इति (तत्त्वबोधिनी)

 

"वसतिक्षुधोरिट्"

(अष्टाध्यायी-..५२)

इति पाणिनिसूत्रे "वसति" इति शपा विकरणेन निर्दिश्यते।तस्माद्धि-

()."वस निवासे" इति भ्वादिगणीयः परस्मैपदी अकर्मकोऽनिट् धातुः

()."वस आच्छादने" इति कविकल्पद्रुमे तु "वस स्तृतौ" इति अदादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः।स्तृतिरिह आच्छादनपूर्वकधारणम्

()."वस स्तम्भे" इति दिवादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः।स्तम्भ इह नम्रतारहितीभावः

()."वस निवासे" इति चुरादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः

()."वस स्नेहछेदापहरणेषु" इति कविकल्पद्रुमे "वस स्नेहछिदोश्च चकाराद् वधे "।स्नेह इह प्रीतिः

इत्येतेषु पञ्चसु वसधातुषु शब्विकरणसहितस्य भ्वादिस्थस्य "वस निवासे" इति धातुरेवात्र ग्राह्यः

प्रमाणन्तु अत्रेदं वर्तते-

"वसतीति विकरणो निर्देशार्थ एव" इति (काशिका)

पुनश्च -

"वसतीति विकरणनिर्देशः` इत्यादि। `विकरणनिर्देशो धातुनिर्देशार्थे एव` इत्युक्तम्।" इति न्यासः

तथाहि-

"वसती॑ति शपा निर्देशः स्पष्टार्थः" इति (तत्त्वबोधिनी)

अन्यच्च-

"वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो भवति"इति (पदमञ्जरी)

 

"गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु"

(अष्टाध्यायी-..७७)

इति सूत्रेऽपि आचार्येण विकरणसहितो धातुरुपदिश्यते।तदत्र प्रतिपाद्यते-

."गाति"- गातीति श्तिपा प्रत्ययेन शब्लुग्विकरणेन चोपदेशात्-

()."गाङ् गतौ" इति भ्वादिगणीय आत्मनेपदी सकर्मकोऽनिट् धातुः

()."इण् गतौ"इति अदादिगणीयः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्र इणो धातोः स्थान

"इणो गा लुङि"(अष्टाध्यायी-..४५) इति सूत्रेण गारूपादेशो भवति।अतोत्र गाधातुर्लभ्यते

()."गा स्तुतौ" जुहोत्यादिगणीयः परस्मैपदी सकर्मकोऽनिट् धातुः

()."गै शब्दे"इति भ्वादिगणीयः परस्मैपदी अकर्मकोऽनिट् धातुः।गैधातोः स्थाने "आदेच उपदेशेऽशिति"

(अष्टाध्यायी-..४५) इति सूत्रेणोपदेशावस्थायामेव अशिति प्रत्यये परे आरूपादेशे सति "गा" इति लभ्यते

 इत्येतेषु चतुर्षु गारूपधातुषु कस्यात्र ग्रहणं स्यादिति यदा जिज्ञासोद्भवति,तदा गातीत्यत्र शब्लुग्विकरणसहितस्योपदेशाद् व्याख्यानादिदं ज्ञायते यदत्र शब्लुग्विकरणसहितस्य अदादिगणस्य इणो धातोः स्थाने गारूपादेशो गाधातुरेव गृह्यते

पुनश्च -

()."पा"-इत्यनेन "लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम् इति परिभाषया अलुग्विकरणस्यभौवादिक

 पिबादेशः पाधातुरत्र गृह्यते।न तु अदादिगणस्य लुग्विकरणस्य रक्षणार्थकस्य पाधातुः गृह्यते

तत्र मानम् -

"गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम् " इति (वार्तिकम्)

"गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्।गायतेः पातेश्च भवति" इति (काशिका)

 

पुनश्च-

"गा तिपि शब्लुका निर्दिष्टः, स्थानिवद्भावात्प्रकृतिवदनुकरणं भवतीति तेन 'गामादाग्रहणेष्वविशेषः' इति लाक्षणिकस्यापि गारूपस्य यद्यपि ग्रहणं प्राप्तम्,तथापि गातीति निर्देशादेव तस्य निवृत्तिः। तथा'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति पिबतेरेव ग्रहणम्" इति (पदमञ्जरी)

 

"इह गातिस्थेति, सूत्रे गातीत्यनेन पाग्रहणेन इणो गा लुङीति लुग्विकरणस्येणो गादेशः, शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्रेते इत्यर्थः ।गापोग्र्रहणे इण्पिबत्योग्र्रहण॑मिति भाष्यादिति भावः" इति (बालमनोरमा)

