भूवादयो धातवः

कौमुदी बालमनोरमा तत्त्वबोधिनी लघुसिद्धान्तकौमुदी सुधा टीका सरला टीका प्रौढमनोरमा लघुशब्देन्दुशेखरः महाभाष्यम्
पदच्छेदः  भू-वा-आदयः ( प्रथमा-बहुवचनम् ) , धातवः ( प्रथमा-बहुवचनम् )
अनुवृत्तिः  -
अधिकारः  -
अनुवृत्तिसहितं सूत्रम्  भूवादयः धातवः
सूत्रप्रकारः संज्ञासूत्रम् ( धातुसंज्ञा )
'भू' इत्यादयः शब्दाः क्रियावाचिनि अर्थे धातुसंज्ञकाः भवन्ति ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातु: इति संज्ञा प्रकृतसूत्रेण विधीयते । भू-आदीनाम् शब्दानाम् क्रियावाचिनि अर्थे धातुसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । अत्र भू-आदीनाम् इत्यनेन भू, एधँ, स्पर्धँ, गाध्, बाध्... इत्यादयः प्रायेण २००० शब्दाः गृह्यन्ते । एतेषाम् सर्वेषाम् आवली धातुपाठः नाम्ना ज्ञायते । एते सर्वे धातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति, अतः एते औपदेशिकधातवः इति नाम्ना अपि प्रसिद्धाः सन्ति ।
धातुपाठः
पाणिनीयव्याकरणस्य प्रायेण २००० धातूनाम् सङ्कलनम् धातुपाठः इति नाम्ना प्रसिद्धम् अस्ति । अस्य धातुपाठस्य मुख्यानि वैशिष्ट्यानि एतानि —
१. धातुपाठे विद्यमानः धातवः दशसु गणेषु विभाजिताः सन्ति — भ्वादिगणः (~१००० धातवः), अदादिगणः (~७० धातवः), जुहोत्यादिगणः (~२५ धातवः), दिवादिगणः (~१५० धातवः), स्वादिगणः (~३५ धातवः), तुदादिगणः (~१७० धातवः), रुधादिगणः (~२५ धातवः), तनादिगणः (~१० धातवः), क्र्यादिगणः (~७० धातवः), चुरादिगणः (~ ४५० धातवः) । एतादृशम् विभाजनम् लट्-लङ्-लोट्-विधिलिङ्-लकारेषु विद्यमानानाम् रूपाणाम् आधारेण कृतम् अस्ति । प्रत्येकस्मिन् गणे धातवः पुनः पदम् अनुसृत्य, स्वरम् अनुसृत्य, अन्तिमवर्णम् च अनुसृत्य रचिताः सन्ति ।
२. धातुपाठे धातूनाम् स्थापनम् अनुबन्धेन सह कृतं दृश्यते । धातुषु विद्यमानानाम् सर्वेषाम् अपि अनुबन्धानाम् प्रक्रियायाम् विशिष्टं कार्यम् विद्यते ।
३. धातुपाठे कानिचन सूत्रसदृशानि लघुवाक्यानि अपि विद्यन्ते । यथा, चर्करितं च, स्वादयः ओदितः, आकुस्मीया आत्मनेपदिनः - इत्यादीनि । एतानि सर्वाणि गणसूत्राणि नाम्ना ज्ञायन्ते ।
४. अद्यतनकाले उपलब्धे धातुपाठे धातवः अर्थेन सह एव विद्यन्ते । परन्तु पाणिनिना मूलरूपेण यः धातुपाठः विरचितः, तस्मिन् अर्थाः नैव आसन्, अपितु एतान् अर्थान् भीमसेनः इत्याख्य कश्चन अर्वाचीनः वैयाकरणः तत्र संस्थापितवान् इति पण्डितानां सामान्यं मतम् । धातुपाठे विद्यमानाः एते अर्थाः केवलम् निर्देशस्वरुपिणः सन्ति, धातूनाम् प्रयोगस्य सर्वान् अर्थान् न गृह्णन्ति इति अपि तेषाम् अभिप्रायः । The meanings of dhatus available in the dhatupath are purely indicatory in nature and should neither to be considered exhaustive nor precise.
५. धातुपाठस्य केचन पाठभेदाः अपि विद्यन्ते । एतेभ्यः त्रयः पाठभेदाः वैयाकरणैः विशेषरूपेण अधीयन्ते - क्षीरस्वामिना विरचितः क्षीरतरङ्गिणीधातुपाठः,