 

" गातीति श्तिपा विकरणशून्यस्य निर्देशाल्लुग्विकरण इणादेशो गृह्रते,लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण॑मिति परिभाषया पिबतिर्गृह्रते तु पातिरित्यर्थः"इति (तत्त्वबोधिनी)

तथाहि -

"गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम् - (भाष्यम्) गापोर्ग्रहणे इण्पिबत्योर्ग्रहणं कर्तव्यम्। इणो यो गाशब्दः पिबतेर्यः पाशब्द इति वक्तव्यम्। इह मा भूत - अगासीन्नटः, अपासीद्धनमिति (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) वक्तव्यम्। इण्ग्रहणे तावद्वार्त्तम् निर्देशादेव व्यक्तं लुग्विकरणस्य ग्रहणम्इति पाग्रहणे चापि वार्तत्तम् - उक्तमेत्तत् - सर्वत्रैव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति गातिस्था ७७।।" इति (महाभाष्यम्)

 

 

"उपसर्गप्रादुर्भ्यामस्तिर्यच्परः"

(अष्टाध्यायी-..८७) इति सूत्रे भगवता पाणिनिना शब्लुग्विकरणसहितस्य "अस्ति"इत्यस्योपदेशो विहितः। तस्मात् कारणाद्-

()."अस गतिदीप्त्यादानेषु" इति भ्वादिगण उभयपदी सकर्मकः सेट् धातुः

(.)"अस भुवि" इति अदादिगणः परस्मैपदी अकर्मकः सेट् धातुः

()."असु क्षेपणे" इति दिवादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः

इत्येतेषु त्रिषु धातुषु शब्लुग्विकरणस्य अदादिगणस्य "अस भुवि"इति धातुरेवात्र ग्राह्यः

अत्र मानन्तु काशिकायामुद्धृतमेतद्वचनमेव-

"अभिषन्तीति।अदादित्वाच्छपो लुक्,'श्नसोरल्लोपः' इति

 

"अस्तेर्भूः" (अष्टाध्यायी-..५२) इति सूत्रे "अस्ते"इत्यंशे शब्लुग्विकरणेन श्तिपा प्रत्ययेन चोपदेशात् -

उपर्युक्तेषु त्रिषु असधातुषु शब्लुग्विकरणसहितस्य अदादिगणस्य "अस भुवि "इति धातोरेवात्र ग्रहणं कर्तव्यम्।अत्र पुनर्मानम्-

"अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्।नैतदस्ति निरनुबन्धक(व्या..५३) परिभाषयैवास्यतेर्न भविष्यति।तस्य ह्रुकारोऽनुबन्धः, "इदितो वा"(..५६) इति विशेषणार्थः कृतः।अस्तेस्त्वकार उच्चारणार्थ:,नानुबन्धः।एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे"

इति (न्यासः)

 

 

"उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्"

अष्टाध्यायी-(..६५) इति पाणिनिसूत्रेऽपि आचार्येण केचन धातवो विकरणसहिता निर्दिष्टास्तेऽधस्तात् प्रस्तूयन्ते।तद्यथा-

."सुनोति"-सुनोतीति श्नुविकरणसहितोपदेशात्-

()."षु प्रसवैश्वर्ययोः" इति भ्वादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्र प्रसवोऽभ्यनुज्ञानम् इति

()."षु प्रसवैश्वर्ययोः" इति अदादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्रापि प्रसवोऽभ्यनुज्ञानम् इति

().षूङ् प्राणिगर्भविमोचने" इति अदादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः

()."षूङ् प्राणिप्रसवे" इति कविकल्पद्रुमे तु "षूङ् सूतौ इति दिवादिगणः आत्मनेपदी सकर्मकः सेट् धातुः।तत्र सूतिर्नाम गर्भविमोचनमिति

()."षूञ् अभिषवे" इति कविकल्पद्रुमे "षूञ् सन्धाने,सोमादेः पीडने,मन्थने , चकारात् स्नाने" इति 

स्वादिगण उभयपदी सकर्मकोऽकर्मश्च  

अनिट् धातुः।अयं धातुः स्नानेऽकर्मकस्तथान्यत्र सकर्मको वर्तते

()."षू प्रेरणे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुः

इत्येतेषु षट्सु धातुषु श्नुविकरणयुतस्य स्वादिगणस्य "षुञ् अभिषवे" इति धातोर्ग्रहणं कर्त्तव्यम्

 

."सुवति"-सुवतीत्यत्र शविकरणसहितेनोपदेशात्-

उपर्युक्तेषु षट्सु धातुषु शविकरणसहितस्य तुदादिगणस्य"षू प्रेरणे" इति धातोः ग्रहणं करणीयम्

 

."सेध"-सेधेति शपा विकरणसहितेनोपदेशात्-

()."षिध गत्याम्" केषाञ्चिन्मते "षिधु गत्याम्" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः

()."षिधू शास्त्रे माङ्गल्ये " इति भ्वादिगणः परस्मैपदी सेट् धातुः।अत्र शास्त्रं नाम शासनमिति मैत्रेयशाकटायनौ, शास्त्रं नाम शिष्टिरिति चन्द्रदेवस्तथा शास्त्रं नाम शास्त्रविषयं शासनम् एवं मङ्गलं नाम मङ्गलविषया क्रियेति क्षीरस्वामी

कविकल्पद्रुमे तु धातुरयं शिवे शास्त्रे निर्दिष्टो वर्तते।तत्र शिवो नाम मङ्गलं तथा शास्त्रं नामानुशासनम्।अयं धातुः शासनार्थे सकर्मको मङ्गलार्थे चाकर्मको विद्यते

()."षिधु संराद्धौ" इति दिवादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः।अत्र संराद्धिर्नाम निष्पत्तिः सिद्धिरत्यर्थः

इत्येतेषु त्रिषु षिधधातुषु भ्वादिगणः शब्विकरणो षिधधातुरेवात्र ग्राह्यो नान्यः।तदत्र मानं-

"सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम्" इति (बालमनोरमा)

पुनश्च-

"सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं, तु सिध्यतेः"इति (तत्त्वबोधिनी)

 

"सुनोतेः स्यसनोः" (अष्टाध्यायी-..७७) इति सूत्रेऽपि "सुनोतेः" इत्यत्राचार्येण विकरणसहितो धातुरुपदिश्यते। तस्मात् पूर्वोक्तेषु षुधातुषु श्नुविकरणयुतः स्वादिगणः "षुञ् अभिषवे"इति धातुरत्र ग्राह्यः

 

"मीनातेर्निगमे" (अष्टाध्यायी-..८१)

इति पाणिनिव्याकरणसूत्रे "मीनाते:" इति श्नाविकरणेनोपदिश्यते।तस्माद्धि-

()."मीङ् हिंसायाम्" इति दिवादिगण आत्मनेपदी सकर्मकोऽनिट् धातुः

()."मीञ् हिंसायाम्" इति क्र्यादिगण उभयपदी सकर्मकोऽनिट् धातुः

()."मी गतौ" इति चुरादिगण पक्षे भ्वादिगणः उभयपदी सकर्मकोऽनिट् धातुश्च

इत्येतेषु त्रिषु मीधातुषु श्नाविकरणसहितः क्र्यादिगणः "मीञ् हिंसायाम्" इति धातुरेवात्र ग्राह्यो नान्यः

तदत्र मानं

"मीनातेरिह विकरणनिर्देशः , "मीञ् हिंसायाम्" (धातुपाठः-१४७६) इत्यस्य क्रैयादिकस्य ग्रहणं यथा सात्, "मीङ् हिंसायाम्" (धातुपाठः-११३७) इत्यस्य दैवादिकस्य ग्रहणं मा भूदित्येवमर्थम्। `मीञः` इति निर्देशो कृतो वैचित्र्यार्थः" इति (न्यासकारः)

 

पुनश्च-

"हिनुमीना" (अष्टाध्यायी-..१५) इति सूत्रेऽपि "हिनु" तथा "मीना" इत्युभौ धातू विकरणसहितौ समुपदिष्टौ।तद्यथा-

."हिनु"- 'हिनु' इति श्नुविकरणसहितः पठ्यते।तस्मादत्

"हि वर्धने" इति स्वादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः गृह्यते

 

."मीना"- मीनेति श्नाविकरणसहितः पठ्यते।तस्मादत्र पूर्वोक्तेषु त्रिषु मीधातुषु श्नाविकरणसहितः क्र्यादिगणः "मीञ् हिंसायाम्"इति धातुः गृह्यते

ज्ञातव्यम् - सूत्रे प्रयुक्तौ 'हिनु' तथा 'मीना' एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः

"हि गतौ" [गतौ वृद्धौ -धातुपाठः-] (धातुपाठः-१२५७), स्वादिभ्यः श्नुः ..७३ , गुणः। `प्रमीणाति` इति। `मी हिंसायाम्` [`मीञ्` -धातुपाठः-] (धातुपाठः-१४७६), क्र्यादित्वात्? शना। `प्रमीणीतः' " इति (न्यासकारः)

 

"मीनातिमिनोतिदीङां ल्यपि "

(अष्टाध्यायी-..५०) इति सूत्रे "मीनाति" तथा "मिनोति" इति उभयोरपि स्थलयोः विकरणसहितौ धातू समुपदिष्टौ।तद्यथा-

."मीनाति"- मीनातीति श्नाविकरणसहितो निर्दिश्यते तस्मादत्र पूर्वोक्तेषु त्रिषु मीधातुषु श्नाविकरणसहितः क्र्यादिगणः "मीञ् हिंसायाम्" इति धातुरत्र ग्रहीतव्यः

."मिनोति"- मिनोतीति श्नुविकरणयुतः पठ्यते।तस्मादत्र श्नुविकरणसहितः 

"डुमिञ् प्रक्षेपणे" इति स्वादिगणः उभयपदी सकर्मकोऽनिट् धातुः गृह्यते। तदुक्तं काशिकायां-

"मीञ् हिंसायाम्, डुमिञ् प्रक्षेपणे दीङ् क्षये इत्येतेषां धातूनां ल्यपि विषये, चकारादेचश्च विषये,उपदेश एव प्राक्प्रत्ययोत्पत्तेः"इति (काशिका)

 

"भवतेरः" (अष्टाध्यायी) इति 

इति सूत्रे श्तिपा प्रत्ययेन शब्विकरणेन चोपदेशो विद्यते।तस्मात्-

()."भू सत्तायाम्" इति भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः

()."भू प्राप्तौ" इति चुरादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः

अयं धातुरात्मनेपदी वर्तते।तदुच्यते-

"भू प्राप्तावात्मनेपदी" इति (क्षीरतरङ्गिणी धातुप्रदीपश्च)

()."भुवोऽवकल्कने" इति कल्पद्रुमे तु "भू शुद्धिन्तयोः मिश्रणे " इति चुरादिगणीयः परस्मैपदी सकर्मकः सेटः धातुश्च

इत्येतेषु त्रिषु भूधातुषु शब्विकरणो भ्वादिगणः "भू सत्तायाम्"इति धातुरत्र ग्राह्यः

तदुक्तं-

"भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते " इति (काशिका)

 

"एतेर्लिङि"(अष्टाध्यायी-..२४) इति सूत्रे "एते:" इति शब्लुग्विकरणेन श्तिपा प्रत्ययेन निर्दिश्यते।तस्मादत्र 

शब्लुग्विकरण "इण् गतौ" इति अदादिगणः परस्मैपदी सकर्मकः अनिट् धातुरत्र ग्राह्यः।सूत्रवृत्तौ दीक्षितेन तदुक्तम्-

"उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि।निरियाद् इति (सिद्धान्तकौमुदी)

 

"अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति"

(अष्टाध्यायी-..३७)

इति सूत्रे पुनराचार्येण विकरणसहितयोः "वनति तनोति" चेत्यनयोरुपदेशः कृतो वर्तते।तावेवात्र विचार्येते

."वनति"-'वनति' इति शब्विकरणेन श्तिपा प्रत्ययेन निर्दिश्यते।तस्माद्धि-

(). "वन षण सम्भक्तौ" इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।तत्र सम्भक्तिरर्थात् सम्यक्प्रकारेण सेवा।तदाह-

"सम्भक्तिः संसेवा" इति (क्षीरस्वामी) क्वचिद् "वन भक्तौ" इति पठ्यते।तत्र भक्तिर्नाम भजनम्।तदुच्यते-"भक्तिर्भजनम्" इति (क्षीरतरङ्गिणी)

()."वन सम्भक्तौ शब्दे " इति भ्वादिगणीयः परस्मैपदी सकर्मकोऽकर्मकश्च सेट् धातुः।अयं धातुः सम्भक्तौ(सेवने) सकर्मकस्तथा शब्देऽकर्मकः

(). "वन " "वनु नोच्यते।वनु इत्यपूर्व एवायं धातुर्न तु तनादिकस्यानुवादः।अयं भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः क्रियासामान्यवाचको वर्तते। कविकल्पद्रुमे तु "वनु व्यापृतौ" इति पठ्यते।तत्र "व्यापृतिर्व्यापारः।अयन्तु कगेवत् क्रियामात्र इत्यन्ये" इति (दुर्गादासः)