मैत्रेयरक्षितेन विरचितः धातुप्रदीपः तथा च सायणाचारयेण विरचिता माधवीयधातुवृत्तिः इति । सिद्धान्तकौमुद्याम् अपि कश्चन धातुपाठः भट्टोजीदीक्षितेन स्थापितः अस्ति । यद्यपि एतेषु सर्वेषु अपि पाठभेदेषु विद्यमानाः धातवः प्रायेण समानाः एव, तथापि देशकालभेदम् उच्चारणभेदम् च अनुसृत्य तत्र केचन भेदाः अपि अवश्यम् दृश्यन्ते । अतएव धातूनाम् समग्ररूपेण (precise) सङ्ख्या नैव वक्तुं शक्यते । सामान्यरूपेण २००० धातवः सन्ति - इत्यनैनैव अलम् ।
६. धातुपाठेषु विद्यमानानाम् धातूनाम् क्रमः विशिष्टं हेतुं मनसि निधाय पाणिनिना विरचितः अस्ति । तथापि अयं क्रमः सूत्रक्रमसदृशः नैव महत्त्वपूर्णः । सूत्रपाठे यथा सूत्राणाम् क्रमम् अनुसृत्य पूर्वपरत्वम् असिद्धत्वं वा वर्तते, तथा धातुपाठे नैव किञ्चित् विद्यते । अतः धातुपाठस्य धातुनां क्रमपरिवर्तनम् क्रियते चेदपि नैव दोषाय । यथा, केषुचन नूतनसंस्करणेषु धातवः अन्वेषणसौलभ्यार्थम् अकारादिक्रमेण अपि स्थापिताः सन्ति तदपि समीचीनमेव ।
'भूवादयः' इति शब्दे 'वा' ग्रहणस्य प्रयोजनम्
प्रकृतसूत्रे पाणिनिना भूवादयः इत्यत्र वा इति शब्दः स्थापितः अस्ति । 'भू-वा-आदयः' इति अत्र पदविग्रहः । अत्र वाग्रहणम् माङ्गल्यार्थम् उपयुज्यते इति प्रकृतसूत्रस्य भाष्ये भाष्यकारेण स्पष्टी क्रियते । मङ्गलादीनि मङ्गममध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते इति उक्त्वा अत्र भाष्यकारः स्पष्टी करोति, यत् शास्त्रग्रन्थेषु सामान्यरूपेण प्रारम्भे, मध्ये, तथा च अन्ते - इति त्रिषु स्थलेषु मङ्गलाचरणम् कृतं दृश्यते । इमाम् एव प्रथाम् अनुसृत्य सूत्रपाठस्य 'मध्यस्थले' विद्यमानम् मङ्गलाचरणम् वाशब्देन कृतम् अस्ति इति अत्र भाष्यकारस्य आशयः ।
काशिकाकारेण तु अत्र कश्चन अन्यः पक्षः अपि प्रदर्शितः अस्ति । अस्मिन् पक्षे भूवादयः शब्दस्य भू + वादयः इति विग्रहः क्रियते । अत्र विद्यमानस्य भू-शब्दस्य अर्थः 'क्रियासामान्यः' (a general action) इति स्वीक्रियते, न हि भू-धातुः इति । एवमेव, वादयः इति शब्दस्य अर्थः 'यः वाचकत्वेन विधीयते सः' (indicator) इति अत्र गृह्यते । अनेन क्रियासामान्याः अर्थाः यैः शब्दैः वाचकत्वेन विधीयन्ते ते शब्दाः धातुसंज्ञका भवन्ति (words that indicate a general action), इति अर्थः लभ्यते । धातुपाठे विद्यमानानाम् शब्दानाम् क्रियावाचिनि अर्थे एव धातुसंज्ञा भवति, अन्येषु अर्थेषु न, इति अत्र आशयः । अतएव भू शब्दस्य पृथिवी अस्मिन् अर्थे धातुसंज्ञा न भवति ।

भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञका भवन्ति। भू — भवति। एध — एधते। स्पर्ध — स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते।
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते।
भुवो वार्थं वदन्तीति भ्वर्था वा वादयः स्मृताः॥
धातुप्रदेशाः — धातोः ३.१.९१ इत्येवमादयः॥

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)