()."वनु याचने" इति तनादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः।चान्द्रमते तु परस्मैपदी

()."वन उपकृतिश्रद्धाघातशब्दोपतापेषु" इति "कविकल्पद्रुमे चुरादिगणीयः पक्षे भ्वादिगणीयः परस्मैपदी सकर्मकोऽकर्मकश्च सेट् धातुः।अयं" कैश्चिन्न मन्यते" इति (दुर्गादासः)

इत्येतेषु धातुषु शब्विकरणो भ्वादिगणीयो धातुरेवात्र गृह्यते तु तनादिः।अत्र प्रामाण्यम्-

"वनति भौवादिकः,तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते" इति (बालमनोरमा)

 

()."तनोति"-'तनोति' इति उविकरणनिर्देशात्-

()."तनु विस्तारे" इति तनादिगणीय उभयपदी सकर्मकः सेट् धातुः

()."तनु श्रद्धोपकरणयोः" इति चुरादिगणीयः पक्षे भ्वादिगणीयः परस्मैपदी सकर्मकोऽकर्मकश्च सेट् धातुः। कविकल्पद्रुमे "तनु उपकृतौ श्रद्धाघाते शब्दोपतापयोः " इति स्मर्यते।तत्

"उपकृतिरुपकारः ,अघातो हिंसावर्जनम् 

उपतापो रोगश्च" इति

इत्येतयोः द्वयोरत्र उविकरणसहितः तनादिगणीयः "तनु विस्तारे" इति धातुः गृह्यते

अत्र ध्यातव्यं तनादिगणे "वनु याचने" इति पृथक्तयापि उपदिश्यते।अतः उविकरस्य तनादिगणस्य "वनु याचने"इति धातोः ग्रहणं पृथङ्निर्देशाद् भविष्यति।मानञ्चात्र पुनः-

"अनुनासिक इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः हतः घ्नन्ति" इति (काशिका)

अन्यच्च-

"वनतिभौवादिकः,तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते" इति (बालमनोरमा)

पुनश्च 

"वनु याचने इति तनादौ पठितम्। तस्य उविकरणतया,उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम्" इति (बालमनोरमा)

 

"नित्यं करोतेः" (अष्टाध्यायी-..१०८) इति 

सूत्रेऽपि भगवता पाणिनिना उविकरणसहितस्य "करोतेः" इत्युपदेशात्-

()."कृञ् हिंसायाम् "इति स्वादिगण उभयपदी सकर्मकोऽनिट् धातुः

()."डुकृञ् करणे" इति तनादिगणीय उभयपदी सकर्मकोऽनिट् धातुः

इत्यनयोर्द्वयोः कृधात्वोः उविकरणसहितः तनादिगणः "डुकृञ् करणे" इति धातुरत्र गृह्यते

 

"अश्नोतेश्च" (अष्टाध्यायी-7.4.72)

इति सूत्रे आचार्यपाणिनिः "अश्नोते:" इति विकरणसहितम् अशधातुमुपदिशति।तस्मादिह-

()."अश भोजने" इति क्र्यादिगणः परस्मैपदी सकर्मकः सेट् धातुः

()."अशू व्याप्तौ सङ्घाते " इति स्वादिगणः आत्मनेपदी सकर्मकः सेट् धातुः।कविकल्पद्रुमे तु "अशू व्याप्तिसंहत्योः" इति पठ्यते।तत्र संहतिर्नाम समूहः

इत्यनयोर्द्वयो अशधात्वोः श्नुविकरणयुतः स्वादिगणः "अशू व्याप्तौ सङ्घाते " इति धातुः ग्राह्यो, तु क्र्यादिगणः भोजनार्थकोऽशुधातुः

"अश्नुतेश्च" इति सूत्रव्याख्यायां न्यासकारस्तदाह-

"अशू व्याप्तौ (धातुपाठः-१२६४), अनुदात्तेत्त्वादात्मनेपदम्, , एश्। अश्नोतेरिति विकरणनिर्देशः , अश भोजने` (धातुपाठः-१५२३) इत्येतस्य क्रैयादिकस्य निवृत्तये" इति (न्यासकारः)

अन्यद्धि

"श्नुविकरणनिर्देशः किम्।क्र्यादेरश भोजन इत्यस्य माभूत्" इति (तत्त्वबोधिनी)

 

"वृणोतेराच्छादने"(अष्टाध्यायी-..५४) इति सूत्रे श्यन्विकरणसहितो वृधातुरुपदिश्यते।तस्माद्धि-

()."वृञ् वरणे" इति स्वादिगण उभयपदी सकर्मकः सेट् धातुः

()."वृङ् सम्भक्तौ" इति क्र्यादिगणः आत्मनेपदी सकर्मकः सेट् धातुः

सम्भक्तिरत्र संसेवा।संसेवा अर्थात् सम्यक् सेवा सेवनं वेति

()."वृञ् आवरणे" इति चुरादिगण उभयपदी सकर्मकः सेट् धातुः

इत्येतेषु त्रिषु वृधातुषु श्यन्विकरणसहितः दिवादिगणस्थो "वृञ् वरणे" इति धातुरत्र ग्राह्यः

मानञ्चात्र पुनः

"वृणोतेः इति श्नुविकरणेन निर्देशो वृङो निवृत्त्यर्थः" इति (न्यासः)

हरतेऽनुद्यमनेऽच्" (अष्टाध्यायी 

३.२.९) इति पाणिनिसूत्रे शपा विकरणेन श्तिपा प्रत्ययेन च निर्दिश्यते तस्मादत्र -

(क)."हृञ् हरणे" इति भ्वादिगणीय उभयपदी द्विकर्मकोऽनिट् धातुः।अत्र 

हरणं प्रापणं स्वीकारः स्तैन्यं नाशनञ्चचेत्यर्थः।कविकल्पद्रुमे तु "हृञ् हृतौ" इति पठ्यते।तत्र "हृतिर्देशान्तरप्रापणा" इत्यर्थो निर्दिश्यते।

(ख)."हृ प्रसह्यकरणे" तथा कविकल्पद्रुमे "हृ प्रसह्यकृतौ" इति जुहोत्यादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।तत्र प्रसह्यकरणं नाम बलात्करणम् अर्थात् बलपूर्वकेन हठपूर्वकेन कार्यसम्पादनम् इति भावः।तत्र मानम्-

"प्रसह्यकृतिर्बलात्कारः" इति (कविकल्पद्रुमः)।

इत्यनयोर्द्वयोः हृधात्वोः शब्विकरणसहितस्य भ्वादिस्थस्य हृधातोर्ग्रहणं क्रियते।तदित्थं धातुविकरणं दृष्ट्वा तद्गणनिर्धारणं तदर्थनिर्धारणञ्च कर्तुं शक्यते नात्र संशयः।

 

एतदतिरिच्य अनिट्कारिकास्वपि विकरणसहिता धातवो निर्दिष्टास्तेऽधस्तात् प्रस्तूयन्ते

ऊदॄदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १ ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥ २ ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥ ३ ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥ ४ ॥ लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥ ५ ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥ ६ ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ ७ ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ ८ ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥ ९ ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ १० ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ ११

धातूनाम् अनुदात्तगणनाकारिकासु

(के धातवः निहताः/अनुदात्ताः इति परिगणनार्थं रचितासु कारिकासु)

 अनेके धातवः विकरणसहिता निर्दिष्टास्तेषां वर्णनम् अधस्तात् प्रस्तूयते-

१.यौति-अत्र शब्लुकविकरणेन निर्देशात् पूर्वोक्तेषु युधातुषु “यु मिश्रणामिश्रणयोः” इति अदादिगणीयो धातुः ग्रहीतव्यः।

२.पद्य-अत्र श्यना निर्देशो वर्तते।

तस्मात्

(क).”पद स्थैर्ये” इति भ्वादिगणीय परस्मैपदी अकर्मकोऽनिट् धातुः।

(ख).”पद गतौ”इति दिवादिगणीयः आत्मनेपदी सकर्मकोऽनिट् धातुः।

(ग).”पद गतौ”इति चुरादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।

इत्येतेषु त्रिषु धातुषु दिवादिगणीयः श्यन्विकरणसहितः पदधातुरत्र ग्राह्यः।

 

३.विद्यति-श्यना विकरणेन निर्देशोऽत्र वर्तते।

तस्मादत्र पूर्ववर्णितेषु पञ्चसु विदिधातुषु “विद सत्तायाम्”इति श्यन्विकरणसहितः दिवादिगणस्थो

“विद सत्तायाम्”इति धातुः गृह्यते।

 

४.विनद्-इत्यत्य श्नमा विकरणेन निर्देशो वर्तते।तस्मादत्र पूर्वोक्तेषु पञ्चसु विदधातुषु श्नम्विकरणसहितो रुधादिगणस्थो “विद विचारणे”इति धातुः स्वीकरणीयः।

 

५.स्विद्यति-अत्र श्यना विकरणेन श्तिपा प्रत्ययेन च निर्देशो विद्यते। तस्मात्-

(क).”ञिष्विदा स्नेहनमोचनयोः” केषाञ्चिन्मते “ञिष्विदा स्नेहनमोहनयोः”इति भ्वादिगणीय आत्मनेपदी सेट् धातुर्वर्तते।अयं धातुः मोहे स्नेहे चाकर्मकः,मोचने तु सकर्मकः वर्तते।

(ख).”ञिष्विदा अव्यक्ते शब्दे”इति भ्वादिगणीयः परस्मैपदी सेट् धातुः।

(ग).”ञिष्विदा गात्रप्रक्षरणे” इति दिवादिगणीयः परस्मैपदी अनिट् धातुः।

 अत्र श्यना विकरणेन निर्देशात् “ञिष्विदा”इत्येषु त्रिषु धातुषु श्यन्विकरणसहितः दिवादिगणस्थो गात्रप्रक्षरणार्थकः “ञिष्विदा”इति धातुरङ्गीकार्यः।

 

६.”बुध्यति”-अत्रापि श्यना विकरणेन श्तिपा प्रत्ययेन च निर्देशो विद्यते। तस्मात्-

(क).”बुध अवगमने” इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।तत्र “अवगमनं नाम ज्ञापनम्” इति क्षीरस्वामी।

(ख).”बुध अवगमने” इति दिवादिगणीय आत्मनेपदी सकर्मकोऽनिट् धातुः।

(ग).”बुधिर् बोधने” इति भ्वादिगणीय उभयपदी सकर्मकः सेट् धातुः।तत्र बोधनं नाम ज्ञानम्।

इत्येतेषु त्रिषु बुधिधातुषु दिवादिगणीयः श्यन्विकरणसहितः “बुध अवगमने”इति धातुत्र ग्राह्यः।

 

७.”पुष्य”-पुष्येति श्यना निर्दिश्यते।तस्मात्-

(क).”पुष्ट पुष्टौ” इति भ्वादिगणस्य परस्मैपदी सकर्मकः सेट् धातुः।

(ख).”पुष पुष्टौ” इति दिवादिगणस्य परस्मैपदी सकर्मकोऽनिट् धातुः।

(ग).”पुष पुष्टौ” इति क्र्यादिगणस्योभयपदी सकर्मकः सेट् धातुः।

(घ).”पुष धारणे” इति चुरादिगणस्योभयपदी सकर्मकः सेट् धातुः।

इत्येतेषु चतुर्षु पुषधातुषु श्यन्विकरणान्वितस्य दिवादिगणस्य “पुष पुष्टौ” इति धातोरेवात्र ग्रहणं भवति।

 

८.”मन्य”-मन्येति श्यना विकरणेन निर्दिश्यते। अतः-

(क).”मन ज्ञाने” इति दिवादिगणस्य आत्मनेपदी सकर्मकोऽनिट् धातुः।

(ख).”मनु अवबोधने”इति तनादिगणस्यात्मनेपदी सकर्मकः सेट् धातुः।

इत्यनयोर्द्वयोः मनधात्वोः श्यन्विकरणान्वितस्य दिवादिगणस्य “मन ज्ञाने”इति मनधातोरेवात्र ग्रहणं कर्तव्यं भवति।

 

९.”सिध्यति”-श्यना विकरणेन श्तिपा प्रत्ययेन च निर्दिश्यते।तस्मात्-

(क).”षिध गत्याम्” केषाञ्चिन्मते “षिधु गत्याम्” इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः।

(ख).”षिधू शास्त्रे माङ्गल्ये च” इति भ्वादिगणः परस्मैपदी सेट् धातुः।अत्र शास्त्रं नाम शासनमिति मैत्रेयशाकटायनौ, शास्त्रं नाम शिष्टिरिति चन्द्रदेवस्तथा शास्त्रं नाम शास्त्रविषयं शासनम् एवं मङ्गलं नाम मङ्गलविषया क्रियेति क्षीरस्वामी।

कविकल्पद्रुमे तु धातुरयं शिवे शास्त्रे च निर्दिष्टो वर्तते।तत्र शिवो नाम मङ्गलं तथा शास्त्रं नामानुशासनम्।अयं धातुः शासनार्थे सकर्मको मङ्गलार्थे चाकर्मको विद्यते।

(ग).”षिधु संराद्धौ” इति दिवादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः।अत्र संराद्धिर्नाम निष्पत्तिः सिद्धिरत्यर्थः।

इत्येतेषु त्रिषु षिधधातुषु पुनरत्र दिवादिगणः श्यन्विकरणसहितः “षिध संराद्धौ”इति धातुर्ग्राह्यः।

 

१०.”श्लिष्यति”-श्यना विकरणेन श्तिपा प्रत्ययेन च निर्दिश्यते।तस्मात्-

(क).”श्लिषु दाहे” इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः।

(ख)”.श्लिष आलिङ्गने” इति दिवादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।

(ग).”श्लिष श्लेषणे” इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः।

इत्येतेषु त्रिषु श्लिषधातुषु आलिङ्गनार्थको दिवादिगणः श्यन्विकरणः श्लिषधातुरत्र ग्राह्यः।

 

११.”तृप्यति”-श्यना विकरणेन निर्देशो वर्तते।तस्माद्धि-

(क).”तृप प्रीणने” इति दिवादिगणस्थः परस्मैपदी सकर्मकोऽनिट् धातुः।“इह प्रीणनं तृप्तिस्तर्पणञ्च”-(माधवीयधातुवृत्तिः),

प्रीणनं नाम प्रीतिः।“प्रीतिः सौहित्यम्”इति (क्षीरस्वामी),

कस्यचिन्मते प्रीणनमिह प्रीतीभावः प्रीतिकरणञ्च।

(ख).”तृप प्रीणने” इति स्वादिगणस्थः परस्मैपदी सकर्मकः सेट् धातुः।अत्र प्रीणनमित्युक्ते प्रीतीकरणम्।

(ग).”तृप तृप्तौ” इति तुदादिगणस्थः परस्मैपदी सकर्मकः सेट् धातुः।

(घ). “तृप तृप्तौ” क्षीरस्वामिमते तु “तृप सन्दीपने” इति चुरादिगणस्थः पक्षे भ्वादिगणस्थः परस्मैपदी सकर्मकः सेट् धातुः।

इत्येतेषु चतुर्षु तृपधातुषु श्यन्निर्देशादत्र दिवादिगणस्थः धातुः ग्रहणीयः।

 

१२.”दृप्यति”- अत्रापि श्यन्निर्देशो विद्यते। अत एव –

(क).”दृप हर्षमोहनयोः”इति माधवीयधातुवृत्तौ क्षीरतरङ्गिण्याञ्च,धातुप्रदीपे तु “दृप हर्षणमोचनयोः” इति दिवादिगणस्थः परस्मैपदी अकर्मकोऽनिट् धातुः।अत्र मोहनं नाम गर्व इति माधवक्षीरस्वामिनौ।

(ख).”दृप उत्क्लेशे” इति, कविकल्पद्रुमे तु “दृप बाधने” इति तुदादिगणस्थः परस्मैपदी सकर्मकः सेट् धातुः।तत्र “बाधनं विहतिः” इति दुर्गादासः।

(ग).”दृप सन्दीपने” इति चुरादिगणस्थः पक्षे भ्वादिगणस्थः परस्मैपदी सकर्मकः सेट् धातुः।

इत्येतेषु त्रिषु दृपधातुषु श्यन्विकरणसहितः दिवादिगणस्थो दृपधातुरत्र ग्राह्यः।

 

१३.”वसति”-वसतीति शपा विकरणेन निर्दिश्यते।तस्माद्धि-

(क).”वस निवासे” इति भ्वादिगणीयः परस्मैपदी अकर्मकोऽनिट् धातुः।

(ख).”वस आच्छादने” इति कविकल्पद्रुमे तु “वस स्तृतौ” इति अदादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः।स्तृतिरिह आच्छादनपूर्वकधारणम्।

(ग).”वस स्तम्भे” इति दिवादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः।स्तम्भ इह नम्रतारहितीभावः।

(घ).”वस निवासे” इति चुरादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः।

(ङ).”वस स्नेहछेदापहरणेषु” इति कविकल्पद्रुमे च “वस स्नेहछिदोश्च चकाराद् वधे च”।स्नेह इह प्रीतिः।

इत्येतेषु पञ्चसु वसधातुषु शब्विकरणसहितस्य भ्वादिस्थस्य “वस निवासे” इति धातुरेवात्र ग्राह्यः।

 

 

 

 

 

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)